भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.145

6.145.1

श्रीमहादेव उवाच।
ततो गच्छेः महत्तीर्थे संगमेश्वरमुत्तमम् ।
यत्र हस्तिमती पुण्या साभ्रमत्या हि संगता

6.145.2

शापं कौडिन्यमुनितः प्राप्य शुष्काभवन्नदी ।
बहिश्चर्येति नाम्ना वै लोके ख्यातिमुपागता

6.145.3

तत्तीर्थं संप्रवक्ष्यामि पुण्यं त्रैलोक्यविश्रुतम् ।
सर्वपापहरं पुण्यं त्रैलोक्ये चापि विश्रुतम्

6.145.4

यत्र तीर्थे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम् ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं प्रगच्छति

6.145.5

शृणु देवि प्रवक्ष्यामि एतच्छापस्य कारणम् ।
यथैह शुष्करूपा हि जाता शापस्य कारणात्

6.145.6

यत्र साभ्रमती पुण्या गंगा नाम महानदी ।
तत्र हस्तिमती नाम गंगया सह संगता

6.145.7

तत्रारब्धं च मुनिना तपो वै परमं महत् ।
एवं बहुगते काले ऋषिणा परमात्मना

6.145.8

आराधितो हृषीकेशो नारायणनिरंजनः ।
तस्यास्तटे तु देवेशि वर्षाणि च बहून्यपि

6.145.9

गतानि च विशेषेण मुनेस्तस्य तु पार्वति ।
कदाचिद्दैवयोगाच्च वर्षाकालः समागतः

6.145.10

नदी तत्र तु संपूर्णा कालयोगेन सुव्रते ।
तत्कौंडिन्येन ऋषिणा स्थानं त्यक्तं तदा निशि

6.145.11

रात्रौ दुःखं महज्जातं हाहेति करुणो रुदन् ।
किं कर्तव्यमिति ध्यायन्नतिचिंतापरोऽभवत्

6.145.12

आश्रमो हि महादिव्यो ऋषिणैव समायुतः ।
स गतो वारियोगेन हस्तिमत्यां सुरोत्तमे

6.145.13

फलानि चैव मूलानि पुस्तकानि बहून्यपि ।
तानि तस्यां गतान्येव वारियोगेन सुंदरि

6.145.14

स कौंडिन्यो ऋषिश्रेष्ठः शशाप तां नदीं किल ।
उदकेन विना त्वं च भविष्यसि कलौ युगे

6.145.15

एवं स दत्त्वा वै शापं हस्तिमत्या महेश्वरि ।
गतोऽसौ विप्रप्रवरो विष्णुलोकं सनातनम्

6.145.16

अद्यापि वर्तते तीर्थं संगमेश्वरसंज्ञकम् ।
यं दृष्ट्वा मुच्यते पापी ब्रह्महत्यादि पातकात्

6.145.145

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे सोमेश्वरतीर्थमहिमानाम पंचचत्वारिंशदधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc