भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.137

6.137.1

महादेव उवाच।
अथ नंदिप्रदेशात्तु यथा साभ्रमती नदी ।
समायाता विकीर्णं च वनं विप्रर्षिसेवितम्

6.137.2

बहुधा जलवेगेन पर्वतानां च रोधसः ।
सप्तधा प्रविभक्ता च दक्षिणोदधिगामिनी

6.137.3

आद्या साभ्रमती पुण्या द्वितीया सेटिका तधा ।
तृतीया वल्किनी पुण्या चतुर्थी च हिरण्मयी

6.137.4

सर्वपापहरा प्रोक्ता हस्तिमत्यथ पंचमी ।
वेत्रवती सा च षष्ठी वृत्रेण निर्मिता पुरा

6.137.5

इयं सा परमा देवी वृत्रकूपाद्विनिःसृता ।
वेत्रवती ततो जाता महापापप्रणाशिनी

6.137.6

भद्रामुखी शुभप्राया सप्तमी लोकपावनी ।
एतैस्तु सप्तभिर्देवि तांस्तान्जनपदांस्तथा

6.137.7

पवित्रीकृत्य चैकेन सप्तस्रोता प्रतिष्ठिता ।
विकीर्णतीर्थे यः श्राद्धं पितॄनुद्दिश्य दास्यति

6.137.8

गयापिंडप्रदानस्य फलं यत्तद्भविष्यति ।
अवकीर्णा च्युता ये च लुप्तपिंडोदकक्रियाः

6.137.9

ते विकीर्णे प्रमुच्यंते दत्तपिंडोदकक्रियाः ।
तत्र श्राद्धं तु यः कुर्याद्गाणपत्यं भवेद्ध्रुवम्

6.137.10

तस्मात्त्रयीविधानेन श्रद्धया श्राद्धमाचरेत् ।
अस्मिंस्तीर्थे विशेषेण सप्तनद्युदये द्विजाः

6.137.11

स्नानं कुरुत विप्रेंद्रा ऋषिलोकमभीप्सवः ।
इत्युक्तं कश्यपेनाथ द्विजान्प्रति विशेषतः

6.137.12

यदि चेत्क्रियते स्नानं सर्वदुःखापहं सदा ।
तीर्थानां प्रवरं तीर्थं क्षेत्राणामुत्तमोत्तमम्

6.137.13

तीर्थमेतद्विकीर्णं च शुभदं रोगदोषहृत् ।
कुर्वंत्यत्र विशेषेण ये स्नानं सर्वदा कलौ

6.137.14

ते नराः पुण्यभाजो हि जायंते नात्र संशयः ।
गयातीर्थसमं तीर्थं विकीर्णं पावनं परम् ।
पितॄणां पुण्यदं नित्यं लोकानां दुःखनाशनम्

6.137.15

इति विकीर्णतीर्थम् ।
तीर्थादस्मात्परं तीर्थं श्वेतोद्भवमनुत्तमम् ।
यत्र श्वेता नदी जाता मत्पृष्ठोदरभस्मना

6.137.16

विश्रुता त्रिषु लोकेषु सर्वपापप्रणाशिनी ।
हरांगभस्मसंयोगात्जाता देवैस्तु मानिता

6.137.17

तस्यां स्नातः शुचिर्दांतस्त्रिरात्रमुषितः पुमान् ।
महाकालेश्वरं दृष्ट्वा रुद्रलोके महीयते

6.137.18

पिंडं पितृभ्यो यो दद्यात्तस्यास्तीरे कुशैस्तिलैः ।
सुतृप्ताः पितरस्तस्य भवंतीति न संशयः

6.137.19

श्वेतगंगामहापुण्या दुःखदारिद्र्यमोचनी ।
यत्र स्नानेन भो देवि परं सुखमवाप्यते

6.137.20

तस्या वै संगमे पुण्ये नित्यं तिष्ठामि पार्वति ।
येऽत्र दानं प्रकुर्वंति स्नानं च तत्र सुंदरि

6.137.21

तदनंतफलं तस्य भवेद्वै नात्र संशयः ।
तत्र भूतेश्वरो देवः संगमे वसते ध्रुवम्

6.137.22

तत्र धूपं च दीपं च पुष्पमारार्तिकं तथा ।
ये कुर्वंति नरश्रेष्ठास्ते नराः पुण्यरूपिणः

6.137.23

बिल्वदलं समादाय यो ददाति शिवोपरि ।
वांच्छितं लभते नित्यं श्वेतायां शिवसंनिधौ

6.137.137

इति श्रीपाद्मे महापुराणे पंचपंचात्साहस्र्यां संहितायामुत्तरखंडे।
उमामहेश्वरसंवादे श्वेतातीर्थंनाम सप्तत्रिंशाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc