पद्म पुराण · अध्याय 6.138
महादेव उवाच।
गणतीर्थं ततो गच्छेत्तीर्थयात्रापरायणः ।
त्रिविष्टपमिति प्रोक्तं गणैस्तु चंदना तटे
त्रिविष्टपे नरः स्नात्वा पूर्णमास्यां समाहितः ।
संशयो नात्र कर्त्तव्यो मुच्यते ब्रह्महत्यया
चतुरो वार्षिकान्मासान्स्थितिर्यस्य त्रिविष्टपे ।
सोऽपि पुण्यो महाभागे रुद्रलोके महीयते
गणतीर्थे नरः स्नात्वा कृष्णाष्टम्यामुपोषितः ।
बकुलासंगमे स्नात्वा स्वर्गं गच्छति मानवः
तस्मिंस्तीर्थे नरः स्नात्वा बकुलेशं विलोक्य च ।
गणेश्वरप्रसादेन गाणपत्यमवाप्नुयात्
इदं पवित्रं परमं पुण्यायुष्यविवर्द्धनम् ।
श्रुत्वा तु लभते पुण्यं गंगास्नानसमं नरः
अत्र स्थित्वा निराहारो जितेंद्रिय समाहितः ।
जपत्येवं परं देवं गणेश्वरं मनोरमम्
संप्राप्नोत्यखिलान्भोगान्सत्यं सत्यं वरानने ।
अत्र राजा सोमवंशी विश्वदत्तः स वीर्यवान्
तेन तपो महत्तप्तं बहुकालं सुरेश्वरि ।
गाणपत्यं तदा प्राप्तं श्रीगणेशप्रसादतः
वसिष्ठो वामदेवश्च होडः कौशीतको मुनिः ।
भरद्वाजोंगिराश्चैव विश्वामित्रोऽथ वामनः
एते वै मुनयः सर्वे पुण्यरूपा महेश्वरि ।
नित्यं सेवां प्रकुर्वंति श्रीगणेशप्रसादतः
अपुत्रो लभते पुत्रान्निर्द्धनो लभते धनम् ।
अविद्यो लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात्
किमन्यद्बहुनोक्तेन भूयोभूयो वरानने ।
योऽत्र स्नानं प्रकुर्वीत पूजनं वा करोति च
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ।
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे
नांतरं देवि पश्यामि श्रीविष्णोश्च प्रसादतः
इति श्रीपाद्मे महापुराणे पंचपंचात्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे बकुलासंगमे गणतीर्थं नामाष्टत्रिंशाधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0