भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.120

6.120.1

सूत उवाच।
इति वाक्यं समाकर्ण्य पुनः पप्रच्छ पावकिः ।
शालग्रामार्चनं भूयस्तच्छृणुध्वं तपोधनाः

6.120.2

कार्तिकेय उवाच।
भगवन्योगिनां श्रेष्ठ सर्वेधर्माः श्रुता मया ।
शालग्रामार्चनं ब्रूहि विस्तरेण मम प्रभो

6.120.3

ईश्वर उवाच।
साधुसाधु महाप्राज्ञ यन्मां हि परिपृच्छसि ।
तदहं संप्रवक्ष्यामि श्रूयतां मम वत्सल

6.120.4

शालग्रामशिलायां तु त्रैलोक्यं सचराचरम् ।
महाशय महासेन नित्यं तिष्ठति संहितम्

6.120.5

दृष्टं प्रणमितं येन स्नापितं पूजितं तथा ।
यज्ञकोटिगुणं पुण्यं गवां कोटिफलं लभेत्

6.120.6

छिन्नस्तेन तथा वत्स गर्भवासः सुदारुणः ।
पीतं येन सदा विष्णोः शालग्रामशिलाजलम्

6.120.7

कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः ।
शालग्रामशिला पुत्र पूजयित्वाच्युतो भवेत्

6.120.8

शालग्रामशिला बिंबं हत्वा कोटिविनाशनम् ।
स्मृतं संकीर्तितं ध्यातं पूजितं च नमस्कृतम्

6.120.9

शालग्रामशिलां दृष्ट्वा यांति पापान्यनेकशः ।
सिंहं दृष्ट्वा यथा यांति वने मृगगणा भयात्

6.120.10

नमस्कारं तु मनुजः शालग्रामशिलार्चने ।
भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिमवाप्नुयात्

6.120.11

वैवस्वतभयं नास्ति तथा मरणजन्मनोः ।
यः करोति नरो नित्यं शालग्रामशिलार्चनम्

6.120.12

गंधपाद्यार्घनैवेद्यैर्दीपैर्धूपैर्विलेपनैः ।
गीतैर्वाद्यैस्तथा स्तोत्रैः शालग्रामशिलार्चनम्

6.120.13

कुरुते मानवो यस्तु कलौ भक्तिपरायणः ।
कल्पकोटिसहस्राणि रमते विष्णुसद्मनि

6.120.14

शालग्रामनमस्कारो भावेनापि नरैः कृतः ।
मानुषत्वं कथं तेषां मद्भक्ता ये नरा भुवि

6.120.15

मद्भक्तास्तीव्रपापिष्ठा मत्प्रभुं न नमंति ये ।
वासुदेवं न ते ज्ञेया मद्भक्ताः पापमोहिताः

6.120.16

मद्भक्तोऽपि च यो भूत्वा भुंक्ते त्वेकादशीदिने ।
स याति ह्यंधतामिस्रे निरयं मम घातकः

6.120.17

मल्लिंगस्पर्शनं कार्यं नान्या शुद्धिर्विधीयते ।
या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा

6.120.18

यस्तां नोपवसेन्मर्त्यः स पापी श्वपचाधिकः ।
शालग्रामशिलायां तु सदा पुत्र वसाम्यहम्

6.120.19

दत्तं देवेन तुष्टेन स्वस्थानं मम भक्तितः ।
पद्मकोटिसहस्रैस्तु पूजिते मयि यत्फलम्

6.120.20

तत्फलं कोटिगुणितं शालग्रामशिलार्चनात् ।
पूजितोऽहं न तैर्मर्त्यैर्नमितोऽहं न तैर्नरैः

6.120.21

न कृतं मर्त्यलोके यैः शालग्रामशिलार्चनम् ।
शालग्रामशिलाग्रे तु यः करोति ममार्चनम्

6.120.22

तेनार्चितोऽहं सेनानीर्युगानामेकविंशतिम् ।
किमर्चितैर्लिंगशतैर्विष्णुभक्तिविवर्जितैः

6.120.23

शालग्रामशिलाबिंबं नार्चितं यदि पुत्रक ।
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम्

6.120.24

शालग्रामशिलाग्रे तु सर्वं याति पवित्रताम् ।
भुक्त्वान्यदेवनैवेद्यं द्विजश्चांद्रायणं चरेत्

6.120.25

भुक्त्वा केशवनैवेद्यं यज्ञकोटिफलं लभेत् ।
पादोदकेन देवस्य हत्याकोटिसमन्विताः

6.120.26

शुद्ध्यंति नात्र संदेहस्तथा शंखोदकेन हि ।
यो हि माहेश्वरो भूत्वा वैष्णवं च न पूजयेत्

6.120.27

द्वेष्टा च याति नरकं यावदिंद्राश्चतुर्दश ।
ज्येष्ठाश्रमी गृहे यस्य मुहूर्त्तमपि विश्रमेत्

6.120.28

पितामहा युगान्यष्टौ भवत्यमृतभोजिनः ।
संसारे दुःखकांतारे निमज्ज्यंते नराधमाः

6.120.29

वर्षकोटिसहस्राणि कृष्णाराधनवर्जिताः ।
स्नेहादभ्यर्चितैर्लिंगैः शालग्रामसमुद्भवैः

6.120.30

मुक्तिं प्रयांति मनुजा योगसांख्येन वर्जिताः ।
मल्लिंगकोटिभिर्दृष्टैर्यत्फलं पूजितैः स्तुतैः

6.120.31

शालग्रामशिलायां तु एकस्यामिह तद्भवेत् ।
द्वादशैव शिला यो वै शालग्रामसमुद्भवाः

6.120.32

अर्चयेद्वैष्णवो नित्यं तस्य पुण्यं न बोध मे ।
कोटिलिंगसहस्रैस्तु पूजितैर्जाह्नवी तटे

6.120.33

काशीवासे युगान्यष्टौ दिनेनैकेन तद्भवेत् ।
किं पुनर्बहुना यस्तु पूजयेद्वैष्णवो नरः

6.120.34

नाहं ब्रह्मादयो देवाः संख्यां कर्तुं समीहते ।
तस्माद्भक्त्या च मद्भक्तैः प्रीत्यर्थं मम पुत्रक

6.120.35

कर्त्तव्यं मम तद्भक्त्या शालग्रामशिलार्च्चनम् ।
शालग्रामशिलारूपी यत्र तिष्ठति केशवः

6.120.36

तत्र देवासुरा यक्षा भुवनानि चतुर्दश

6.120.37

सुराणां कीर्तनैः सर्वैः कोटिभिश्च फलं लभेत् ।
तत्फलं कीर्त्तनादेव केशवे सुकृतं कलौ

6.120.38

शालग्रामशिलाग्रे तु सकृत्पिंडेन तर्पिताः ।
वसंति पितरस्तस्य न संख्या तत्र विद्यते

6.120.39

ये पिबंति नरा भक्त्या शालग्रामशिलाजलम् ।
पंचगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम्

6.120.40

प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः ।
चांद्रायणैः सुचीर्णैश्च पीत्वा पादोदकं हरेः

6.120.41

यः करोति तडागे तु प्रतिमां जलशायिनीम् ।
कोटिभिश्चापि किं कार्यमन्यदेवैश्च पूजितैः

6.120.42

विष्णुमुख्यास्तु वै देवास्तत्र जल्पंति वै सह ।
प्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक

6.120.43

फलप्रमाणं नैवास्तिशालग्रामशिलार्चन ।
यो ददाति शिलां विष्णोः शालग्रामसमुद्भवाम्

6.120.44

विप्राय विष्णुभक्ताय तेनेष्टं क्रतुभिः शतैः ।
गृहेऽपि वसतस्तस्य गंगास्नानं दिनेदिने

6.120.45

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
शालग्रामशिलातोयैरभिषेकं समाचरेत्

6.120.46

स्वर्गे मर्त्ये च पाताले पाषाणाः संति वै गुह ।
शालग्रामशिला ग्राव्णा नास्ति नास्ति समा पुनः

6.120.47

मानुषे दुर्ल्लभे लोके सफलं तस्य जीवितम् ।
तिलप्रस्थशतं भक्त्या यो ददाति दिनेदिने

6.120.48

तत्फलं समवाप्नोति शालग्रामशिलार्चनात् ।
पत्रं पुष्पं फलं तोयं मूलं दूर्वादलं तथा

6.120.49

जायते मेरुणा तुल्यं शालग्रामे समर्पितम् ।
विधिहीनोऽपि यः कश्चित्क्रियामंत्रविवर्जितः

6.120.6.120.50

चक्रांकभुज आप्नोति सम्यक्शास्त्रोदितं फलम् ।
यत्तु पूर्वं मया दृष्टं केशवे क्लेशनाशनम्

6.120.51

तत्सर्वं कथयिष्यामि तव स्नेहेन पुत्रक ।
क्व त्वं वससि हे विष्णो किमाधारः किमाश्रयः

6.120.52

कथं वा प्रीयसे देव तत्सर्वं कथयस्व मे ।
श्रीकृष्ण उवाच।
निवसामि सदा शंभो शालग्रामोद्भवेऽश्मनि

6.120.53

तत्रैव रथचक्रांके यानि नामानि मे शृणु ।
द्वारदेशे समे चक्रे दृश्येते नांतरं यदि ।
वासुदेवः स विज्ञेयः शुक्लश्चैवातिशोभनः

6.120.54

प्रद्युम्नः सूर्यवक्त्रस्तु नीलदीप्तिस्तथैव च ।
सुषिरं च्छिद्रबहुलं दीर्घाकारं तु तद्भवेत्

6.120.55

अनिरुद्धस्तु पीताभो वर्त्तुलश्चातिशोभनः ।
रेखात्रयांकितो द्वारि दृष्टपद्मेन चिह्नवत्

6.120.56

श्यामो नारायणो देवो नाभिचक्रे तथोन्नते ।
दीर्घ रेषा समोपेतो दक्षिणे सुषिरान्वितः

6.120.57

ऊर्ध्वंमुखं च जानीयात्सुंदरं हरिरूपिणम् ।
कामदं मोक्षदं चैव अर्थदं च विशेषतः

6.120.58

परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितः ।
बिंबाकृतिस्तथा पृष्ठे सुषिरं चातिपुष्कलम्

6.120.59

कृष्णवर्णस्तथा विष्णुर्मूले चक्रे सुशोभने ।
द्वारोपरि तथा रेखा लक्ष्यते मध्यदेशतः

6.120.60

कपिलो नरसिंहश्च पृथुचक्रः सुशोभितः ।
ब्रह्मचर्येण पूज्योसावन्यथा विघ्नदो भवेत्

6.120.61

वाराहः शक्तिलिंगस्तु चक्रे च विषमे स्मृते ।
इंद्र नीलनिभः स्थूलस्त्रिरेखो नाभितः शुभः

6.120.62

दीर्घाकांचनवर्णाया बिंदुत्रयविभूषिता ।
मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा

6.120.63

कूर्मस्तथोन्नतः पृष्ठे वर्तुलश्चक्रपूरितः ।
हरितं वर्णमाधत्ते कौस्तुभेन तु चिह्नितः

6.120.64

हयग्रीवो हयाकारो रेखापंचकभूषितः ।
बहुबिंदुसमाकीर्णः पृष्ठे नीलं च रूपकम्

6.120.65

वैकुंठमविभिन्नांगं चक्रमेकं तथा ध्वजम् ।
द्वारोपरि तथा रेखा गुंजाकारा सुशोभना

6.120.66

श्रीधरस्तु तथा देवश्चिह्नितो वनमालया ।
कदंबकुसुमाकारो रेखापंचकभूषितः

6.120.67

वर्तुलश्चापि हृस्वश्च वामनः परिकीर्तितः ।
अतसीकुसुमप्रख्यो बिंदुना परिशोभितः

6.120.68

सुदर्शनस्ततो देवः श्यामवर्णो महाद्युतिः ।
वामपार्श्वे गदाचक्रे रेखा चैव तु दक्षिणे

6.120.69

दामोदरस्तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् ।
दूर्वाभं द्वारसंकीर्णं पीतरेखं तथैव च

6.120.70

नानावर्णो ह्यनंतस्तु नानाभोगेन चिह्नितः ।
अनेकमूर्तिकोभिन्नः सर्वकामफलप्रदः

6.120.71

विदिक्षुदिक्षुसर्वासु यस्योर्ध्वं दृश्यते मुखम् ।
पुरुषोत्तमः स विज्ञेयो भुक्तिमुक्तिफलप्रदः

6.120.72

दृश्यते शिखरे लिंगं शालग्रामशिलोद्भवम् ।
यस्य योगेश्वरो देवो ब्रह्महत्यां व्यपोहति

6.120.73

आरक्तः पद्मनाभस्तु पंकजं वक्त्रसंयुतम् ।
तस्याभ्यर्चनतो नित्यं द्ररिद्रस्त्वीश्वरो भवेत्

6.120.74

चक्रांकितं हिरण्यांगं रश्मिजालं विनिर्दिशेत् ।
सुवर्णरेखाबहुलं स्फाटिकद्युतिशोभितम्

6.120.75

अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति च ।
पांडुरा पापदहनी पितापुत्रफलप्रदा

6.120.76

नीला प्रयच्छती लक्ष्मीं रक्ता रोगप्रदायिनी ।
रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी

6.120.77

एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम् ।
तृतीयं चाच्युतं विद्याच्चतुर्थं तु जनार्दनम्

6.120.78

पंचमं वासुदेवं च षष्ठं प्रद्युम्नमेव च ।
संकर्षर्णं सप्तमं च अष्टमं पुरुषोत्तमम्

6.120.79

नवमं च नवव्यूहं दशमं तु तदात्मकम् ।
एकादशं चानिरुद्धं द्वादशं द्वादशात्मकम्

6.120.80

अत ऊर्ध्वं तु चक्राणि दृश्यंतेऽनंतसंज्ञके ।
खंडिते त्रुटिते भग्ने सालग्रामे न दोषभाक्

6.120.81

इष्टा च यस्य या मूर्तिः स तां यत्नेन पूजयेत् ।
स्कंधे कृत्वा तु योऽध्वानं वहते शैलनायकम्

6.120.82

तस्य वश्यं भवेत्सर्वं त्रैलोक्यं सचराचरम् ।
शालग्रामशिला यत्र तत्र संनिहितो हरिः

6.120.83

तत्र दानं जपः स्नानं वाराणस्याः शताधिकम् ।
कुरुक्षेत्रे प्रयागे च नैमिषे पुष्करे तथा

6.120.84

तत्र कोटिगुणं पुण्यं वाराणस्यां महाफलम् ।
ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः

6.120.85

तत्सर्वं निर्दहत्याशु शालग्रामशिलार्चनम् ।
शालग्रामोद्भवो देवो यत्र द्वारावतीभवः

6.120.86

उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः ।
ब्रह्मचारि गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः

6.120.87

भोक्तव्यं विष्णुनैवेद्यं नात्र कार्या विचारणा ।
तत्पूजनेन मंत्राश्च न जपो न च भावना

6.120.88

न स्तुतिर्नापि चाचारः शालग्रामशिलार्चने ।
शालग्रामशिलाग्रे तु कृत्वा स्वस्तिकमादरात्

6.120.89

कार्तिके तु विशेषेण पुनात्यासप्तमं कुलम् ।
अणुमात्रं तु यः कुर्यान्मंडलं केशवाग्रतः

6.120.90

मृदाधातुविकारैश्च कल्पकोटिं दिवं वसेत् ।
यस्तु संवत्सरं पूर्णमग्निहोत्रमुपासते

6.120.91

कार्तिके स्वस्तिकं कृत्वा सममेतन्न संशयः ।
अगम्यागमने चैव ह्यभक्षस्य तु भक्षणे

6.120.92

तत्पापं नाशमायाति मंडयित्वा हरेर्गृहम् ।
मंडलं कुरुते नित्यं या नारी केशवाग्रतः ।
सप्तजन्मानि वैधव्यं न प्राप्नोति कदाचन

6.120.120

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शालिग्राममाहात्म्यंनाम विंशत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc