भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.119

6.119.1

ईश्वर उवाच।
माघस्नानस्य माहात्म्यं शृणु भागवतोत्तम ।
त्वत्समो नास्ति लोकेऽस्मिन्विष्णुभक्तो महामते

6.119.2

चक्रतीर्थे हरिं दृष्ट्वा मथुरायां च केशवम् ।
यत्फलं लभते मर्त्यो माघस्नानेन तत्फलम्

6.119.3

जितेंद्रियः शांतमनाः सदाचारेण संयुतः ।
स्नानं करोति यो माघे संसारी न भवेत्पुनः

6.119.4

श्रीकृष्ण उवाच।
शूकरस्य च माहात्म्यं कथयिष्ये तवाग्रतः ।
यस्य विज्ञानमात्रेण सान्निध्यं मम सर्वदा

6.119.5

सूत उवाच।
इत्युक्त्वा भगवान्कृष्णः सत्यायै बहुधा जगौ ।
तदहं संप्रवक्ष्यामि तच्छृणुध्वं तपोधनाः

6.119.6

श्रीकृष्ण उवाच।
पंचयोजनविस्तीर्णे शूकरे हरिमंदिरे ।
यस्मिन्वसति यो जीवो गर्दभोऽपि चतुर्भुजः

6.119.7

त्रीणि हस्तसहस्राणि त्रीणि हस्तशतानि च ।
त्रयो हस्ता शूकरस्य परिमाणं विधीयते

6.119.8

षष्टिवर्षसहस्राणि योऽन्यत्र कुरुते तपः ।
तत्फलं लभते देवि प्रहरार्द्धेन शूकरे

6.119.9

सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ।
तुलापुरुषदानेन तत्फलं परिकीर्त्तितम्

6.119.10

काश्यां दशगुणं प्रोक्तं वेण्यां शतगुणं भवेत् ।
सहस्रगुणितं प्रोक्तं गंगासागरसंगमे

6.119.11

अनंतं चैव विज्ञेयं शूकरे हरिमंदिरे ।
अन्यत्र ददते लक्षं संविधानेन कार्तिक

6.119.12

इहैवैकेन दत्तेन शूकरे तत्समं भवेत् ।
शूकरे च तथा वेण्यां गंगासागरसंगमे

6.119.13

सकृदेव नरः स्नात्वा ब्रह्महत्यां व्यपोहति ।
अलर्केण पुरा प्राप्ता सप्तद्वीपा वसुंधरा ।
शूकरक्षेत्रमाहात्म्यं श्रुत्वा चैव षडानन

6.119.14

मार्गशीर्षस्य द्वादश्यां शुक्लायां व्रज पुत्रक ।
कार्त्तिकेय उवाच ।
भगवन्श्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ।
विधिं मासोपवासस्य फलं चास्य यथोचितम्

6.119.15

यथाविधि नरैः कार्या व्रतचर्या यथा भवेत् ।
आरभ्यते यथापूर्वं समाप्यं हि यथाविधि

6.119.16

यावत्संख्यं तु कर्त्तव्यं तत्प्रब्रूहि महेश्वर ।
व्रतमेतत्सुखश्रीदं विस्तरेण ममानघ

6.119.17

श्रीरुद्र उवाच।
पावके साधु सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ ।
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम

6.119.18

सुराणां च यथा विष्णुस्तपतां च यथा रविः ।
मेरुःशिखरिणां यद्वद्वैनतेयश्च पक्षिणाम्

6.119.19

तीर्थानां तु यथा गंगा प्रजानां तु यथा वणिक् ।
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम्

6.119.20

सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि ।
सर्वदानोद्भवं चैव लभेन्मासोपवासकृत्

6.119.21

अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः ।
न तत्पुण्यमवाप्नोति यन्मासपरिलंघनात्

6.119.22

तेन जप्तं हुतं दत्तं तपस्तप्तं कृतं स्वधा ।
यः करोति विधानेन नरो मासमुपोषणम्

6.119.23

उद्दिश्य वैष्णवं यज्ञं मामभ्यर्च्य जनार्दनम् ।
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम्

6.119.24

वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु ।
द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत्

6.119.25

अतिकृच्छ्रं च पाराकं कृत्वा चांद्रायणं ततः ।
मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः

6.119.26

आश्विनस्यामले पक्षे एकादश्यामुपोषितः ।
व्रतमेनं तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु

6.119.27

वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः ।
मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत्

6.119.28

अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः ।
मालतींदीवर्रैबुध्नैः कमलैश्च सुगंधिभिः

6.119.29

कुसुमोशीरकर्पूरैर्विलिप्य वरचंदनैः ।
नैवेद्यापूपदीपाद्यैरर्चयेच्च जनार्दनम्

6.119.30

मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम् ।
कुर्वन्नरः स्त्री विधवा बृहद्भक्तिर्जितेंद्रियः

6.119.31

नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम् ।
भक्त्या विष्णोः स्तुतिर्वाच्या मिथ्यालापविवर्जिता

6.119.32

सर्वसत्वदयायुक्तः शांतवृत्तिरहिंसकः ।
सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत्

6.119.33

स्मृत्यालोकनगंधादि स्वादनं परिकीर्त्तनम् ।
अन्नस्य वर्जयेद्वासं ग्रासानां संप्रमोक्षणम्

6.119.34

गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम् ।
व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम्

6.119.35

न व्रतस्थः स्पृशेत्किंचिद्विकर्मस्थं न चालयेत् ।
देवतायतने तिष्ठन्न गृहस्थश्चरेत्ध्रुवम्

6.119.36

कृत्वा मासोपवासं तु यथोक्तविधिना नरः ।
नारी वा विधवा साध्वी वासुदेवं समर्चयेत्

6.119.37

अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिदम् ।
कृत्वा मासोपवासं तु संयतात्मा जितेंद्रियः

6.119.38

ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम् ।
पूजयेत्पुष्पमालाभिर्गंधधूपविलेपनैः

6.119.39

वस्त्रालंकारवाद्यैश्च तोषयेदच्युतं नरः ।
संस्नापयेद्धरिं भक्त्या तीर्थचंदनवारिभिः

6.119.40

चंदनेनानुलिप्तांगं धूपपुष्पैरलंकृतम् ।
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान्

6.119.41

दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत् ।
एवं मासोपवासाद्धि कृत्वाभ्यर्च्य जनार्दनम्

6.119.42

भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते ।
एवं मासोपवासांते कृत्वा विप्रान्त्रयोदश

6.119.43

निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु ।
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः

6.119.44

पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम् ।
अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा

6.119.45

ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम् ।
विशुद्धकुलचारित्र विष्णुपूजनतत्परान्

6.119.46

पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश ।
तांबूलवस्त्रयुग्मानि भोजनाच्छादनानि च

6.119.47

योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि ।
दद्याच्चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च

6.119.48

ततोनुपूजयेच्छक्त्या शय्यां स्तरणसंस्कृताम् ।
साच्छादनां शुभां श्रेष्ठां सोपधानामलंकृताम्

6.119.49

कारयित्वात्मनोमूर्तिं कांचनीं तु स्वशक्तितः ।
न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः

6.119.6.119.50

आसनं पादुकां छत्रं वस्त्रयुग्ममुपानहौ ।
पवित्राणि च पुष्पाणि शयाय्यामुपकल्पयेत्

6.119.51

एवं शय्यां तु संकल्प्य प्रणिपत्य च तान्द्विजान् ।
प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम्

6.119.52

ततो व्रजेन्नरश्रेष्ठो विष्णोः स्थानमनामयम् ।
मंडपस्थां स्तुतान्विप्रानिति वाच्यं मुहुर्मुहुः

6.119.53

मंत्रहीनं क्रियाहीनं सर्वहीनं द्विजोत्तमाः ।
सर्वंसंपूर्णतां यातु भवद्वाक्यप्रसादतः ।
विधिर्मासोपवासस्य यथावत्परिकीर्तितः

6.119.119

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिताया।
मुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे मासो।
पवासकथनंनामैकोनविंशत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc