भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.7

5.7.1

अगस्त्य उवाच।
अथोग्रं स तपो दैत्यो दशवर्षसहस्रकम् ।
चकार भानुमक्ष्णा च पश्यन्नूर्ध्वपदे स्थितः

5.7.2

कुंभकर्णोऽपि कृतवांस्तपः परमदुश्चरम् ।
विभीषणस्तु धर्मात्मा चचार परमं तपः

5.7.3

तदा प्रसन्नो भगवान्देवदेवः प्रजापतिः ।
देवदानवयक्षादि मुकुटैः परिसेवितः

5.7.4

ददौ राज्यं च सुमहद्भुवनत्रयभास्वरम् ।
वपुश्च कृतवान्रम्यं देवदानवसेवितम्

5.7.5

तदा संतापितो भ्राता धनदो धर्मबुद्धिमान् ।
विमानं तु ततो नीतं लंका च नगरी हठात्

5.7.6

भुवनं तापितं सर्वं देवाश्चैव दिवो गताः ।
हतवान्ब्राह्मणकुलं मुनीनां मूलकृंतनः

5.7.7

तदातिदुःखिता देवाः सेंद्रा ब्रह्माणमाययुः ।
स्तुतिं चक्रुर्महात्मानो दंडवत्प्रणतिं गताः

5.7.8

ते तुष्टुवुः सुराः सर्वे वाग्भिरर्थ्याभिरादृताः ।
ततः प्रसन्नो भगवान्किंकरोमीति चाब्रवीत्

5.7.9

ततो निवेदयांचक्रुर्ब्रह्मणे विबुधाः पुरः ।
दशग्रीवाच्च संकष्टं तथा निजपराभवम्

5.7.10

क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह ।
तस्य शैलस्य पार्श्वे तु वैचित्र्येण समाकुलाः

5.7.11

स्थिताः संतुष्टुवुर्देवाः शंभुं शक्रपुरोगमाः ।
नमो भवाय शर्वाय नीलग्रीवाय ते नमः

5.7.12

नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः ।
इति सर्वमुखेनोक्तां वाणीमाकर्ण्य शंकरः

5.7.13

प्रोवाच नंदिनं देवा नानयेति ममांतिकम् ।
एतस्मिन्नंतरे देवा आहूता नंदिना च ते

5.7.14

प्रविश्यांतःपुरे देवा ददृशुर्विस्मितेक्षणाः ।
ब्रह्मागत्य ददर्शाथ शंकरं लोकशंकरम्

5.7.15

गणकोटिसहस्रैस्तु सेवितं मोदशालिभिः ।
नग्नैर्विरूपैः कुटिलैर्धूसरैर्विकटैस्तथा

5.7.16

प्रणिपत्याग्रतः स्थित्वा सह देवैः पितामहः ।
उवाच देवदेवेशं पश्यावस्थां दिवौकसाम्

5.7.17

कृपां कुरु महादेव शरणागतवत्सल ।
दुष्टदैत्यवधार्थं त्वं समुद्योगं विधेहि भोः

5.7.18

सोऽपि तद्वचनं श्रुत्वा दैन्यशोकसमन्वितम् ।
त्रिदशैः सहितैः सर्वैराजगाम हरेः पदम्

5.7.19

तुष्टुवुर्मुनयः सर्वे ससुरोरगकिन्नराः ।
जय माधव देवेश जय भक्तजनार्तिहन्

5.7.20

विलोकय महादेव लोकयस्व स्वसेवकान् ।
इत्युच्चैर्जगदुः सर्वे देवाः शर्वपुरोगमाः

5.7.21

इत्युक्तमाकर्ण्य सुराधिनाथो दृष्ट्वा सुरार्तिं परिचिंत्य विष्णुः ।
जगाद देवाञ्जलदोच्चया गिरा दुःखं तु तेषां प्रशमं नयन्निव

5.7.22

भो ब्रह्मशर्वेंद्र पुरोगमामराः शृण्वंतु वाचं भवतां हितेरताम् ।
जाने दशग्रीवकृतं भयं वस्तन्नाशयाम्यद्य कृतावतारः

5.7.23

पुरी त्वयोध्या रविवंशजातैर्नृपैर्महादानमखादिसत्क्रियैः ।
प्रपालिता भूतलमंडनीया विराजते राजतभूमिभागैः

5.7.24

तस्यां दशरथो राजा निरपत्यः श्रियान्वितः ।
पालयत्यधुना राज्यं दिक्चक्रजयवान्विभुः

5.7.25

स तु वंद्यादृष्यशृंगात्प्रार्थितात्पुत्रकाम्यया ।
पुत्रेष्ट्यां विधिना यज्वा महाबलसमन्वितः

5.7.26

ततोऽहं प्रार्थितः पूर्वं तपसा तेन भोः सुराः ।
पत्नीषु तिसृषु प्रीत्या चतुर्धापि भवत्कृते

5.7.27

राम लक्ष्मण शत्रुघ्न भरताख्या समन्वितः ।
कर्तास्मि रावणोद्धारं समूल बलवाहनम्

5.7.28

भवंतोऽपि स्वकैरंशैरवतीर्य चरंत्विह ।
ऋक्षवानररूपेण सर्वत्र पृथिवीतले

5.7.29

इत्युक्त्वा विररामाशु नभसीरितवाङ्मुने ।
देवाः श्रुत्वा महद्वाक्यं सर्वे संहृष्टमानसाः

5.7.30

ते चक्रुर्गदितं यादृग्देवदेवेन धीमता ।
स्वैःस्वैरंशैर्मही पूर्णा ऋक्षवानररूपिभिः

5.7.31

योऽसौ विष्णुर्महादेवो देवानां दुःखनाशकः ।
सत्वमेव महाराज भगवान्कृतविग्रहः

5.7.32

भरतोऽयं लक्ष्मणश्च शत्रुघ्नश्च महामते ।
तावकांशाद्दशग्रीवो जनितश्च सुरार्द्दनः

5.7.33

पूर्ववैरानुबंधेन जानकीं हृतवान्पुनः ।
स त्वया निहतो दैत्यो ब्रह्मराक्षसजातिमान्

5.7.34

पुलस्त्यपुत्रो दैत्येंद्र सर्वलोकैककंटकः ।
पातितः पृथिवी सर्वा सुखमापमहेश्वर

5.7.35

ब्राह्मणानां सुखं त्वद्य मुनीनां तापसं बलम् ।
शिवानि सर्वतीर्थानि सर्वे यज्ञाः सुसंहिताः

5.7.36

त्वयि राज्ञि जगत्सर्वं सदेवासुरमानुषम् ।
सुखं प्रपेदे विश्वात्मञ्जगद्योने नरोत्तम

5.7.37

एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघ ।
उत्पत्तिश्च विपत्तिश्च मया मत्यनुसारतः

5.7.38

इत्थं निशम्य दितिजेंद्र कुलानुकारिवार्तां महापुरुष ईश्वरईशिता च ।
संरुद्धबाष्पगलदश्रुमुखारविंदो भूमौ पपात सदसि प्रथितप्रभावः

5.7.7

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रावणोत्पत्तिविपत्तिकथनंनाम सप्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc