भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.4

5.4.1

वात्स्यायन उवाच।
भुजगाधीश्वरेशान धराभारधरक्षम ।
शृण्वेकं संशयं मह्यं कृपया कथयस्व तम्

5.4.2

रघुनाथस्य गमनं वनं प्रति यदा ह्यभूत् ।
तदा प्रभृति देहेन स्थिता शून्येन चेतसा

5.4.3

तद्विप्रयोगविधुरा कृशदेहातिदुःखिता ।
सुमुखान्मंत्रिणः श्रुत्वा रघुनाथं समागतम्

5.4.4

कथं जहर्ष किमभूत्कीदृशं तत्र चिह्नितम् ।
रामचंद्रस्य संदेशहर्तारं किमुवाच सा

5.4.5

एतन्मे संशयं छिंधि रघुनाथगुणोदयम् ।
यथावच्छृण्वते मह्यं कथयस्व प्रसादतः

5.4.6

शेष उवाच ।
साधुपृष्टं महाभाग द्विजवर्यपुरस्कृत ।
तन्मे निगदतः साक्षाच्छृणुष्वैकमनाः किल

5.4.7

सा वै तद्वदनांभोज च्युतं रामागमामृतम् ।
पीत्वा पीत्वा बभूवाहो स्थगितांगेन विह्वला

5.4.8

किं मे स्वप्नो विमूढायाः किं वा भ्रमकरं वचः ।
ममवै मंदभाग्यायाः कथं रामेक्षणं पुनः

5.4.9

बहुना तपसा कृत्वा प्राप्तोऽयं वै सुतः शिशुः ।
केनचिन्मम पापेन विप्रयोगं गतः पुनः

5.4.10

सुमंत्रिन्कुशली रामः सीतालक्ष्मणसंयुतः ।
कथं मां स्मरते वीरो वनचारी सुदुःखिताम्

5.4.11

इति सा विललापोच्चै रघुनाथस्मृतिं गता ।
न निवेद निजं किंचित्परकीयं विमोहिता ।
सुमुखोऽपि तथा दृष्ट्वा दुःखितां मातरं भृशम्

5.4.12

वीजयामास वासोग्रैः संज्ञामाप च सा पुनः ।
उवाच जननीं सौम्यं वचोहर्षकरं मुहुः

5.4.13

रघुनाथागमस्मार हृष्टां तां व्यदधात्पुनः ।
मातर्विद्धि गृहं प्राप्तं रघुनाथं सलक्ष्मणम्

5.4.14

सीतया सहितं पश्य चाशीर्भिरभियुंक्ष्व च ।
इति तथ्यं वचः श्रुत्वा सुमुखेन प्रभाषितम्

5.4.15

यादृशं हर्षमापेदे तादृशं वेद्म्यहं नहि ।
उत्थाय चाजिरे प्राप्ता रोमांचिततनूरुहा

5.4.16

हर्षविह्वलितांग्यश्रु मुंचंती राममैक्षत ।
तावत्स रामो राजेंद्रो नरयानमधिश्रितः

5.4.17

प्राप्तः स्वमातुर्भवनं कैकेय्याः सुनयः पुरः ।
कैकेय्यपि त्रपाभारनम्रा रामं पुरःस्थितम्

5.4.18

नोवाच किंचिन्महतीं चिंतां प्राप्तवती मुहुः ।
सूर्यवंशध्वजो रामो मातरं वीक्ष्य लज्जिताम्

5.4.19

उवाच सांत्वयंस्तां च वाक्यैर्विनयमिश्रितैः ।
श्रीराम उवाच।
मातर्मया वनं गत्वा सर्वमाचरितं तथा

5.4.20

अधुना करवै किं वा त्वदाज्ञातो जनन्यहो ।
मया न्यूनं कृतं नास्ति कथं मां नेक्ष्यसे पुनः

5.4.21

आशीर्भिरभिनंद्यैनं भरतं मां च वीक्षय ।
इति श्रुत्वापि तद्वाक्यं सा नम्रवदनानघ

5.4.22

शनैः शनैः प्रत्युवाच राम गच्छ स्वमालयम् ।
रामोऽपि श्रुत्वा वचनं जनन्याः पुरुषोत्तमः

5.4.23

नमस्कृत्य ययौ गेहं सुमित्रायाः कृपानिधिः ।
सुमित्रा पुत्रसहितं रामं दृष्ट्वा महामनाः

5.4.24

चिरंजीव चिरंजीव ह्याशीर्भिरिति चाभ्यधात् ।
मातुश्च रामभद्रोऽपि चरणौ प्रणिपत्य च

5.4.25

परिष्वज्य मुदायुक्तो जगाद वचनं पुनः ।
रत्नगर्भे मम भ्रात्रा केनापि न कृतं तथा

5.4.26

यथायमकरोद्धीमान्ममदुःखापनोदनम्

5.4.27

रावणेन हृता सीता मया यत्प्राप्यते पुनः ।
मातस्तत्सर्वमाविद्धि लक्ष्मणस्य विचेष्टितम्

5.4.28

दत्तामाशिषमागृह्य शिरसायं सुमित्रया ।
निजमातुश्च भवनं प्रययौ विबुधैर्वृतः

5.4.29

मातरं वीक्ष्य हृषितां निजदर्शनलालसाम् ।
स्वयानादवरुह्याशु चरणावग्रहीद्धरिः

5.4.30

माता तद्दर्शनोत्कंठा विह्वलीकृतमानसा ।
परिष्वज्य परिष्वज्य रामं मुदमवाप सा

5.4.31

शरीरे रोमहर्षोऽभूद्गद्गदा वागभूत्तदा ।
हर्षाश्रूणि तु सोष्णानि प्रवाहं प्रापुरापदात्

5.4.32

जननीं वीक्ष्य विनयी ताटंकद्वयवर्जिताम् ।
कराकल्प पदाकल्परहितां बिभ्रतीं तनुम्

5.4.33

किंचित्स्वदर्शनाद्धृष्टां कृशांगीं तां स शोकभाक् ।
दुःखस्य समयो नायमिति मत्वा जगाद ताम्

5.4.34

श्रीराम उवाच।
मातर्मया त्वच्चरणौ चिरकालं न सेवितौ ।
ततः क्षमस्वापराधं भाग्यहीनस्य वै मम

5.4.35

ये पुत्रा मातापित्रोर्न शुश्रूषायां समुत्सुकाः ।
ते मंतव्याः परा मातः कीटका रेतसो भवाः

5.4.36

किं कुर्वे जनकाज्ञातो गतो वै दंडकं वनम् ।
तत्रापि त्वत्कृपापांगात्तीर्णोऽस्मि दुःखसागरम्

5.4.37

रावणेन हृता सीता लंकायां गमिता पुनः ।
त्वत्कृपातो मया लब्धा तं हत्वा राक्षसेश्वरम्

5.4.38

सीतेयं त्वच्चरणयोः पतिता वै पतिव्रता ।
संभावयाशु चकितां त्वत्पादार्पितमानसाम्

5.4.39

इति श्रुत्वा तु तद्वाक्यं पादयोः पतितां स्नुषाम् ।
आशीर्भिरभियुज्यैनां बभाषे तां पतिव्रताम्

5.4.40

सीते स्वपतिना सार्द्धं चिरं विलस भामिनि ।
पुत्रौ प्रसूय च कुलं स्वकं पावय पावने

5.4.41

त्वत्सदृश्यः पतिपराः पतिदुःखसुखानुगाः ।
भवंति दुःखभागिन्यो न हि सत्यं जगत्त्रये

5.4.42

विदेहपुत्रि स्वकुलं त्वया पावितमात्मना ।
रामपादाब्जयुगलमनुयांत्या महावनम्

5.4.43

किं चित्रं यत्पुमांसस्तु वैरिकोटिप्रभंजनाः ।
येषां गेहे सती भार्या स्वपतिप्रियवाञ्छिका

5.4.44

इत्युक्त्वा रघुनाथस्य भार्यामंचितलोचनाम् ।
तूष्णीं बभूव हृषिता प्रहृष्टस्वतनूरुहा

5.4.45

अथ भ्रातास्य भरतः पित्रा दत्तं निजं महत् ।
राज्यं निवेदयामास रामचंद्राय धीमते

5.4.46

मंत्रिणस्ते प्रहृष्टांगा दैवज्ञान्मंत्रकोविदान् ।
आहूय सुमुहूर्तंते पप्रच्छुः परमादरात्

5.4.47

शुभे मुहूर्ते सुदिने शुभनक्षत्रसंयुते ।
अभिषेकं महाराज्ये कारयामासुरुद्यताः

5.4.48

सप्तद्वीपवतीं पृथ्वीं व्याघ्रचर्मणि सुंदरे ।
लिखित्वोपरि राजेंद्रो महाराजोधितस्थिवान्

5.4.49

तद्दिनादेव साधूनां मनांसि प्रमुदं ययुः ।
दुष्टानां चेतसो ग्लानिरभवत्परतापिनाम्

5.4.50

स्त्रियस्तु पतिभक्त्या च पतिव्रतपरायणाः ।
मनसापि कदा पापं नाचरंति जना मुने

5.4.51

दैत्यादेवास्तथा नागा यक्षासुरमहोरगाः ।
सर्वे न्यायपथे स्थित्वा रामाज्ञां शिरसा दधुः

5.4.52

परोपकरणेयुक्ताः स्वधर्मसुखनिर्वृताः ।
विद्याविनोदगमिता दिनरात्रिक्षणाः शुभाः

5.4.53

वातोऽपि मार्गसंस्थानां बलान्नाहरते महान् ।
वासांस्यपि तु सूक्ष्माणि तत्र चौरकथा नहि

5.4.54

धनदो ह्यर्थिनां रामः कारुण्यश्च कृपानिधिः ।
भ्रातृभिः सहितो नित्यं गुरुदेवस्तुतिं व्यधात्

5.4.4

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुवरस्य राज्याभिषेकोनाम चतुर्थोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc