पद्म पुराण · अध्याय 5.3
शेष उवाच।
दृष्ट्वा रामो राजधानीं निजलोकनिवासिनीम् ।
जहर्ष मतिमान्वीरश्चिरदर्शनलालसः
भरतोऽपि स्वकं मित्रं सुमुखं नगरं प्रति ।
प्रेषयामास सचिवं नगरोत्सवसिद्धये
भरत उवाच।
कुर्वंतु लोकास्त्वरितं रघुनाथागमोत्सवम् ।
मंदिरे मंदिरे रम्यं कृतकौतुकचित्रकम्
विपांसुका राजमार्गाश्चंदनद्रवसिंचिताः ।
प्रसूनभरसंकॢप्ता हृष्टपुष्टजनावृताः
विचित्रवर्णध्वजभा चित्रिताखिलस्वांगणाः ।
मेघागमे धनुरिव पश्यंत्वेव वलीमुखाः
प्रतिगेहं तु लोकानां कारयंत्वगरूक्षणम् ।
यद्धूमं वीक्ष्य शिखिनो नृत्यं कुर्वंतु लीलया
हस्तिनो मम शैलाभानाधोरणसुयंत्रितान् ।
विचित्रयंतु बहुशो गैरिकाद्युपधातुभिः
वाजिनश्चित्रिता भूयः सुशोभंतु मनोजवाः ।
यद्वेगवीक्षणादेव गर्वं त्यजति स्वर्हयः
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः ।
गजोपरि समारूढा मुक्ताभिर्विकिरंतु च
ब्राह्मण्यः पात्रहस्ताश्च दूर्वाहारिद्रसंयुताः ।
सुवासिन्यो महाराजं रामं नीराजयंतु ताः
कौसल्यापुत्रसंयोगसंदेश विधुरा सती ।
हर्षं प्राप्नोतु सुकृशा तदीक्षणसुलालसा
इत्येवमादिरचनाः पुरशोभाविधायिकाः ।
करोतु जनता हृष्टा रामस्यागमनं प्रति
शेष उवाच।
इति श्रुत्वा ततो वाक्यं सुमुखो मंत्रवित्तमः ।
प्रययौ नगरीं कर्तुं कृतकौतुकतोरणाम्
गत्वाथ नगरीं तां वै मंत्री तु सुमुखाभिधः ।
ख्यापयामास लोकानां रामागममहोत्सवम्
लोकाः श्रुत्वा पुरीं प्राप्तं रघुनाथं सुहर्षिताः ।
पूर्वं तदीय विरहत्यक्तभोगसुखादयः
ब्राह्मणा वेदसंपन्नाः पवित्रा दर्भपाणयः ।
धौतोत्तरीयवलिता जग्मुः श्रीरघुनायकम्
क्षत्रिया ये शूरतमा धनुर्बाणधरा वराः ।
संग्रामे बहुशो वीरा जेतारो ययुरप्यमुम्
वैश्या धनसमृद्धाश्च मुद्राशोभितपाणयः ।
शुभ्रवस्त्रपरीधाना अभिजग्मुर्नरेश्वरम्
शूद्रा द्विजेषु ये भक्ताः स्वीयाचारसुनिष्ठिताः ।
वेदाचाररता ये वै तेऽपिजग्मुः पुरीपतिम्
ये ये वृत्तिकरा लोकाः स्वे स्वे कर्मण्यधिष्ठिताः ।
स्वकं वस्तु समादाय ययुः श्रीरामभूपतिम्
इत्थं भूपतिसंदेशात्प्रमोदाप्लवसंयुताः ।
नाना कौतुकसंयुक्ता आजग्मुर्मनुजेश्वरम्
शेष उवाच।
रघुनाथोऽपि सकलैर्दैवतैः स्वस्वयानगैः ।
परीतः प्रविवेशोच्चैः पुरीं रचितमोहनाम्
प्लवंगाः प्लवनैर्युक्ता आकाशपथचारिणः ।
स्वस्वशोभापरीतांगाश्चानुजग्मुः पुरोत्तमम्
पुष्पकादवरुह्याशु नरयानमथारुहत् ।
सीतया सहितो रामः परिवारसमावृतः
अयोध्यां प्रविवेशाथ कृतकौतुकतोरणाम् ।
हृष्टपुष्टजनाकीर्णामुत्सवैः परीभूषिताम्
वीणापणवभेर्यादिवादित्रैराहतैर्भृशम् ।
शोभमानः स्तूयमानः सूतमागधबंदिभिः
जय राघवरामेति जय सूर्यकुलांगद ।
जय दाशरथे देव जयताल्लोकनायकः
इति शृण्वञ्छुभां वाचं पौराणां हर्षितांगिनाम् ।
रामदर्शनसंजात पुलकोद्भेद शोभिनाम्
प्रविवेश वरं मार्गं रथ्याचत्वरभूषितम् ।
चंदनोदकसंसिक्तं पुष्पपल्लवसंयुतम्
तदा पौरांगनाः काश्चिद्गवाक्षबिलमाश्रिताः ।
रघुनाथस्वरूपेक्षा जातकामा अथाब्रुवन्
पौरांगना ऊचुः।
धन्या अभूवन्बत भिल्लकन्या वनेषु या राममुखारविंदम् ।
स्वलोचनेंदीवरकैरथापिबन्स्वभाग्यसंजातमहोदया इमाः
धन्यं मुखं पश्यत वीरधाम्नः श्रीरामदेवस्य सरोजनेत्रम् ।
यद्दर्शनं धातृमुखाः सुरा अपि प्रापुर्महद्भाग्ययुता वयंत्वहो
एतन्मुखं पश्यत चारुहासं किरीटसंशोभिनिजोत्तमांगम् ।
बंधूकधिक्कारलसच्छविप्रदं दंतच्छदं बिभ्रतमुच्चनासम्
इति गदितवतीस्ताः स्नेहभारेण रामा नलिनदलसदृक्षैर्नेत्रपातैर्निरीक्ष्य ।
निखिलगुरुरनूनप्रेमभारं नृलोकं जननिगृहमियेष प्रोषितांगेन हृष्टः
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्य पुरप्रवेशनं नाम तृतीयोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0