पद्म पुराण · अध्याय 5.30
शेष उवाच।
अथ तेजःपुरं प्राप्तस्तुरगः पत्रशोभितः ।
यस्यां पालयते राजा प्रजाः सत्येन सत्यवान्
अथ कोटिपरीवारो रघुनाथानुजस्ततः ।
हयानुगो ययौ तस्य पुरतः पुरधर्षणः
तद्दृष्ट्वा नगरं रम्यं चित्रप्राकारशोभितम् ।
कांचनैः कलशैस्तत्र परितः प्रतिभासितम्
देवायतनसाहस्रैः सर्वतश्च विराजितम् ।
यतीनां तु मठास्तत्र शोभंते यतिपूरिताः
वहत्यत्र महादेवी शिखिलोचनमूर्धगा ।
हंसकारंडवाकीर्णामुनिवृंदनिषेविता
ब्राह्मणानां प्रत्यगारमग्निहोत्रभवः पुनः ।
धूमस्तत्र पुनात्यंग पातकाप्लुतमानसान्
उवाच सुमतिं राजा शत्रुघ्नः शत्रुतापनः ।
तत्पुरप्रेक्षणोद्भूतहर्षविस्मितमानसः
शत्रुघ्न उवाच।
मंत्रिन्कथय कस्येदं पुरं मे दृष्टिगोचरम् ।
करोति मानसाह्लादं धर्मेण प्रतिपालितम्
शेष उवाच।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतेः ।
उवाच सुमतिः सर्वं यथातथमनुद्धतम्
सुमतिरुवाच।
शृणुष्वावहितः स्वामिन्वैष्णवस्य कथाः शुभाः ।
याः श्रुत्वा मुच्यते पापाद्ब्रह्महत्यासमादपि
जीवन्मुक्तो वरीवर्ति रामांघ्र्यंबुजषट्पदः ।
सत्यवान्यज्ञयज्ञांग ज्ञाता कर्ताऽविता महान्
धेनुं प्रसाद्य बहुभिर्व्रतैर्यं प्राप तत्पिता ।
ऋतंभराख्यो जगति ख्यातः परमधार्मिकः
गौः प्रसन्ना ददौ पुत्रमनेकगुणसंस्कृतम् ।
सत्यवंतं सुशोभाढ्यं तं जानीहि नृपोत्तमम्
शत्रुघ्न उवाच।
को वा ऋतंभरो राजा किमर्थं धेनुपूजनम् ।
कथं प्राप्तः सुतस्तस्य वैष्णवो विष्णुसेवकः
सर्वमेतत्समाचक्ष्व वैष्णवस्य कथानकम् ।
श्रुतं हरति जंतूनां महापातकपर्वतम्
शेष उवाच।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महार्थकम् ।
कथयामास विशदं तदुत्पत्तिकथानकम्
ऋतंभरो नरपतिरनपत्यः पुराऽभवत् ।
कलत्राणि बहून्यस्य न पुत्रं प्राप तेषु वै
तदा जाबालिनामानं मुनिं दैवादुपागतम् ।
प्रपच्छ कुशलोद्युक्तः सपुत्रोत्पत्तिकारणम्
ऋतंभर उवाच।
स्वामिन्वंध्यस्य मे ब्रूहि पुत्रोत्पत्तिकरं वचः ।
यत्कृत्वा जायतेऽपत्यं मम वंशधरं वरम्
तज्ज्ञात्वा भवतो भव्यं प्रकुर्यां निश्चितं वचः ।
दानं व्रतं वा तीर्थं वा मखं वा मुनिसत्तम
इति राज्ञोवचः श्रुत्वा जगाद मुनिसत्तमः ।
सुतोत्पत्तिकरं वाक्यं प्रणतस्य सुतार्थिनः
अपत्यप्राप्तिकामस्य संत्युपायास्त्रयः प्रभो ।
विष्णोः प्रसादो गोश्चापि शिवस्याप्यथवा पुनः
तस्मात्त्वं कुरु वै पूजां धेनोर्देवतनोर्नृप ।
यस्याः पुच्छे मुखे शृंगे पृष्ठे देवाः प्रतिष्ठिताः
सा तुष्टा दास्यति क्षिप्रं वांछितं धर्मसंयुतम् ।
एवं विदित्वा गोपूजां विधेहि त्वमृतंभर
यो वै नित्यं पूजयति गां गेहे यवसादिभिः ।
तस्य देवाश्च पितरो नित्यं तृप्ता भवंति हि
यो वै गवाह्निकं दद्यान्नियमेन शुभव्रतः ।
तेन सत्येन तस्य स्युः सर्वे पूर्णा मनोरथाः
तृषिता गौर्गृहे बद्धा गेहे कन्या रजस्वला ।
देवता च सनिर्माल्या हंति पुण्यं पुराकृतम्
यो वै गां प्रतिषिद्ध्येत चरंतीं स्वं तृणं नरः ।
तस्य पूर्वे च पितरः कंपंते पतनोन्मुखाः
यो वै यष्ट्या ताडयति धेनुं मर्त्यो विमूढधीः ।
धर्मराजस्य नगरं स याति करवर्जितः
यो वै दंशान्वारयति तस्य पूर्वे ह्यधोगताः ।
नृत्यंति मत्सुतो ह्यस्मांस्तारयिष्यति भाग्यवान्
अत्रैवोदाहरंतीममितिहासं पुरातनम् ।
जनकस्य पुरावृत्तं धर्मराजपुरेऽद्भुतम्
एकदा जनको राजा योगेनासून्समत्यजत् ।
तदा विमानं संप्राप्तं किंकिणीजालभूषितम्
तदारुह्य गतो राजा सेवकैरूढदेहवान् ।
मार्गे जगाम धर्मस्य संयमिन्याः पुरोंऽतिके
तदा नरककोटीषु पीड्यंते पापकारिणः ।
जनकस्यांगपवनं प्राप्य सौख्यं प्रपेदिरे
निरये दाहजापीडा जातैषां सुखकारिणी ।
महादुःखं तदा नष्टं जनकस्यांगवायुना
तदा तं निर्गतं दृष्ट्वा जंतवः पापपीडिताः ।
अत्यंतं चुक्रुशुर्भीतास्तद्वियोगमनिच्छवः
ऊचुस्ते करुणां वाचं मा गच्छ सुकृतिन्नितः ।
त्वदंगवायुसंस्पर्शात्सुखिनः स्यामपीडिताः
इति वाक्यं समाकर्ण्य राजा परमधार्मिकः ।
मानसे चिंतयामास करुणापूरपूरितः
चेन्मत्तः प्राणिनां सौख्यं भवेदिह तदा पुनः ।
अत्रैव च पुरे स्थास्ये स्वर्ग एष मनोरमः
एवं कृत्वा नृपस्तस्थौ तत्रैव निरयाग्रतः ।
विदधत्प्राणिनां सौख्यमनुकंपितमानसः
तत्र धर्मस्तु संप्राप्तो निरयद्वारि दुःखदे ।
कारयन्यातनास्तीव्रा नानापातककारिणाम्
तदा ददर्श राजानं जनकं द्वारिसंस्थितम् ।
विमानेन महापुण्यकारिणं दययायुतम्
तमुवाच प्रेतपतिर्जनकं सहसन्गिरा ।
राजन्कुतस्त्वं संप्राप्तः सर्वधर्मशिरोमणिः
एतत्स्थानं पातकिनां दुष्टानां प्राणघातिनाम् ।
नायांति पुरुषा भूप त्वादृशाः पुण्यकारिणः
अत्रायांति नरास्ते वै ये परद्रोहतत्पराः ।
परापवादनिरताः परद्रव्यपरायणाः
यो वै कलत्रं धर्मिष्ठं निजसेवापरायणम् ।
अपराधादृते जह्यात्सनरोऽत्र समाव्रजेत्
मित्रं वञ्चयते यस्तु धनलोभेन लोभितः ।
आगत्यात्र नरः पीडां मत्तः प्राप्नोति दारुणाम्
यो रामं मनसा वाचा कर्मणा दंभतोऽपि वा ।
द्वेषाद्वाचोपहासाद्वा न स्मरत्येव मूढधीः
तं बध्नामि पुनस्त्वेषु निक्षिप्य श्रपयामि च ।
यैः स्मृतो न रमानाथो नरकक्लेशवारकः
तावत्पापं मनुष्याणामंगेषु नृप तिष्ठति ।
यावद्रामं न रसना गृणाति कलि दुर्मतेः
महापापकरा राजन्ये भवंति महामते ।
तानानयंति मद्भृत्यास्त्वादृशान्द्रष्टुमक्षमाः
तस्माद्गच्छ महाराज भुंक्ष्व भोगाननेकशः ।
विमानवरमारुह्य भुंक्ष्व पुण्यमुपार्जितम्
इति वाक्यं समाकर्ण्यध र्मराजस्य तत्पतेः ।
उवाच धर्मराजानं करुणापूरपूरितः
जनक उवाच।
अहं गच्छामि नो नाथ जीवानामनुकम्पया ।
मदंगवायुना ह्येते सुखं प्राप्ताः स्म संस्थिताः
एतान्मुंचसि चेद्राजन्सर्वान्वै निरयस्थितान् ।
ततो गच्छामि सुखितः स्वर्गं पुण्यजनाश्रितम्
जाबालिरुवाच।
इति वाक्यमथाश्रुत्य जनकं प्रत्युवाच सः ।
प्रत्येकं निर्दिशञ्जीवान्निरयस्थाननेकशः
धर्म उवाच।
अयं मित्र कलत्रं वै विश्वस्तमनुजग्मिवान् ।
तस्मादेनं लोहशंकौ वर्षायुतमपीपचम्
पश्चादेनं सूकराणां योनौ निक्षिप्य दोषिणम् ।
मानुषेष्ववतार्योऽयं षंढचिह्नेन चिह्नितः
अनेन परदाराश्च बलादालिगिता मुहुः ।
तस्मादयं पच्यतेऽत्र रौरवे शतहायनम्
अयं तु परकीयं स्वं मुषित्वा बुभुजे कुधीः ।
तस्मादस्य करौ छित्त्वा पचेयं पूयशोणिते
अयं सायंतने प्राप्तमतिथिं क्षुधयार्दितम् ।
वाण्यापि नाकरोत्तस्य पूजनं स्वागतं न च
तस्मादयं पातनीयस्तामिस्रेंधनपूरिते ।
भ्रमरैः पीडितो यातु यातनां शतहायनम्
अयं तावत्परस्योच्चैर्निंदां कुर्वन्नलज्जितः ।
अयमप्यशृणोत्कर्णौ प्रेरयन्बहुशस्तु ताम्
तस्मादिमावंधकूपे पतितौ दुःखदुःखितौ ।
अयं मित्रध्रुगुद्विग्नः पच्यते रौरवे भृशम्
तस्मादेतान्पापभोगान्कारयित्वा विमोचये ।
त्वं गच्छ नरशार्दूल पुण्यराशिविधायकः
जाबालिरुवाच।
एवं स निर्दिशञ्जीवांस्तूष्णीमासाघकारिणः ।
प्रोवाच रामभक्तोऽसौ करुणापूरितेक्षणः
जनक उवाच।
कथं निरयनिर्मुक्तिर्जीवानां दुःखिनां भवेत् ।
तदाशु कथय त्वं वै यत्कृत्वा सुखमाप्नुयुः
धर्म उवाच।
नैभिराराधितो विष्णुर्नैभिस्तस्य कथाः श्रुताः ।
कथं निरयनिर्मुक्तिर्भवेद्वै पापकारिणाम्
यदि त्वं मोचयस्येतान्महापापकरानपि ।
तर्ह्यर्पय महाराज पुण्यं तत्कथयामि यत्
एकदा प्रातरुत्थाय शुद्धभावेन चेतसा ।
ध्यातः श्रीरघुनाथोऽसौ महापापहराभिधः
रामरामेति यच्चोक्तं त्वया शुद्धेन चेतसा ।
तत्पुण्यमर्पयैतेभ्यो येन स्यान्निरयाच्च्युतिः
जाबालिरुवाच।
एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य धीमतः ।
पुण्यं ददौ महाराज आजन्मसमुपार्जितम्
यदा जन्मकृतैः पुण्यै रघुनाथार्चनोद्भवैः ।
एतेषां निरयान्मुक्तिर्भवत्वत्र मनोरमा
एवं कथयतस्तस्य जीवा निरयसंस्थिताः ।
तत्क्षणान्निरयान्मुक्ता जाता दिव्यवपुर्धराः
ऊचुस्ते जनकं राजंस्त्वत्प्रसादाद्वयं क्षणात् ।
दुःखदान्निरयान्मुक्ता यास्यामः परमं पदम्
तान्दृष्ट्वा सूर्यसंकाशान्नरान्निरयनिःसृतान् ।
तुतोष चित्ते सुभृशं सर्वभूतदयापरः
ते सर्वे प्रययुर्लोकं दिवं देवैरलंकृतम् ।
जनकं तु प्रशंसंतो महाराजं दयानिधिम्
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदाख्याने जनकेन नरकस्थप्राणिमोचनंनाम त्रिंशोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0