भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.27

5.27.1

शेष उवाच।
चित्रांगः क्रौंचकंठस्थो रथस्थो वीरशोभितः ।
गाहयामास तत्सैन्यं वाराह इव वारिधिम्

5.27.2

धनुर्विस्फार्य सुदृढं मेघनादनिनादितम् ।
मुमोच बाणान्निशितान्वैरिकोटिविदाहकान्

5.27.3

तद्बाणभिन्नसर्वांगाः शेरते सुभटा भृशम् ।
सकिरीटतनुत्राणाः सन्दष्टदशनच्छदाः

5.27.4

एवं प्रवृत्ते संग्रामे ययौ योद्धुं स पुष्कलः ।
मणिचित्रितमादाय चापं वैरिप्रतापनम्

5.27.5

तयोः संगतयोरूपं दृश्यतेऽतिमनोहरम् ।
पुरा तारकसंग्रामे स्कंदतारकयोर्यथा

5.27.6

विस्फारयन्धनुः शीघ्रं सव्यसाची तु पुष्कलः ।
ताडयामास तं क्षिप्रं शरैः सन्नतपर्वभिः

5.27.7

चित्रांगोऽपि रुषाक्रांतः शरासन इषूञ्छितान् ।
दधद्व्यमुंचद्बहुशो रणमंडलमूर्धनि

5.27.8

नादानं न च संधानं न मोचनमथापि वा ।
दृष्टं तावेव संदृष्टौ कुंडलीकृतचापिनौ

5.27.9

तदासौ पुष्कलः क्रुद्धः शराणां शतकेन तम् ।
विव्याध वक्षःस्थलके महायोद्धारमुद्भटम्

5.27.10

चित्रांगस्ताञ्शरान्सर्वांश्चिच्छेद तिलशः क्षणात् ।
ताडयामास चांगेषु पुष्कलं शितसायकैः

5.27.11

पुष्कलस्तद्रथं दिव्यं भ्रामकास्त्रेण शोभिना ।
नभसि भ्रामयामास तदद्भुतमिवाभवत्

5.27.12

भ्रांत्वा मुहूर्तमात्रं तु सरथो हयसंयुतः ।
स्थितिर्लेभेतिकष्टेन संधृतो रणमंडले

5.27.13

स चास्य विक्रमं दृष्ट्वा चित्रांगः कुपितो भृशम् ।
उवाच पुष्कलं धीमान्सर्वास्त्रेषु विशारदः

5.27.14

चित्रांग उवाच।
त्वया साधुकृतं कर्म सुभटैर्युधिसंमतम् ।
मद्रथो वाजिसंयुक्तो भ्रामितो नभसि क्षणम्

5.27.15

पराक्रमं समीक्षस्व ममापि सुभटेरितम् ।
आकाशचारी तु भवान्भवत्वमरपूजितः

5.27.16

इत्युक्त्वा स मुमोचास्त्रं रणे परमदारुणम् ।
धनुषा परमास्त्रज्ञः सर्वधर्मविदुत्तमः

5.27.17

तेन बाणेन संविद्धः खे बभ्राम पतंगवत् ।
सरथः सहयः संख्ये सध्वजश्च ससारथिः

5.27.18

भ्रांत्वा सरथवर्यस्तु नभसि त्वरयान्वितः ।
यावत्स्थितिं न लभते तावन्मुक्तोऽपरः शरः

5.27.19

पुनश्च परिबभ्राम रथः सूतसमन्वितः ।
तत्कर्मवीक्ष्य पुत्रस्य राज्ञो विस्मयमाप सः

5.27.20

कथंचित्स्थितिमप्याप पुष्कलः परवीरहा ।
रथं जघान बाणैश्च ससूतहयमस्य च

5.27.21

सभग्नस्यंदनो वीरः पुनरन्यं समाश्रितः ।
सोऽपि भग्नः शरैराशु पुष्कलेन रणांगणे

5.27.22

पुनरन्यं समास्थाय यावदायाति संमुखम् ।
तावद्बभंज निशितैः सायकैस्तद्रथं पुनः

5.27.23

एवं दश रथा भग्ना नृपतेरात्मजस्य हि ।
पुष्कलेन तु वीरेण महासंयुगशालिना

5.27.24

तदा चित्रांगकः संख्ये रथे स्थित्वा विचित्रिते ।
आजगाम ह वेगेन पुष्कलं प्रति योधितुम्

5.27.25

पुष्कलं पंचभिर्बाणैस्ताडयामास संयुगे ।
तैर्बाणैर्निहतोऽत्यतं विव्यथे भरतात्मजः

5.27.26

सक्रुद्धश्चापमुद्यम्य बाणान्दश शितान्महान् ।
मुमोच हृदये तस्य स्वर्णपुंखसुशोभितान्

5.27.27

ते बाणाः पपुरेतस्य रुधिरं बहुदारुणाः ।
पीत्वा पेतुः क्षितौ कूटसाक्षिणः पूर्वजा इव

5.27.28

तदा चित्रांगकः क्रुद्धो भल्लान्पंच समाददे ।
मुमोच भाले पुत्रस्य भरतस्य महौजसः

5.27.29

तैर्भल्लैराहतः क्रुद्धः शरासनवरे शरम् ।
दधत्प्रतिज्ञामकरोच्चित्रांगनिधनं प्रति

5.27.30

शृणु वीर मम क्षिप्रं प्रतिज्ञां त्वद्वधाश्रिताम् ।
तज्ज्ञात्वा सावधानेन योद्धव्यं च त्वयात्र हि

5.27.31

बाणेनानेन चेत्त्वां वै न कुर्यां प्राणवर्जितम् ।
सतीं संदूष्य वनितां शीलाचारसुशोभिताम्

5.27.32

यो लोकः प्राप्यते लोकैर्यमस्य वशवर्तिभिः ।
स लोको मम वै भूयात्सत्यं मम प्रतिश्रुतम्

5.27.33

इति श्रेष्ठं वचः श्रुत्वा जहास परवीरहा ।
उवाच मतिमान्वीरः पुष्कलं वचनं शुभम्

5.27.34

मृत्युर्वै प्राणिनां भाव्यः सर्वत्रैव च सर्वदा ।
तस्मान्मे निधने दुःखं नास्ति शूरशिरोमणे

5.27.35

प्रतिज्ञा या कृता वीर त्वया वीरत्वशालिना ।
सा सत्यैव पुनर्मेऽद्य श्रूयतां व्याहृतं महत्

5.27.36

त्वद्बाणं मद्वधोद्युक्तं न च्छिंद्यां यदि चेदहम् ।
तदा प्रतिज्ञां शृणु मे सर्ववीराभिमानिनः

5.27.37

तीर्थं जिगमिषोर्यो वै कुर्यात्स्वांतविखंडनम् ।
एकादशीव्रतादन्यज्जानाति व्रतमुच्चकैः

5.27.38

तस्य पापं ममैवास्तु प्रतिज्ञापरिघातिनः ।
इति वाक्यमुदीर्यैव तूष्णींभूतो धनुर्दधे

5.27.39

तदानेन निषंगात्स्वादुद्धृत्य सायकं वरम् ।
कथयामास विशदं वाक्यं शत्रुवधावहम्

5.27.40

पुष्कल उवाच।
यदि रामांघ्रियुगुलं निष्कापट्येन चेतसा ।
उपासितं मया तर्हि मम वाक्यमृतं भवेत्

5.27.41

यदि स्वमहिलां भुक्त्वा नान्यां जानामिचेतसा ।
तेन सत्येन मे वाक्यं सत्यं भवतु संगरे

5.27.42

इति वाक्यमुदीर्याशु बाणं धनुषि संधितम् ।
कालानलोपमं वीरशिरश्छेदनमाक्षिपत्

5.27.43

तं बाणं मुक्तमालोक्य स तु राजसुतो बली ।
बाणं शरासने धत्त तीक्ष्णं कालानलोपमम्

5.27.44

तेन बाणेन संछिन्नो बाणः स्ववधौद्यतः ।
हाहाकारो महानासीच्छिन्ने तस्मिञ्छरे तदा

5.27.45

परार्धं पतितं भूमौ पूर्वार्धं फलसंयुतम् ।
शिरोधरां चकर्ताशु पद्मनालमिव क्षणात्

5.27.46

तदा भूमौ पतंतं तु दृष्ट्वा तत्तस्यसैनिकाः ।
हाहाकृत्वा भृशं सर्वे पलायनपरागताः

5.27.47

पृथ्व्यां तन्मस्तकं श्रेष्ठं सकिरीटं सकुंडलम् ।
शुशुभेऽतीव पतितं चंद्रबिंबं दिवो यथा

5.27.48

तं वीक्ष्य पतितं वीरः पुष्कलो भरतात्मजः ।
व्यगाहत व्यूहमिमं सर्ववीरैकशोभितम्

5.27.27

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे चित्रांगवधोनाम सप्तविंशतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc