भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.26

5.26.1

शेष उवाच।
शत्रुघ्नस्तद्बलं दृष्ट्वा भीषणाकृतिमेघवत् ।
हस्त्यश्वरथपादातैर्बहुभिः परिवारितम्

5.26.2

सुमतिं प्रत्युवाचेदं वचोगंभीरशब्दयुक् ।
नानावाक्यविचारज्ञैः पंडितैः परिसेवितः

5.26.3

शत्रुघ्न उवाच।
सुमते कस्य नगरं प्राप्तो मे हयसत्तमः ।
बलमेतन्निरीक्षेहं पयोदधितरंगवत्

5.26.4

कस्यैतद्बलमुद्धर्षं चतुरंगसमन्वितम् ।
पुरतो भाति युद्धाय समुपस्थितमादरात्

5.26.5

एतत्सर्वं समाचक्ष्व यथावत्पृच्छतो मम ।
यज्ज्ञात्वा युद्धसंस्थायै निर्दिशामि स्वकान्भटान्

5.26.6

इति वाक्यं समाकर्ण्य सुमतिः शुभबुद्धिमान् ।
उवाच वचनं प्रीतः शत्रुघ्नं वैरितापनम्

5.26.7

सुमतिरुवाच।
चक्रांका नगरी राजन्वर्तते सविधे शुभा ।
यस्यां संति नराः पापरहिता विष्णुभक्तितः

5.26.8

तस्याः पुर्याः पतिरयं सुबाहुर्धर्मवित्तमः ।
तवायं पुरतो भाति पुत्रपौत्रसमावृतः

5.26.9

स्वदारनिरतो नित्यं परदारपराङ्मुखः ।
विष्णोः कथास्य कर्णस्थाना परार्थप्रकाशिनी

5.26.10

परस्वं न समादत्ते षष्ठांशादधिकं नृपः ।
ब्राह्मणा विष्णुभक्त्यैव पूज्यंते तेन धर्मिणा

5.26.11

नित्यं सेवारतो विष्णुपादपद्ममधुव्रतः ।
एष स्वधर्मनिरतः परधर्मपराङ्मुखः

5.26.12

एतस्य बलतुल्यं हि न वीराणां बलं क्वचित् ।
पुत्रस्य पतनं श्रुत्वा रोषशोकसमाकुलः

5.26.13

चतुरंगसमेतोऽयं युद्धाय समुपस्थितः ।
तवापि वीरा बहवो लक्ष्मीनिधिमुखा अमून्

5.26.14

जेष्यंति शस्त्रसंघेन निर्दिशाशु परं हि तान् ।
शत्रुघ्नस्तद्वचः श्रुत्वा प्रोवाच स्वभटान्वरान्

5.26.15

रणप्राप्तिभवोद्धर्षपूरपूरितमानसान् ।
क्रौंचव्यूहोऽद्य रचितः सुबाहुपरिसैनिकैः

5.26.16

मुखपक्षस्थिता योधास्तान्को भेत्स्यति शस्त्रवित् ।
यस्य भेदे निजा शक्तिर्यो वीर विजयोद्यतः

5.26.17

स गृह्णातु मदीयाद्धि पाणिपद्माच्च वीटकम् ।
तदा लक्ष्मीनिधिर्वीरो जग्राह क्रौंचभेदने

5.26.18

सर्वशस्त्रास्त्रविद्वीरैर्बहुभिः परिवारितः ।
उवाच वचनं राजन्यास्येऽहं क्रौंचभेदने

5.26.19

भार्गवः पूर्वमेवासीत्क्रौंचभेत्ता तथा ह्यहम् ।
तथान्यं वीरमावोचत्कोऽस्य सार्धं गमिष्यति

5.26.20

पुष्कलः पृष्ठतस्तस्य यातुं चक्रे मतिं ततः ।
रिपुतापो नीलरत्न उग्राश्वो वीरमर्दनः

5.26.21

सर्वे शत्रुघ्नसंदेशाद्ययुस्तत्क्रौंचभेदने ।
शत्रुघ्नोऽपि रथस्थश्च सर्वायुधधरः परः

5.26.22

पृष्ठतोऽस्य परीयाय बहुभिः सैनिकैर्वृतः ।
तदा प्रचलितौ दृष्टावन्योन्यबलवारिधी

5.26.23

प्रलयं कर्तुमुद्युक्तौ जगतः सुतरंगिणौ ।
तदा भेर्यः समाजघ्नुरुभयोः सेनयोर्दृढाः

5.26.24

रणभेर्यः शंखनादाः श्रूयंते तत्र तत्र ह ।
हेषंते वाजिनस्तत्र गर्जंति द्विरदा भृशम्

5.26.25

हुं हुं कुर्वंति वीराग्र्या नदंति रथनेमयः ।
तत्र प्रकुपिताः शूराः सुबाहुबलदर्पिताः

5.26.26

छिंधि भिंधीति भाषंतो दृश्यंते बहवो रणे ।
एवंभूते रणोद्युक्ते सैन्ये शत्रुघ्नवैरिणोः

5.26.27

मुखसंस्थं सुकेतुं तं लक्ष्मीनिधिरुवाच ह ।
लक्ष्मीनिधिरुवाच।
जनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम्

5.26.28

सर्वशस्त्रास्त्रकुशलं सर्वयुद्धविशारदम् ।
मुंचाश्वं रामचंद्रस्य सर्वदानवदंशितुः

5.26.29

नोचेन्मद्बाणनिर्भिन्नो यास्यसे यमसादनम् ।
इति ब्रुवंतं वीराग्र्यं सुकेतुः सहसा त्वरन्

5.26.30

सज्यं चापं विधायाशु बाणान्मुंचन्स्थिरोऽभवत् ।
ते बाणाः शितपर्वाणः स्वर्णपुंखाः समंततः

5.26.31

दृश्यंते व्यापिनस्तत्र रणमध्ये सुदुर्भराः ।
तद्बाणजालं तरसा निहत्य ।
लक्ष्मीनिधिश्चापमथा ततज्यम् ।
विधाय तस्योरसि बाणषट्कं ।
मुमोच तीक्ष्णं शितपर्वशोभितम्

5.26.32

तद्बाणाः सुभुजभ्रातुर्हृदयं संविदार्य च ।
गतास्ते भुवि दृश्यंते रुधिराक्ता मलीमसाः

5.26.33

तद्बाणभिन्नहृदयः सुकेतुः कोपपूरितः ।
जघानशरविंशत्या तीक्ष्णया नतपर्वया

5.26.34

उभौ बाणविभिन्नांगावुभौ क्षतजविप्लुतौ ।
सैनिकैः परिदृश्यंते किंशुकाविव पुष्पितौ

5.26.35

मुंचंतौ बाणकोटीश्च संदधंतौ त्वरा शरान् ।
न केनापि विलक्ष्येते लघुहस्तौ महाबलौ

5.26.36

कुंडलीकृत सच्चापौ वर्षंतौ बाणधारया ।
नवांबुदाविव दिवि शक्रनिर्देशकारिणौ

5.26.37

तयोर्बाणा गजान्वाहान्नराञ्छूरान्विमस्तकान् ।
कुर्वंतः केवलं दृष्टा न च संधानमोक्षयोः

5.26.38

पृथिवी सुभटैः पूर्णा सकिरीटैः सकुंडलैः ।
धनुर्बाणकरै रोषसंदष्टाधरयुग्मकैः

5.26.39

तयोः प्रयुद्ध्यतोर्दर्पात्सर्वशस्त्रास्त्रवेदिनोः ।
युद्धं समभवद्घोरं देवविस्मापनं महत्

5.26.40

संमर्दोऽभवदत्यंतं वीरकोटिविदारणः ।
न केनचित्क्वचिद्दृष्टं शरजालांतरेंऽबरम्

5.26.41

तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोऽरिमर्दनः ।
बाणांश्चापे समाधत्त वसुसंख्यान्दृढाञ्छितान्

5.26.42

चतुर्भिस्तुरगान्वीरः सुकेतोरनयत्क्षयम् ।
एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन्

5.26.43

एकेन सारथेः कायाच्छिरोभूमावपातयत् ।
एकेन चापं सगुणमच्छिनद्रोषपूरितः

5.26.44

एकेन हृदि विव्याध सुकेतोर्वेगवान्नृपः ।
तत्कर्माद्भुतमुद्वीक्ष्य वीरा विस्मयमाययुः

5.26.45

सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
महतीं स गदां धृत्वा योद्घुकामोऽभ्युपेयिवान्

5.26.46

तमायांतं समालक्ष्य गदायुद्धविशारदम् ।
महत्या गदया युक्तं रथादवततार सः

5.26.47

गदामादाय महतीं सर्वायसविनिर्मिताम् ।
जातरूपविचित्रांगीं सर्वशोभापुरस्कृताम्

5.26.48

लक्ष्मीनिधिर्भृशं क्रुद्धः सुकेतोर्वक्षसि त्वरन् ।
ताडयामास हृदये गदां वज्राग्निसन्निभाम्

5.26.49

गदया ताडितो वीरो नाकंपत महामुने ।
मदोन्मत्तो यथा दंती बालेन स्रग्भिराहतः

5.26.50

उवाच तं स वीराग्र्यो नृपं लक्ष्मीनिधिं तदा ।
सहस्वैकं प्रहारं मे यदि शूरः परंतप

5.26.51

इत्युक्त्वा ताडयामास ललाटे गदया भृशम् ।
गदया ताडितो भालेऽसृग्वमन्कुपितो भृशम्

5.26.52

मूर्ध्नि तं ताडयामास गदया कालरूपया ।
सुकेतुरपि तं स्कंधे ताडयामास धर्मवित्

5.26.53

एवं भृशं प्रकुपितौ गदायुद्धविशारदौ ।
गदायुद्धं प्रकुर्वाणौ परस्परजयैषिणौ

5.26.54

अन्योन्याघातविमतौ परस्परवधोद्यतौ ।
न कोपि तत्र हीयेत न को जीयेत संयुगे

5.26.55

मूर्ध्नि भाले तथा स्कंधे हृदि गात्रेषु सर्वतः ।
रुधिरौघ परिक्लिन्नौ महाबलपराक्रमौ

5.26.56

तदा लक्ष्मीनिधिः क्रुद्धो गदामुद्यम्य वेगवान् ।
जगाम प्रबलं हंतुं हृदि राजानुजं बली

5.26.57

तमायांतमथालोक्य स्वगदां महतीं दधत् ।
ययौ तं तरसा हंतुं राजभ्राता बलाद्बलम्

5.26.58

गदां तेन विनिक्षिप्तां स्वकरे धृतवानयम् ।
तयैव गदया तस्य हृदि जघ्ने महाबलः

5.26.59

स्वगदां तेन वै नीतां दृष्ट्वा लक्ष्मीनिधिर्नृपः ।
बाहुयुद्धेन तं योद्धुमियेष बलवत्तमम्

5.26.60

तदा राजानुजः क्रुद्धो बाहुभ्यामुपगृह्य तम् ।
युयुधे सर्वयुद्धस्य ज्ञातावीरेषु सत्तमः

5.26.61

तदा लक्ष्मीनिधिस्तस्य हृदि जघ्ने स्वमुष्टिना ।
तदा सोपि शिरस्येनं मुष्टिमुद्यम्य चाहनत्

5.26.62

मुष्टिभिर्वज्रसंकाशैस्तलस्फोटैश्च दारुणैः ।
अन्योन्यं जघ्नतुः क्रुद्धौ संदष्टाधरपल्लवौ

5.26.63

मुष्टी मुष्टि दंता दंति कचा कचि नखा नखि ।
उभयोरभवद्युद्धं तुमुलं रोमहर्षणम्

5.26.64

तदा प्रकुपितो भ्राता नृपतेश्च रणे नृपम् ।
गृहीत्वा भ्रामयित्वाथ पातयामास भूतले

5.26.65

लक्ष्मीनिधिः करे गृह्य तं नृपानुजमुच्चकैः ।
भ्रामयित्वा शतगुणं गजोपस्थे जघान तम्

5.26.66

स तदा पतितो भूमौ संज्ञां प्राप्य क्षणादनु ।
तथैव भ्रामयामास व्योम्नि वेगेन विक्रमी

5.26.67

एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः ।
पादे पादं करे पाणिं हृदि हृद्वदने मुखम्

5.26.68

एवं परस्परं श्लिष्टौ परस्परवधैषिणौ ।
उभावपि पराक्रांतावुभावपि मुमूर्च्छतुः

5.26.69

तद्दृष्ट्वा विस्मयं प्राप्ताः प्रशशंसुः सहस्रशः ।
धन्यो लक्ष्मीनिधिर्भूपो धन्यो राजानुजो बली

5.26.26

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे गदायुद्धंनाम षड्विंशतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc