भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.20

5.20.1

सुमतिरुवाच।
अथ प्रयाते भूपाले सर्वलोकसमन्विते ।
महाभागैर्वैष्णवैश्च गायकैः कृष्णकीर्तनम्

5.20.2

शुश्रावासौ महाराजो मार्गे गोविंदकीर्तनम् ।
जय माधव भक्तानां शरण्य पुरुषोत्तम

5.20.3

मार्गे तीर्थान्यनेकानि कुर्वन्पश्यन्महोदयम् ।
तापसब्राह्मणात्तेषां महिमानमथा शृणोत्

5.20.4

विचित्रविष्णुवार्ताभिर्विनोदितमना नृपः ।
मार्गेमार्गे महाविष्णुं गापयामास गायकान्

5.20.5

दीनांधकृपणानां च पंगूनां वासनोचितम् ।
दानं ददौ महाराजो बुद्धिमान्विजितेंद्रियः

5.20.6

अनेकतीर्थविरजमात्मानं भव्यतां गतम् ।
कुर्वन्ययौ स्वीयलोकैर्हरिध्यानपरायणः

5.20.7

नृपो गच्छन्ददर्शाग्रे नदीं पापप्रणाशिनीम् ।
चक्रांकितग्रावयुतां मुनिमानस निर्मलाम्

5.20.8

अनेकमुनिवृंदानां बहुश्रेणिविराजिताम् ।
सारसादिपतत्रीणां कूजितैरुपशोभिताम्

5.20.9

दृष्ट्वा पप्रच्छ विप्राग्र्यं तापसं धर्मकोविदम् ।
अनेकतीर्थमाहात्म्य विशेषज्ञानजृंभितम्

5.20.10

स्वामिन्केयं नदी पुण्या मुनिवृन्दनिषेविता ।
करोति मम चित्तस्य प्रमोदभरनिर्भरम्

5.20.11

इति श्रुत्वा वचस्तस्य राजराजस्य धीमतः ।
वक्तुं प्रचक्रमे विद्वांस्तीर्थमाहात्म्यमुत्तमम्

5.20.12

ब्राह्मण उवाच।
गंडकीयं नदी राजन्सुरासुरनिषेविता ।
पुण्योदकपरीवाह हतपातकसंचया

5.20.13

दर्शनान्मानसं पापं स्पर्शनात्कर्मजं दहेत् ।
वाचिकं स्वीय तोयस्य पानतः पापसंचयम्

5.20.14

पुरा दृष्ट्वा प्रजानाथः प्रजाः सर्वा विपावनीः ।
स्वगंडविप्रुषोनेक पापघ्नीं सृष्टवानिमाम्

5.20.15

एनां नदीं ये पुण्योदां स्पृशंति सुतरंगिणीम् ।
ते गर्भभाजो नैव स्युरपि पापकृतो नराः

5.20.16

अस्यां भवा ये चाश्मानश्चक्रचिह्नैरलंकृताः ।
ते साक्षाद्भगवंतो हि स्वस्वरूपधराः पराः

5.20.17

शिलां संपूजयेद्यस्तु नित्यं चक्रयुतां नरः ।
न जातु स जनन्या वै जठरं समुपाविशेत्

5.20.18

पूजयेद्यो नरो धीमाञ्छालग्रामशिलां वराम् ।
तेनाचारवता भाव्यं दंभलोभवियोगिना

5.20.19

परदार परद्रव्यविमुखेन नरेण हि ।
पूजनीयः प्रयत्नेन शालग्रामः सचक्रकः

5.20.20

द्वारवत्यां भवं चक्रं शिला वै गंडकीभवा ।
पुंसां क्षणाद्धरत्येव पापं जन्मशतार्जितम्

5.20.21

अपि पापसहस्राणां कर्ता तावन्नरो भवेत् ।
शालग्रामशिलातोयं पीत्वा पूतो भवेत्क्षणात्

5.20.22

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वेदपथि स्थितः ।
शालग्रामं पूजयित्वा गृहस्थो मोक्षमाप्नुयात्

5.20.23

न जातु चित्स्त्रिया कार्यं शालग्रामस्य पूजनम् ।
भर्तृहीनाथ सुभगा स्वर्गलोकहितैषिणी

5.20.24

मोहात्स्पृष्ट्वापि महिला जन्मशीलगुणान्विता ।
हित्वा पुण्यसमूहं सा सत्वरं नरकं व्रजेत्

5.20.25

स्त्रीपाणिमुक्तपुष्पाणि शालग्रामशिलोपरि ।
पवेरधिकपातानि वदंति ब्राह्मणोत्तमाः

5.20.26

चंदनं विषसंकाशं कुसुमं वज्रसंनिभम् ।
नैवेद्यं कालकूटाभं भवेद्भगवतः कृतम्

5.20.27

तस्मात्सर्वात्मना त्याज्यं स्त्रिया स्पर्शः शिलोपरि ।
कुर्वती याति नरकं यावदिंद्राश्चतुर्दश

5.20.28

अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा ।
शालग्रामशिलातोयं पीत्वा याति परां गतिम्

5.20.29

तुलसीचंदनं वारि शंखो घंटाथ चक्रकम् ।
शिला ताम्रस्य पात्रं तु विष्णोर्नामपदामृतम्

5.20.30

पदामृतं तु नवभिः पापराशिप्रदाहकम् ।
वदंति मुनयः शांताः सर्वशास्त्रार्थकोविदाः

5.20.31

सर्वतीर्थपरिस्नानात्सर्वक्रतुसमर्चनात् ।
पुण्यं भवति यद्राजन्बिंदौ बिंदौ तदद्भुतम्

5.20.32

शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः ।
तत्र योजनमात्रं तु तीर्थकोटिसमन्वितम्

5.20.33

शालग्रामाः समाः पूज्याः समेषु द्वितयं नहि ।
विषमा एव संपूज्या विषमेषु त्रयं नहि

5.20.34

द्वारावती भवं चक्रं तथा वै गंडकीभवम् ।
उभयोः संगमो यत्र तत्र गंगा समुद्रगा

5.20.35

रूक्षाः कुर्वंति पुरुषा नायुः श्रीबलवर्जितान् ।
तस्मात्स्निग्धा मनोहारि रूपिण्यो ददति श्रियम्

5.20.36

आयुष्कामो नरो यस्तु धनकामो हि यः पुमान् ।
पूजयन्सर्वमाप्नोति पारलौकिकमैहिकम्

5.20.37

प्राणांतकाले पुंसस्तु भवेद्भाग्यवतो नृप ।
वाचि नाम हरेः पुण्यं शिला हृदि तदंतिके

5.20.38

गच्छत्सु प्राणमार्गेषु यस्य विश्रंभतोऽपि चेत् ।
शालग्रामशिला स्फूर्तिस्तस्य मुक्तिर्न संशयः

5.20.39

पुरा भगवता प्रोक्तमंबरीषाय धीमते ।
ब्राह्मणा न्यासिनः स्निग्धाः शालग्रामशिलास्तथा

5.20.40

स्वरूपत्रितयं मह्यमेतद्धि क्षितिमंडले ।
पापिनां पापनिर्हारं कर्तुं धृतमुदं च ता

5.20.41

निंदंति पापिनो ये वा शालग्रामशिलां सकृत् ।
कुंभीपाके पचंत्याशु यावदाभूतसंप्लवम्

5.20.42

पूजां समुद्यतं कर्तुं यो वारयति मूढधीः ।
तस्य मातापिताबंधुवर्गा नरकभागिनः

5.20.43

यो वा कथयति प्रेष्ठं शालग्रामार्चनं कुरु ।
सकृतार्थो नयत्याशु वैकुंठं स्वस्य पूर्वजान्

5.20.44

अत्रैवोदाहरंतीममितिहासं पुरातनम् ।
मुनयो वीतरागाश्च कामक्रोधविवर्जिताः

5.20.45

पुरा कीकटसंज्ञे वै देशे धर्मविवर्जिते ।
आसीत्पुल्कसजातीयो नरः शबरसंज्ञितः

5.20.46

नित्यं जंतुवधोद्युक्तः शरासनधरो मुहुः ।
तीर्थं प्रति यियासूनां बलाद्धरति जीवितम्

5.20.47

अनेकप्राणिहत्याकृत्परस्वे निरतः सदा ।
सदा रागादिसंयुक्तः कामक्रोधादिसंयुतः

5.20.48

विचरत्यनिशं भीमे वने प्राणिवधंकरः ।
विषसंसक्तबाणाग्र रूढचापगुणोद्धुरः

5.20.49

सैकदा पर्यटन्व्याधः प्राणिमात्रभयंकरः ।
कालं प्राप्तं न जानाति समीपेऽप्युग्रमानसः

5.20.50

यमदूतास्तु संप्राप्ताः पाशमुद्गरपाणयः ।
ताम्रकेशा दीर्घनखा लंबदंष्ट्रा भयानकाः

5.20.51

श्यामा लोहस्यनिगडान्बिभ्रतो मोहकारकाः ।
बध्नंतु पापिनं ह्येनं प्राणिमात्रभयंकरम्

5.20.52

कदाचिन्मनसा नायं प्राणिमात्रोपकारकः ।
परदार परद्रव्य परद्रोहपरायणः

5.20.53

एतस्य जिह्वां महतीमहं निष्कासयाम्यतः ।
एको वदति चैतस्य चक्षुरुत्पाटयाम्यहम्

5.20.54

एको वदति चैतस्य करौ कृंतामि पापिनः ।
अन्यो वदत्यहं कर्णौ कर्तयामि दुरात्मनः

5.20.55

एवं वदंतः सुभृशं दन्तैर्दन्तनिपीडकाः ।
आगत्य तं दुरात्मानं सायुधास्तस्थुरुन्मदाः

5.20.56

एको दूतस्तदा सर्परूपं धृत्वादशत्पदे ।
स दष्टमात्रः सहसा गतासुः पर्यजायत

5.20.57

तदा तं लोहपाशेन बद्ध्वा ते यमकिंकराः ।
कशाभिस्ताडयामासुर्मुद्गरैः प्राहरन्क्रुधा

5.20.58

अहो दुष्ट दुरात्मंस्त्वं कदाचिन्नाचरः शुभम् ।
मनसापि यतस्त्वां वै क्षेप्स्यामो रौरवेषु च

5.20.59

त्वङ्मांसं वायसा रौद्रा भक्षयिष्यंति वै क्रुधा ।
आजन्मतस्तु भवता न कृतं हरिसेवनम्

5.20.60

त्वया कलत्रपुत्राद्या द्रोहं कृत्वा सुपोषिताः ।
न कदाचित्स्मृतो देवः पापहारी जनार्दनः

5.20.61

तस्मात्त्वां लोहशंकौ वा कुंभीपाके च रौरवे ।
धर्मराजाज्ञया सर्वे नेष्यामो बहुताडनैः

5.20.62

एवमुक्त्वा यदानेतुं समैच्छन्यमकिंकराः ।
तावत्प्राप्तो महाविष्णुचरणाब्जपरायणः

5.20.63

यमदूतास्तदा दृष्टा वैष्णवेन महात्मना ।
पाशमुद्गरदंडादिदुष्टायुधधरा गणाः

5.20.64

पुल्कसं लोहनिगडैर्बद्ध्वा यातुं समुद्यताः ।
बन्ध बन्ध ग्रसच्छिन्धि भिन्धि भिन्धीति वादिनः

5.20.65

तदा कृपालुस्तं प्रेक्ष्य पद्मनाभपरायणः ।
अत्यंतकृपयायुक्तं चेतस्तत्र तदाकरोत्

5.20.66

असौ महादुष्ट पीडां मा यातु मम सन्निधौ ।
मोचयाम्यहमद्यैव यमदूतेभ्य एव च

5.20.67

इति कृत्वा मतिं तस्मिन्कृपायुक्तो मुनीश्वरः ।
शालग्रामशिलां हस्ते गृहीत्वास्य गतोंऽतिके

5.20.68

तस्य पादोदकं पुण्यं तुलसीदलमिश्रितम् ।
मुखे विनिक्षिपन्कर्णे रामनाम जजाप ह

5.20.69

तुलसीं मस्तके तस्य धारयामास वैष्णवः ।
शिलां हृदि महाविष्णोर्धृत्वा प्राह स वैष्णवः

5.20.70

गच्छंतु यमदूता वै यातनासु परायणाः ।
शालग्रामशिलास्पर्शो दहतात्पातकं महत्

5.20.71

इत्युक्तवति तस्मिन्वै गणा विष्णोर्महाद्भुताः ।
आययुस्तस्य सविधे शिलास्पर्शाद्गतांहसः

5.20.72

पीतवस्त्राः शंखचक्रगदापद्मविराजिताः ।
आगत्य मोचयामासुर्लोहपाशाद्दुरासदात्

5.20.73

मोचयित्वा महापापकारकं पुल्कसं नरम् ।
ऊचुः किमर्थं बद्धोऽयं वैष्णवः पूज्यदेहभृत्

5.20.74

कस्याज्ञाकारका यूयं यदधर्मप्रकारकाः ।
मुंचंतु वैष्णवं त्वेनं किमर्थं विधृतो ह्ययम्

5.20.75

इति वाक्यं समाकर्ण्य जगदुर्यमकिंकराः ।
धर्मराजाज्ञया प्राप्ता नेतुं पापिनमुद्यताः

5.20.76

नासौ कदाचिन्मनसा प्राणिमात्रोपकारकः ।
प्राणिहत्या महापापकारी दुष्टशरीरभृत्

5.20.77

नॄन्बहूंस्तीर्थयात्रायां गच्छतोऽसौ व्यलुंठयत् ।
परदाररतो नित्यं सर्वपापाधिकारकः

5.20.78

तस्मान्नेतुं वयं प्राप्ताः पापिनं पुल्कसं नरम् ।
भवद्भिर्मोचितः कस्मादकस्मादागतैर्भटैः

5.20.79

विष्णुदूता ऊचुः।
ब्रह्महत्यादिकं पापं प्राणिकोटिवधोद्भवम् ।
शालग्रामशिलास्पर्शः सर्वं दहति तत्क्षणात्

5.20.80

रामेति नाम यच्छ्रोत्रे विश्रंभादागतं यदि ।
करोति पापसंदाहं तूलं वह्निकणो यथा

5.20.81

तुलसी मस्तके यस्य शिला हृदि मनोहरा ।
मुखे कर्णेऽथवा राम नाम मुक्तस्तदैव सः

5.20.82

तस्मादनेन तुलसी मस्तके विधृता पुरा ।
श्रावितं रामनामाशु शिला हृदि सुधारिता

5.20.83

तस्मात्पापसमूहोऽस्य दग्धः पुण्यकलेवरः ।
यास्यते परमं स्थानं पापिनां यत्सुदुर्ल्लभम्

5.20.84

वर्षायुतं तत्र भुक्त्वा भोगान्सर्वमनोहरान् ।
भारते जन्म संप्राप्य समाराध्य जगद्गुरुम्

5.20.85

प्राप्स्यते परमं स्थानं सुरासुरसुदुर्ल्लभम् ।
न ज्ञातो महिमा सम्यक्छिलायाः परमेष्ठिनः

5.20.86

दृष्टा स्पृष्टार्चिता वापि सर्वपापहरा क्षणात् ।
इत्युक्त्वा विरताः सर्वे महाविष्णोर्गणा मुदा

5.20.87

याम्यास्ते किंकरा राज्ञे कथयामासुरद्भुतम् ।
वैष्णवो हर्षमापेदे रघुनाथपरायणः

5.20.88

मुक्तोऽसौ यमपाशाच्च गमिष्यति परं पदम् ।
तदाजगाम विमलं किंकिणीजालमंडितम्

5.20.89

विमानं देवलोकात्तु मनोहारि महाद्भुतम् ।
तत्रारुह्य गतः स्वर्गं महापुण्यैर्निषेवितम्

5.20.90

भोगान्भुक्त्वा स विपुलानाजगाम महीतलम् ।
काश्यां जन्म समासाद्य शुचिवाडवसत्कुले

5.20.91

आराध्य जगतामीशं गतवान्परमं पदम् ।
स पापी साधुसंगत्या शालग्रामशिलां स्पृशन्

5.20.92

महापीडाविनिर्मुक्तो गतवान्परमं पदम् ।
मया तेऽभिहितं राजन्गंडकीचरितं महत्

5.20.93

श्रुत्वा विमुच्यते पापैर्भुक्तिं मुक्तिं च विंदति

5.20.20

इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे गंडकीमाहात्म्यंनाम विंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc