भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 4.9

4.9.1

सूत उवाच-
ततोऽमरगणास्ते च सगंधर्वाः सदानवा ।
उत्पाट्य मंदरं शैलं चिक्षिपुः पयसां निधौ

4.9.2

ततः सनातनः श्रीमान्दयालुर्जगदीश्वरः ।
अधारयद्गिरेर्मूलं कूर्मरूपेण पृष्ठतः

4.9.3

अनंतं तत्र संवेष्ट्य ममंथुर्दुग्धसागरम् ।
एकादश्यां मथ्यमाने चोद्भूतं प्रथमं द्विज

4.9.4

कालकूटविषं ते तु दृष्ट्वा सर्वे प्रदुद्रुवुः ।
ततस्तान्विद्रुतान्दृष्ट्वा शंकरश्चोक्तवानिदम्

4.9.5

भोभोऽमरगणा यूयं विषं कुरुतमादरम् ।
वारयिष्याम्यहं तूर्णं कालकूटं महाविषम्

4.9.6

इत्युक्त्वा पार्वतीनाथो ध्यायन्नारायणं हृदि ।
महामंत्रं समुच्चार्य विषमादद्भयंकरम्

4.9.7

महामंत्रप्रभावेण विषं जीर्णं गतं महत् ।
अच्युतानंतगोविंद इति नामत्रयं हरेः

4.9.8

योजपेत्प्रयतो भक्त्या प्रणवाद्यं नमोंऽतिकम् ।
विषभोगाग्निजं तस्य नास्ति मृत्योर्भयं तथा

4.9.9

ततो हृष्टमना देवा ममंथुः क्षीरसागरम् ।
ततोऽलक्ष्मीः समुत्पन्ना कालास्या रक्तलोचना

4.9.10

रूक्षपिंगलकेशा च जरतीं बिभ्रती तनुम् ।
सा च ज्येष्ठाब्रवीद्देवान्किंकर्तव्यं मयेति वै

4.9.11

देवास्तथाब्रुवंस्तां च देवीं दुःखस्यभाजनम् ।
येषां नॄणां गृहे देवी कलहः संप्रवर्तते

4.9.12

तत्र स्थानं प्रयच्छामो वस ज्येष्ठे शुभान्विता ।
निष्ठुरं वचनं ये च वदंति येऽनृतं नराः

4.9.13

संध्यायां ये हि चाश्नंति दुःखदा तिष्ठ तद्गृहे ।
कपालकेशभस्मास्थि तुषांगाराणि यत्र तु

4.9.14

स्थानं ज्येष्ठे तत्र तव भविष्यति न संशयः ।
अकृत्वा पादयोर्धौतं ये चाश्नंति नराधमाः

4.9.15

तद्गृहे सर्वदा तिष्ठ दुःखदारिद्रदायिनी ।
वालुकालवणांगारैः कुर्वंति दंतधावनम्

4.9.16

तेषां गेहे सदा तिष्ठ दुःखदा कलिना सह ।
छत्राकं श्रीफलं शिष्टं ये खादंति नराधमाः

4.9.17

गेहे तेषां तव स्थानं ज्येष्ठे कलुषदायिनि ।
तिलपिष्टमलाबुं ये गृंजनं पोतिकादलम्

4.9.18

कलं बुकं पलांडुं ये चाश्नंति पापबुद्धयः ।
तेषां गृहे तव स्थानं भविष्यति न संशयः

4.9.19

गुरु देवातिथीनां च यज्ञदानविवर्जितम् ।
यत्रवेदध्वनिर्नास्ति तत्र तिष्ठ सदाऽशुभे

4.9.20

दंपत्योः कलहो यत्र पितृदेवार्चनं न वै ।
दुरोदररता यत्र तत्र तिष्ठ सदाशुभे

4.9.21

परदाररता यत्र परद्रव्यापहारिणः ।
विप्रसज्जनवृद्धानां यत्र पूजा न विद्यते ।
तत्र स्थाने सदा तिष्ठ पापदारिद्र्यदायिनी

4.9.22

इत्यादिश्य सुरा ज्येष्ठां सर्वेषां कलिवल्लभाम् ।
क्षीराब्धेर्मथनं चक्रुः पुनस्ते सुसमाहिताः

4.9.9

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे समुद्रमथनंनाम नवमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc