पद्म पुराण · अध्याय 4.8
शौनक उवाच-
समुद्रमथनं सूत पुरा कस्मात्कृतं गुरो ॥
हृदये कौतुकं जातं श्रोतुं मे वद चामरैः
सूत उवाच-
ब्रह्मन्वच्मि समासेन सिंधोर्मथनकारणम् ॥
दुर्वाससेंद्र संवादमितिहासं शृणुष्व तत्
महातपा महातेजा दुर्वासा ईश्वरांशजः ॥
ब्रह्मर्षिः प्रययौ स्वर्गमिन्द्रं द्रष्टुं स चैकदा
तस्मिन्ददर्श काले तं गजारूढंव् शचीपतिम् ॥
दृष्ट्वा स्रजं पारिजातां ददौ तस्मै महामुनिः
गृहीत्वा तां स्रजं चेंद्रो विन्यस्य गजमूर्द्धनि ॥
देवराट्प्रययौ ब्रह्मन्ससैन्यो नंदनं प्रति
हस्ती चादाय तां मालां छित्त्वा तु धरणीतले ॥
चिक्षेप च महाक्रुद्धस्तमित्याह महामुनिः
त्रैलोक्यैकश्रियायुक्तो यस्मात्त्वमवमन्यसे ॥
तव त्रैलोक्यश्रीर्नष्टा भवत्येव न संशयः
ततः शक्रो जगामाशु सुप्तश्च स्वपुरं पुनः ॥
ददर्श जगतां माता चांतर्द्धानं गता स्वयम्
नष्टमंतर्द्धानवत्यां तदा तस्यां जगत्त्रयम् ॥
क्षुत्पिपासान्विताः सर्वे चुक्रुशुर्वै निरंतरम्
न ववर्षुर्वारिवाहाः शुष्काश्चैव जलाशयाः ॥
सर्वे ते शाखिनः शुष्काः फलपुष्पविवर्जिताः
क्षुत्पिपासार्दिताः सर्वे ब्रह्मणः सन्निधिं ययुः ॥
तं सर्वे कथयामासुः दुःखशोकं पितामहम्
देवानां वचनं श्रुत्वा धाता देवगणैः सह ॥
भृग्वादिमुनिभिश्चैव प्रययौ क्षीरसागरम्
विष्णुं समर्चयामास क्षीराब्धेरुत्तरे तटे ॥
मंत्रमष्टाक्षरं वेधा जपन्ध्यायन्जगत्पतिम्
ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम् ॥
वैनतेयं समारुह्य चागतः सदयः प्रभुः
पीतवस्त्रं चतुर्बाहुं शंखचक्रगदाधरम् ॥
दृष्ट्वा तं जगतामीशं पुंडरीकनिभेक्षणम्
विष्णुं भवोदधेः पोतं वनमालाविभूषितम् ॥
श्रीवत्सकौस्तुभोरस्कमानंदाश्रुपरिप्लुताः
तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरंतरम् ॥
श्रीभगवानुवाच-
वरं वृणीध्वं भो देवाः कस्माद्यूयं समागताः ॥
वरदोऽस्मि तद्वदत वो ददामि च नान्यथा
देवा ऊचुः-
कृपालो ब्रह्मशापेन संपद्धीनं जगत्त्रयम् ॥
क्षुत्पिपासार्दितं नाथ सदेवासुरमानुषम्
रक्ष सर्वानिमाँल्लोकान्याताः स्म शरणं तव ॥
श्रीभगवानुवाच-
इंदिरा ब्रह्मशापेन चान्तर्द्धानं गता सुराः
यस्याः कटाक्षमात्रेण जगदैश्वर्यसंयुतम् ॥
तदा यूयं सुराः सर्वे चोत्पाट्य स्वर्णपर्वतम्
मंदरं घर्घरं कृत्वा सर्पराजेन वेष्टितम् ॥
कुरुध्वं मथनं देवाः सदैत्याः क्षीरसागरम्
तस्मादुत्पत्स्यते लक्ष्मीर्जगन्माता च भोः सुराः ॥
तया हृष्टा महाभागा भविष्यथ न संशयः
धारयाम्यहमेवाद्रिं कूर्मरूपेण सर्वतः ॥
इत्युक्त्वा भगवान्विष्णुरंतर्द्धानं जगाम सः ॥
जग्मुः सुरासुराः सर्वे समुद्रमथनं द्विज
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे समुद्रमथनोद्योगोनामाष्टमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0