भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 4.10

4.10.1

सूत उवाच-
ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः ।
धन्वंतरिः पारिजातः सुरभिश्चाप्सरोदयः

4.10.2

ततः प्रभातसमये द्वादश्यामुदिते रवौ ।
उत्पन्ना श्रीर्महालक्ष्मीः सर्वलक्षणशोभिता

4.10.3

ददृशुस्तां महादेवीं मातरं धर्मदेवताः ।
प्रहृष्टाः सर्वजंतूनां श्रीकृष्णहृदयालयाम्

4.10.4

लक्ष्मीभ्राता शीतरश्मिर्जातश्च सुधया ततः ।
उत्पन्ना सा हरेर्जाया तुलसी लोकपावनी

4.10.5

तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः ।
समेत्य मातरं स्तुत्वा जेपुः श्रीसूक्तमुत्तमम्

4.10.6

ततः प्रसन्ना सा देवी सर्वान्देवानुवाच ह ।
वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः

4.10.7

देवा ऊचुः-
प्रसीद कमले देवि सर्वमातर्हरिप्रिये ।
त्वया विना जगच्छून्यं कुरु प्राणप्ररक्षणम्

4.10.8

इत्युक्ता सा महालक्ष्मीः प्राह नारायणप्रिया ।
इदानीं सर्वजंतूनां प्राणरक्षां करोम्यहम्

4.10.9

ततो नारायणः श्रीमाञ्छंखचक्रगदाधरः ।
आविर्बभूव सहसा दयालुर्जगदीश्वरः

4.10.10

ततस्ते तुष्टुवुर्देवाः प्रणम्य जगतां पतिम् ।
कृतांजलिपुटाः प्रोचुः हर्षगद्गदभाषिणः

4.10.11

गृहाण मातरं विष्णो महिषीं वल्लभां तव ।
संसाररक्षणार्थाय लक्ष्मीमनपगामिनीम् ।
यावत्प्रतिज्ञां नो चक्रे तावत्प्राहेंदिरा हरिम्

4.10.12

लक्ष्मीरुवाच-
अविवाह्य कथं ज्येष्ठामलक्ष्मीं मधुसूदन ।
तस्याः कनिष्ठां मां नाथ विवाहं कर्तुमिच्छसि ।
ज्येष्ठायां च स्थितायां वै कनिष्ठा परिणीयते

4.10.13

सूत उवाच-
इति श्रुत्वा ततो विष्णुर्ददौ चोद्दालकाय च ।
वेदवाक्यानुरूपेण ह्यलक्ष्मीं निर्जरैः सह

4.10.14

ततो नारायणः श्रीमान्लक्ष्मीमंगीचकार ह ।
ततः सुरगणाः सर्वे नमश्चक्रुः पुनःपुनः

4.10.15

अथ ते चासुरान्सर्वान्जघ्नुः सर्वे बलाधिकाः ।
सर्वे ते क्रंदमानाश्च गताश्चैव दिशो दश

4.10.16

सुधां तत्खादितुं चक्रुर्देवाः पंक्तिं यथाक्रमम् ।
श्रीविष्णोराज्ञया सर्वे चोचुश्चैव परस्परम्

4.10.17

त्वं च देहि त्वं च देहि त्वं च देहीति चाब्रुवन् ।
न शक्तोऽस्मि न शक्तोऽस्मि न शक्तोऽस्मीति चाब्रुवन्

4.10.18

ततो विष्णुः समुत्तस्थौ स्त्रीरूपं च दधार ह ।
चकार स्वर्णपात्रे तत्पीयूषपरिवेषणम्

4.10.19

पीयूषभक्षणं राहुर्यावत्कुर्याद्द्विजोत्तम ।
चंद्रसूर्यौ चोक्तवंतौ राक्षसोऽसौ छलागतः

4.10.20

ततः क्रुद्धो जगन्नाथो जघान स्वर्णपात्रतः ।
शिरस्तस्य पपातोर्व्यां केतुर्नाम्ना बभूव ह

4.10.21

राहुकेतू ततस्तूर्णं गतौ तौ भयविह्वलौ ।
इदानीं तद्दिने प्राप्ते चंद्रसूर्यौ स युध्यति

4.10.22

कुर्याद्ग्रासं सैंहिकेयस्तत्क्षणं दुर्लभं भवेत् ।
सर्वं गंगासमं तोयं वेदव्याससमा द्विजाः

4.10.23

स्नानं वायसतीर्थे यो गंगास्नानफलं लभेत् ।
दानमक्षयपुण्यं स्यात्कोटिजन्मार्जितं तथा

4.10.24

पापं नश्येत्समूलं च किं पुनः क्रतुकोटिभिः ।
विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्यते

4.10.25

मोक्षार्थी लभते मोक्षं मंत्रसिद्धिर्भवेद्ध्रुवम् ।
इति ते कथितं विप्र समुद्रमथनं तु तत्

4.10.10

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकादिकसंवादे समुद्रमथनंनाम दशमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc