भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 4.23

4.23.1

शौनक उवाच।
कथयस्व मुने सूत माहात्म्यं कलुषक्षयम् ।
शेषपंचदिनस्यापि कार्त्तिकस्यानुकंपया

4.23.2

सूत उवाच।
शृणु शौनक यत्पृष्टं माहात्म्यं पापनाशनम् ।
वक्ष्याम्यहं वै चोर्जस्य शेषपंचदिनस्य च

4.23.3

व्रतानां मुनिशार्दूल प्रवरं विष्णुपंचकम् ।
तस्मिन्यः पूजयेद्भक्त्या श्रीहरिं राधया सह

4.23.4

गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः ।
स याति विष्णुसदनं सर्वपापविवर्जितः

4.23.5

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः ।
न प्राप्नोति परं स्थानमकृत्वा विष्णुपंचकम्

4.23.6

सर्वपापहरं पुण्यं विख्यातं विष्णुपंचकम् ।
तत्र स्नानं तु यः कुर्यात्सर्वतीर्थफलं लभेत्

4.23.7

श्रीहरेः पुरतो विप्र तुलस्याश्च समीपतः ।
प्रदीपं सर्पिषा पूर्णं दद्याद्यो भक्तिभावतः

4.23.8

नभसि श्रीहरेः प्रीत्यै याति स विष्णुमंदिरम् ।
पापी याति हरेर्धाम सत्यमेतन्मयोदितम्

4.23.9

स्नापयेच्चाच्युतं भक्त्या मधुक्षीरघृतादिभिः ।
दद्यात्किं नो हरिः प्रीतस्तस्मै साधुजनाय वै

4.23.10

नैवेद्यं देवदेवेशं परमान्नं निवेदयेत् ।
तस्य पुण्यं प्रसंख्यातुं न शक्तो वै चतुर्मुखः

4.23.11

अर्चयित्वा हृषीकेशमेकादश्यां समाहितः ।
निष्प्राप्य गोमयं सम्यक्मंत्रवत्समुपासते

4.23.12

गोमूत्रं मंत्रवद्भूयो द्वादश्यां प्राशयेद्व्रती ।
क्षीरं तथा त्रयोदश्यां चतुर्दश्यां तथा दधि

4.23.13

संप्राप्य पापशुद्ध्यर्थं लंघयित्वा चतुर्दिनम् ।
पंचमे तु दिने स्नात्वा विधिवत्पूज्य केशवम्

4.23.14

भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ।
ततो नक्तं समश्नीयात्पंचगव्यं सुमंत्रितम्

4.23.15

एवं कर्तुमशक्तो यः फलमूलं च भोजनम् ।
कुर्याद्धविष्यं वा विप्र यथोक्तविधिना ह वै

4.23.16

श्रीहरेः पंचकं विप्र कुर्याद्यस्तुलसीदलैः ।
पूजयेत्तं स विज्ञेयः स्वयं नारायणः प्रभुः

4.23.17

पुरा त्रेतायुगे शूद्रो दस्युवृत्तिपरायणः ।
नाम्ना दंडकरो नित्यं धर्मनिंदां करोति यः

4.23.18

असत्यभाषी मित्रघ्नो वेश्याविभ्रम लोलुपः ।
ब्रह्मस्वहारी क्रूरश्च परस्त्रीगमने रतः

4.23.19

शरणागतहंता च पाखंडजनसंगभाक् ।
गोमांसाशी सुरापश्च परनिंदाकरः सदा

4.23.20

विश्वासघाती ज्ञातीनां वृत्तिच्छेदी द्विजोत्तम ।
दुष्टं सर्वे समालोक्य तादृशं तद्गृहे द्विजः

4.23.21

आगता ज्ञातयः क्रुद्धास्तस्य पापपरायणम् ।
ज्ञातय ऊचुः।
रे रे मूढ दुराचार विनाशं प्रतिनीयते ।
या प्रतिष्ठार्जिता पूर्वैरस्माकं निर्मलेऽन्वये

4.23.22

इति क्रुद्धा द्विजश्रेष्ठ अपकीर्तिभयादपि ।
पापिनां प्रवरं सर्वे तत्यजुस्तं कुलादरम्

4.23.23

ततो गतो महारण्यं विनष्टाखिल वैभवः ।
कुर्यात्स दस्युभिः सार्द्धं दस्युकर्म निरंतरम्

4.23.24

पथि प्रगच्छतां तेषां भयाद्विप्र न खादितुम् ।
प्राप्तं किंचित्क्षुधार्त्तास्ते गताश्चान्य स्थलं प्रति

4.23.25

तत्र प्रविष्टास्ते सर्वे दृष्ट्वा पुण्यजनान्बहून् ।
धात्रीमूले स्थितान्ब्रह्मन्वैष्णवान्द्विजसत्तमान्

4.23.26

सर्वे ते दस्यवो विप्र गता दंडकरोऽपि सः ।
तेषां परिसरं गत्वा प्रणामं वै चकार ह

4.23.27

दंडकर उवाच।
क्षुधार्तोऽहं द्विजश्रेष्ठाः प्राणा यास्यंति मे ध्रुवम् ।
ददध्वं खादितुं किंचिद्युष्माकं शरणं गतः

4.23.28

आकर्ण्य वचनं तस्य चोचुस्ते धर्मतत्पराः ।
सर्वपापहरे त्वं च विख्याते विष्णुपंचके

4.23.29

कथमन्नं खादितुं ते वांछा त्वद्य हरेर्दिने ।
विशेषं ते ब्रूहि संज्ञा काते भवति सांप्रतम्

4.23.30

स उवाच मुदा विप्रा नाम्ना दंडकरोप्यहम् ।
सर्वपापसमायुक्तश्चोद्धारो मे कथं भवेत्

4.23.31

ऊचुस्ते वै व्रतं श्रेष्ठं कुरुष्व विष्णुपंचकम् ।
विप्राणामाज्ञया विप्र चकार विष्णुपंचकम्

4.23.32

स प्रेत्य च हरेः स्थानमारुह्य स्यंदने वरे ।
आसाद्य श्रीहरेरूपं तस्थौ जन्मविवर्जितः

4.23.33

य इदं शृणुयाद्भक्त्या चाख्यानं पापनाशनम् ।
कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात्

4.23.23

इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे विष्णुपंचकमाहात्म्यंनाम त्रयोविंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc