भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 4.22

4.22.1

शौनकौवाच।
माहात्म्यं ब्रूहि सर्वज्ञ शृण्वतां पापनाशनम् ।
सर्वप्राणिहितार्थाय तुलस्या अनुकंपया

4.22.2

सूत उवाच।
तुलस्याः परिसरे यस्य काननं तिष्ठति द्विज ।
गृहस्य तीर्थरूपत्वान्नायांति यमकिंकराः

4.22.3

तुलस्याः काननं विप्र सर्वपापहरं शुभम् ।
रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम्

4.22.4

रोपणं पालनं सेवां दर्शनं स्पर्शनं तु यः ।
कुर्य्यात्तस्य प्रणष्टं स्यात्सर्वपापं द्विजोत्तम

4.22.5

कोमलैस्तुलसीपत्रैरर्चयंति हरिं तु ये ।
कालस्य सदनं विप्र ते न यांति महाशयाः

4.22.6

गंगाद्याः सरितः श्रेष्ठा विष्णु ब्रह्म महेश्वराः ।
देवैस्तीर्थैः पुष्कराद्यैस्तिष्ठंति तुलसीदले

4.22.7

यो युक्तस्तुलसीपत्रैः पापी प्राणान्विमुञ्चति ।
विष्णोर्निकेतनं याति सत्यमेतन्मयोदितम्

4.22.8

तुलसीमृत्तिकालिप्तो युक्तः पापशतैरपि ।
विमुंचति नरः प्राणान्स याति हरिमन्दिरम्

4.22.9

यो नरो धारयेद्विप्र तुलसीकाष्ठचंदनम् ।
तस्याङ्गं न स्पृशेत्पापं स याति परमं पदम्

4.22.10

तुलसीकाष्ठमालां तु कण्ठस्थां वहते तु यः ।
अप्यशौचोप्यनाचारो भक्त्या याति हरेर्गृहम्

4.22.11

धात्रीफलकृतामाला तुलसीकाष्ठसंभवा ।
दृश्यते यस्य देहे तु स वै भागवतो नरः

4.22.12

तुलसीदलजां मालां कण्ठस्थां वहते तु यः ।
विष्णूच्छिष्टां विशेषेण स नमस्यो दिवौकसाम्

4.22.13

यः पुनस्तुलसीमालां कण्ठे कृत्वा जनार्दनम् ।
पूजयेत्पुण्यमाप्नोति प्रतिपुष्पं गवायुतम्

4.22.14

धारयन्ति न ये मालां हैतुकाः पापबुद्धयः ।
नरकान्न निवर्तंते दग्धाः कोपाग्निना हरेः

4.22.15

न जह्यात्तुलसीमालां धात्रीमालां विशेषतः ।
महापातकसंहर्त्रीं धर्मकामार्थदायिनीम्

4.22.16

स्पृशेच्च यानि लोमानि धात्रीमाला कलौ नृणाम् ।
तावद्वर्षसहस्राणि वसते केशवालये

4.22.17

निवेद्य केशवे मालां तुलसीकाष्ठसंभवाम् ।
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम्

4.22.18

तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ।
दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम्

4.22.19

तुलस्या विपिने धात्र्याश्छायासु यो नरोत्तमः ।
पिण्डं ददाति पितरो मुक्तिं यान्ति द्विजोत्तम

4.22.20

पाणौ मूर्ध्नि गले चैव कर्णयोश्च मुखे द्विज ।
धात्रीफलं यस्तु धत्ते स विज्ञेयो हरिः स्वयम्

4.22.21

धात्रीपत्रैः फलैर्विप्र श्रीहरिं चार्चयेद्द्विज ।
कोटिजन्मार्जितं पापं पूजया नश्यति सकृत्

4.22.22

यज्ञादेवाश्च मुनयस्तीर्थानि कार्तिके द्विज ।
धात्रीवृक्षं समाश्रित्य तिष्ठन्ति कार्तिके सदा

4.22.23

धात्रीपत्रं कार्तिके च द्वादश्यां तुलसीदलम् ।
चिनोति यो नरो गच्छेन्निरयं यातनामयम्

4.22.24

धात्रीछायासु यो विप्र चान्नं भुनक्ति कार्तिके ।
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति

4.22.25

तुलसीवनमध्ये च धात्रीमूले च कार्तिके ।
कुर्याद्धर्यर्चनं विप्र वैकुण्ठं याति स ध्रुवम्

4.22.26

तुलसीमूलदेशेऽपि स्थितं वारि द्विजोत्तम ।
गृह्णाति मस्तके भक्त्या पापी याति हरेर्गृहम्

4.22.27

तुलसीपत्रगलितं यस्तोयं शिरसावहेत् ।
सर्वतीर्थेषु स स्नातश्चांते याति हरेर्गृहम्

4.22.28

पुरा कश्चिद्द्विजश्रेष्ठो द्वापरेऽभून्महामुने ।
स्नात्वैकदा तुलस्यै स वनं दत्वा गृहं गतः

4.22.29

आदित्यो वर्चसा नाम्ना मार्त्तंड इव पुण्यतः ।
तृषार्तो भक्षकः कश्चिदागतो बहुकल्मषः

4.22.30

तुलस्यामूलतस्तोयं पीत्वा चासौ हतांहसः ।
त्वरयाप्यागतो व्याधो नाम्ना यश्चासिमर्द्दनः

4.22.31

उवाच भुक्तं चान्नं च भुक्त्वा भग्नं गतः किमु ।
कृत्वा मे पाकभांडस्थं चागतो हिंसकस्य ते

4.22.32

विव्याध तं गतप्राणं नेतुं वै शमनाज्ञया ।
आगताः किंकराः क्रुद्धाः पाशमुद्गरपाणयः

4.22.33

बद्ध्वा नेतुं मनश्चक्रुरागता विष्णुकिंकराः ।
तदा छित्त्वा चर्मपाशं स्यंदने तं मनोहरे

4.22.34

तूर्णमारोहयामासुः पप्रच्छुर्विनयान्विताः ।
तेऽपि पुण्येन भोः संतः केन वै नीयतेऽप्यसौ

4.22.35

ऊचुस्तेऽसौ पुरा राजा पुण्यं बहुतरं कृतम् ।
अकरोद्धरणं कांचित्सुंदरीं चांगनामयम्

4.22.36

अनेन चांहसा राजा गतो वै शमनक्षयम् ।
तत्रक्लेशं तु युष्माभिर्दत्तं वै शमनाज्ञया

4.22.37

ताम्रमय्यास्त्रियासार्द्धं क्रीडां सुप्त्वा चकार सः ।
तप्तायां लोहशय्यायां वैक्लव्यं कर्मणा नृप

4.22.38

तप्तायोभीषणं तप्तं लोहस्तंभं यमाज्ञया ।
ततः स्थितः समालिंग्य भुक्त्वा दुःखं चिरं नृपः

4.22.39

सिक्तः क्षारांबुधाराभिरन्यैर्वै शमनालये ।
ततो नरकशेषे च पापयोनौ मुहुर्मुहुः

4.22.40

जन्मासाद्य चिरं दुःखमनुभूतं स्वकर्मणा ।
तुलसीमूलकं वारि पीत्वा याति हरेर्गृहम्

4.22.41

इदानीं तद्वचः श्रुत्वा गतादूता यथागताः ।
तेन सार्द्धं विष्णुदूता गता वैकुंठमंदिरम्

4.22.42

माहात्म्यं कथितं ब्रह्मन्तुलस्याः पापनाशनम् ।
कुर्वंति सेवां ये भक्त्या न जाने किं भवेन्मुने

4.22.22

इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे तुलस्या माहात्म्यंनाम द्वाविंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc