भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 4.1

4.1.1

अथ श्रीपाद्मे महापुराणे चुतर्थं ब्रह्मखण्डं प्रारभ्यते
श्रीवेदव्यासाय नमः
शौनक उवाच-
कलौ समागते सूत प्राणिनां केन कर्मणा ।
उद्धारो वै भवेत्तस्मात्कथयस्व ममाग्रतः

4.1.2

सूत उवाच-
साधुसाधु मुनिश्रेष्ठ पुण्यात्मनां वरो भवान् ।
सर्वेषां च जनानां च शुभवाञ्छो निरंतरम्

4.1.3

एतद्व्यासः पुरा विप्रः सर्वज्ञः सर्वपूजितः ।
पृष्टो जैमिनिना तं स यदाह शृणु वैष्णव

4.1.4

दंडवत्प्रणिपत्यासौ व्यासं सर्वार्थपारगम् ।
गुरुं सत्यवतीसूनुं पप्रच्छ मुनिपुंगवः

4.1.5

जैमिनिरुवाच-
कलौ नृणां भवेत्केन मोक्षो वै कथयस्व मे ।
अल्पेनापि च पुण्येन मर्त्याश्चाल्पायुषो यतः

4.1.6

व्यास उवाच-
साधुसंगाद्भवेद्विप्र शास्त्राणां श्रवणं प्रभो ।
हरिभक्तिर्भवेत्तस्मात्ततो ज्ञानं ततो गतिः

4.1.7

न रोचते कथा भूमौ पापिष्ठाय जनाय वै ।
वैष्णवी स तु विज्ञेयः पापिष्ठप्रवरो द्विजः

4.1.8

श्रीकृष्णस्य कथां श्रुत्वाऽऽनंदी भवति वैष्णवः ।
असत्यां तां तु यो ब्रूयाज्ज्ञेयः स पापिनां गुरुः

4.1.9

यस्मिन्यस्मिन्स्थले विप्र कृष्णस्य वर्तते कथा ।
तस्मात्तस्माज्जगन्नाथो याति त्यक्त्वा न कर्हिचित्

4.1.10

कृष्णस्य यः कथारंभे कुर्याद्विघ्नं नराधमः ।
नरकान्निष्कृतिर्नास्ति मन्वंतरशतावधि

4.1.11

ये पुराणकथां श्रुत्वा निंदंत्युपहसंति वै ।
तेषां करस्था नरका बहुक्लेशकराः सदा

4.1.12

जन्मांतरार्जितं पापं तत्क्षणादेव नश्यति ।
श्रीकृष्णचरितं यो वै श्रोतुमिच्छां करोत्यपि

4.1.13

भक्त्या यो वै नरः कुर्यात्श्रीकृष्णचरितं तथा ।
न जाने श्रवणे तस्य का गतिर्वा भविष्यति

4.1.14

ब्रह्महत्यादिकं पापं अकालमरणं तथा ।
सुरापानं तथास्तेयं सर्वं नश्यति पापिनः

4.1.15

पापं कृत्वा तु यो मर्त्यः पश्चात्पापं निवर्तयेत् ।
तस्य पापं व्रजेन्नाशमग्निना तूलराशिवत्

4.1.16

श्रीकृष्णचरितं विप्र तिष्ठेद्वै पुस्तकं गृहे ।
तस्य गृहसमीपं हि नायांति यमकिंकराः

4.1.17

जैमिनिरुवाच-
वदंति वैष्णवान्कांश्च वांच्छा ब्रूहि गुरो मम ।
इदानीं तान्समाज्ञातुं तेषां माहात्म्यमुत्तमम्

4.1.18

व्यास उवाच-
यो नरो मस्तके भक्त्या वैष्णवांघ्रिजलं द्विज ।
करोति सेचनं पापी तीर्थस्नानेन तस्य किम्

4.1.19

साधुसंगं तु यः कुर्य्यात्क्षणं वार्द्धक्षणं द्विज ।
तस्य नश्यंति पापानि ब्रह्महत्यामुखानि च

4.1.20

यत्रयत्र कुले चैव एको भवति वैष्णवः ।
कुलं तस्य यदा पापैर्युक्तं तन्मोक्षगामि वै

4.1.21

हिंसादंभकामक्रोधैर्वर्जिताश्चैव ये नराः ।
लोभमोहपरित्यक्ता ज्ञेयास्ते वैष्णवा द्विज

4.1.22

पितृभक्ता दयायुक्ताः सर्वप्राणिहिते रताः ।
अमत्सरा वैष्णवा ये विज्ञेयाः सत्यभाषिणः

4.1.23

विप्रभक्तिरता ये च परस्त्रीषु नपुंसकाः ।
एकादशीव्रतरता विज्ञेयास्ते च वैष्णवाः

4.1.24

गायंति हरिनामानि तुलसीमाल्यधारकाः ।
हर्यंघ्रिसलिलैः सिक्ता विज्ञेयास्ते च वैष्णवाः

4.1.25

श्रोत्रयोर्मस्तके येषां तुलस्याः पर्णमुत्तमम् ।
कर्हिचिद्दृश्यते विप्र विज्ञेयास्ते च वैष्णवाः

4.1.26

पाखंडसंगरहिता विप्रद्वेषविवर्जिताः ।
सिंचेयुस्तुलसीं ये च ज्ञातव्या वैष्णवा नराः

4.1.27

पूजयंति हरिं ये च तुलस्या चार्चयंति ये ।
कन्यादानरता ये च ये वै ह्यतिथिपूजकाः

4.1.28

शृण्वंति विष्णुचरितं विज्ञेया वैष्णवा नराः ।
यस्य गृहे सुप्रतिष्ठेत्शालग्रामशिलापि च

4.1.29

मार्जयंति हरेः स्थानं पितृयज्ञप्रवर्तकाः ।
जने दीने दयायुक्ता विज्ञेयास्ते च वैष्णवाः

4.1.30

परस्वं ब्राह्मणद्रव्यं पश्यंति विषवच्च ये ।
हरिनैवेद्यं येऽश्नन्ति विज्ञेया वैष्णवा जनाः

4.1.31

वेदशास्त्रानुरक्ता ये तुलसीवनपालकाः ।
राधाष्टमीव्रतरता विज्ञेयास्ते च वैष्णवाः

4.1.32

श्रीकृष्णपुरतो ये च दीपं यच्छंति श्रद्धया ।
परनिंदां न कुर्वंति विज्ञेयास्ते च वैष्णवाः

4.1.33

सूत उवाच-
पृष्टो जैमिनिना व्यास इत्युक्तः स यथाक्रमम् ।
मयेदं कथ्यते ब्रह्मन्यत्प्रसंगाद्गुरोः श्रुतम्

4.1.34

अध्यायं श्रद्धया युक्तं ये शृण्वंति नरोत्तमाः ।
सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम्

4.1.1

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे व्यासजैमिनिसंवादे प्रथमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc