भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 4.2

4.2.1

सूत उवाच-
शृणु शौनक वक्ष्यामि चान्यधर्म्मं पुरातनम् ।
व्यासजैमिनिसंवादं श्रोतॄणां पापनाशनम्

4.2.2

जैमिनिरुवाच-
कर्म्मणा हि गुरो केन मंदिरं जगतीपतेः ।
याति तत्कथयस्वाद्य नरः पापी च मे प्रभो

4.2.3

व्यास उवाच-
श्रीकृष्णमंदिरे यो वै लेपनं कुरुते नरः ।
सर्वपापविनिर्मुक्तः श्रांतो याति हरेर्गृहम्

4.2.4

यश्चांबुलेपनं कुर्यात्संक्षेपाच्छृणु जैमिने ।
तस्यपुण्यमहं वच्मि मंदिरे जगतीपतेः

4.2.5

तत्र यावंति पश्यंति रजांसि च द्विजोत्तम ।
तावत्कल्पसहस्राणि स वसेद्विष्णुमंदिरे

4.2.6

पुरासीद्दंडको नाम्ना चौरो लोकभयप्रदः ।
ब्रह्मस्वहारी मित्रघ्नो युगे द्वापरसंज्ञके

4.2.7

असत्यभाषी क्रूरश्च परस्त्रीगमने रतः ।
गोमांसाशी सुरापश्च पाखंडजनसंगभाक्

4.2.8

वृत्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा ।
शरणागतहंता च वेश्याविभ्रमलोलुपः

4.2.9

एकदा स द्विजश्रेष्ठ कस्यचिद्विष्णुमंदिरम् ।
जगाम हरणार्थाय विष्णोर्द्रव्यं स मूढधीः

4.2.10

अथ द्वारि प्रविश्यासावंघ्रिः कर्द्दमसंयुतः ।
प्रोच्छितः सकलं निम्ने भूमौ देवगृहस्य च

4.2.11

तेनैव कर्म्मणा भूमिर्निम्नरिक्ता बभूव ह ।
लोहस्य च शलाकाभ्यां मुद्घाट्यत्वररंमुदा

4.2.12

प्रविवेश हरेर्गेहं वितानवरशोभितम् ।
रत्नकांचनदीपाढ्यं परिध्वस्त महत्तमम्

4.2.13

नानापुष्पसुगंधाढ्यं नानापात्रसमाकुलम् ।
सुवासितस्य तैलस्य गंधेन परिपूरितम्

4.2.14

अनेनहारकेणाथ पर्य्यंके सुमनोहरे ।
शायितो राधया सार्द्धं दृष्टः पीतांबरोऽच्युतः

4.2.15

प्रणम्य राधिकानाथं निष्पापः सोऽभवत्तदा ।
नेष्याम्यथ न नेष्यामि अनेन किं भवेन्मम

4.2.16

सेवां कर्त्तुमशक्तोऽहं यतश्चौरोऽस्मि सर्वदा ।
द्रव्येण कार्यमस्तीति तन्नेतुं कृतवान्मनः

4.2.17

पातयित्वांशुकं भूमौ कौशेयं कमलापतेः ।
बबंध वस्तुजातं च पाणौ कृत्वा सकंपितः

4.2.18

विष्णोर्मायापतेश्चाथ तानि सर्वाणि जैमिने ।
कृत्वा शब्दं सुघोरं च पतितान्यथ तानि वै

4.2.19

परित्यज्य सुनिद्रां च धावंत इति किन्वहो ।
आगता बहुशो लोकाश्चोरो द्रव्यं जवेन च

4.2.20

त्यक्त्वा धनं च चौरोऽपि त्रस्तः किंचिज्जगाम ह ।
दंशितः कालसर्पेण मृतोऽसौ गतकिल्बिषः

4.2.21

यमाज्ञया तस्य दूताः पाशमुद्गरपाणयः ।
आगतास्तं समानेतुं दंष्ट्रिणश्चर्मवाससः

4.2.22

बबंधुश्चर्मपाशेन निन्युर्दुर्गमवर्त्मना ।
दृष्ट्वा तं शमनः क्रुद्धः पप्रच्छ सचिवं प्रति

4.2.23

यम उवाच-
अनेन किं कृतं कर्म पापं वा पुण्यमेव वा ।
समूलं वद हे प्राज्ञ चित्रगुप्त ममाग्रतः

4.2.24

चित्रगुप्त उवाच-
सृष्टानि यानि पापानि विधात्रा पृथिवीतले ।
कृतान्यनेन मूढेन सत्यमेतन्मयोदितम्

4.2.25

किंत्वाकर्णय लोकेश सुकृतं चास्य वर्त्तते ।
मन्येऽहं यमुनाभ्रातः सर्वपापविलोपि तत्

4.2.26

धर्मराज उवाच-
किं पुण्यं वर्त्ततेऽमात्य वद सारं ममांतिके ।
श्रुत्वैवं तद्विधास्यामि यत्र योग्यो भवेदसौ

4.2.27

यमस्य वचनं श्रुत्वा सभयश्चित्रगुप्तकः ।
कृत्वा हस्तांजलिं प्राह चात्मनः स्वामिने द्विज

4.2.28

चित्रगुप्त उवाच-
हरणार्थं हरेर्द्रव्यं गतोऽसौ पापिनां वरः ।
प्रोज्झितः कर्द्दमो राजन्पादयोर्द्वारतो हरेः

4.2.29

बभूव लिप्ता सा भूमिर्बिलच्छिद्र विवर्जिता ।
तेन पुण्यप्रभावेण निर्गतं पातकं महत् ।
वैकुंठं प्रतियोग्योऽसौ निर्गतस्तव दंडतः

4.2.30

व्यास उवाच-
श्रुत्वा स वचनं तस्य पीठं कनकनिर्मितम् ।
ददौ तस्मै चोपविष्टस्तत्र पूज्योयमेनसः

4.2.31

ननाम शिरसा तं वै प्रोवाच विनयान्वितः ।
यम उवाच-
पवित्रं मंदिरं मेऽद्य पादयोस्तद्धि रेणुभिः

4.2.32

कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।
इदानीं गच्छ भो साधो हरेर्मंदिरमुत्तमम्

4.2.33

नानाभोगसमायुक्तं जन्ममृत्युनिवारणम् ।
व्यास उवाच-
इत्युक्त्वा धर्मराजोऽसौ स्यंदने स्वर्णनिर्मिते

4.2.34

राजहंसयुते दिव्ये तमारोप्य गतैनसम् ।
समस्तसुखदं स्थानं प्रेषयामास चक्रिणः

4.2.35

एवं प्रविष्टो वैकुंठे तत्र तस्थौ सुखं चिरम् ।
लेपनं ये प्रकुर्वंति भक्त्या तु हरिमंदिरम्

4.2.36

तेषां किं वा भविष्यति न जानेऽहं द्विजोत्तम ।
य इदं शृणुयाद्भक्त्या पठेद्यो वा समाहितः

4.2.37

कोटिजन्मार्जितं पापं नश्यत्येव न संशयः

4.2.2

इति श्रीपाद्मेमहापुराणे ब्रह्मखंडे हरिमंदिरलेपनमाहात्म्यं।
नाम द्वितीयोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc