भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.8

3.8.1

ऋषय ऊचुः-।
जंबूखंडस्त्वया प्रोक्तो यथावदिह सत्तमः ।
विष्कंभस्य च प्रब्रूहि परिमाणं हि तत्त्वतः

3.8.2

समुद्रस्य प्रमाणं च सम्यगच्छिद्र दर्शनः ।
शाकद्वीपं च नो ब्रूहि कुशद्वीपं च धार्मिकम्

3.8.3

शाल्मलं चैव तत्त्वेन क्रौंचद्वीपं तथैव च ।
सूत उवाच-।
विप्राः सुबहवो द्वीपाः यैरिदं संततं जगत् ।
सप्तद्वीपान्प्रवक्ष्यामि शृणुध्वं द्विजपुंगवाः

3.8.4

अष्टादशसहस्राणि योजनानि द्विजोत्तमाः ।
षट्शतानि च पूर्णानि विष्कंभो जंबुपर्वतः

3.8.5

लवणस्य समुद्रस्य विष्कंभो द्विगुणः स्मृतः ।
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः

3.8.6

नैकधातुविचित्रैश्च पर्वतैरुपशोभितः ।
सिद्धचारणसंकीर्णैः सागरः परिमंडलः

3.8.7

शाकद्वीपं च वक्ष्यामि यथावदिह सत्तमाः ।
शृणुताद्य यथान्यायं ब्रुवतो मम धार्मिकाः

3.8.8

जंबुद्वीपप्रमाणेन द्विगुणः स द्विजर्षभाः ।
विष्कंभेन महाभागाः सागरोऽपि विभागशः

3.8.9

क्षीरोदो मुनिशार्दूला येन संपरिवारितः ।
तत्र पुण्याजनपदास्तत्र न म्रियते जनः

3.8.10

कुत एव हि दुर्भिक्षं क्षमा तेजोयुता हि ते ।
शाकद्वीपस्य संक्षेपो यथावन्मुनिसत्तमाः ।
उक्त एष महाभागाः किमन्यत्कथयामि वः

3.8.11

ऋषय ऊचुः-।
शाकद्वीपस्य संक्षेपो यथावदिह धार्मिक ।
उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः

3.8.12

सूत उवाच-।
तथैव पर्वता विप्राः सप्तात्र मणिपर्वताः ।
रत्नाकरास्तथा नद्यस्तेषां नामानि वर्णये

3.8.13

अतीवगुणवत्सर्वं तत्त्वं पृच्छथ धार्मिकाः ।
देवर्षिगंधर्वयुतः प्रथमो मेरुरुच्यते

3.8.14

प्रागायतो महाभागा मलयोनाम पर्वतः ।
ततो मेघाः प्रवर्त्तंते प्रभवंति च सर्वशः

3.8.15

ततः परेण मुनयो जलधारो महागिरिः ।
ततो नित्यमुपादत्ते वासवः परमं जलम्

3.8.16

ततो वर्षं प्रभवति वर्षाकाले द्विजोत्तमाः ।
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितम्

3.8.17

रेवती दिवि नक्षत्रं पितामहकृतो विधिः ।
उत्तरेण तु विप्रेंद्राः श्यामो नाम महागिरिः

3.8.18

नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः ।
यतः श्यामत्वमापन्नाः प्रजा मुदितमानसाः

3.8.19

ऋषय ऊचुः-।
सुमहान्संशयोऽस्माकं प्राप्तोयं सूत यत्त्वया ।
प्रजाः कथं सूत सम्यक्संप्राप्ताः श्यामतामिह

3.8.20

सूत उवाच-।
सर्वेष्वेव महाप्राज्ञा द्वीपेषु मुनिपुंगवाः ।
गौरः कृष्णश्च पतगस्तयोर्वर्णांतरे द्विजाः

3.8.21

श्यामो यस्मात्प्रवृत्तो वै तस्मात्श्यामगिरिः स्मृतः ।
ततः परं मुनिश्रेष्ठा दुर्गशैलो महोदयः

3.8.22

केशरी केशरयुतो यतो वातः प्रवर्त्तते ।
तेषां योजनविष्कंभो द्विगुणः प्रविभागशः

3.8.23

वर्षाणि तेषु विप्रेंद्राः संप्रोक्तानि मनीषिभिः ।
महामेरुर्महाकाशो जलदः कुमुदोत्तरम्

3.8.24

जलधारो महाप्राज्ञः सुकुमार इति स्मृतः ।
रेवतस्य तु कौमारः श्यामश्च मणिकांचनः

3.8.25

केशरस्याथ मौदाकी परेण तु महान्पुमान् ।
परिवार्य्यं तु विप्रेंद्रा दैर्घ्यं ह्रस्वत्वमेव च

3.8.26

जंबूद्वीपेन संख्यातस्तस्य मध्ये महाद्रुमः ।
शाको नाम महाप्राज्ञाः प्रजास्तस्य सहानुगाः

3.8.27

तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ।
तत्र गच्छंति सिद्धाश्च चारणा दैवतानि च

3.8.28

धार्मिकाश्च प्रजाः सर्वाः चत्वारो गतमत्सराः ।
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते

3.8.29

दीर्घायुषो महाप्राज्ञा जरामृत्युविवर्जिताः ।
प्रजास्तत्र विवर्द्धंते वर्षास्विव समुद्रगाः

3.8.30

नद्यः पुण्यजलास्तत्र गंगा च बहुधा गता ।
सुकुमारी कुमारी च शीता शीतोदका तथा

3.8.31

महानदी च भो विप्रास्तथा मणिजला नदी ।
इक्षुवर्द्धनिका चैव नदी मुनिवराः स्मृताः

3.8.32

ततः प्रवृत्ताः पुण्योदा नद्यः परमशोभनाः ।
सहस्राणां शतान्येव यतो वर्षति वासवः

3.8.33

न तासां नामधेयानि परिस्मर्तुं तथैव च ।
शक्यंते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः

3.8.34

ततः पुण्या जनपदाश्चत्वारो लोकविश्रुताः ।
मृगाश्च मशकाश्चैव मानसा मल्लकास्तथा

3.8.35

मृगाश्च ब्रह्मभूयिष्ठाः स्वकर्मनिरता द्विजाः ।
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः

3.8.36

मानसाश्च महाभागा वैश्यधर्मोपजीविनः ।
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः

3.8.37

शूद्रास्तु मल्लका नित्यं पुरुषा धर्मशीलिनः ।
न तत्र राजा विप्रेंद्रा न दंडो न च दंडिकाः

3.8.38

स्वधर्मेणैव धर्मज्ञास्ते रक्षंति परस्परम् ।
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्

3.8.39

एतदेव च श्रोतव्यं शाकद्वीपे महौजसि

3.8.8

इति श्रीपाद्मे महापुराणे स्वर्गखंडेऽष्टमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc