भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.7

3.7.1

ऋषय ऊचुः-।
भारतस्यास्य वर्षस्य तथा हैमवतस्य च ।
प्रमाणमायुषः सूत बलं चापि शुभाशुभम्

3.7.2

अनागतमतिक्रांतं वर्तमानं च सत्तम ।
आचक्ष्व नो विस्तरेण हरिवर्षं तथैव च

3.7.3

सूत उवाच-।
चत्वारि भारते वर्षे युगानि मुनिपुंगवाः ।
कृतं त्रेता द्वापरं च तिष्यं च द्विजसत्तमाः

3.7.4

पूर्वे कृतयुगं नाम ततस्त्रेतायुगं द्विजाः ।
तत्पश्चाद्द्वापरं चाथ ततस्तिष्यः प्रवर्तते

3.7.5

चत्वारि तु सहस्राणि वर्षाणां मुनिपुंगवाः ।
आयुः संख्या कृतयुगे संख्याता हि तपोधनाः

3.7.6

तथा त्रीणि सहस्राणि त्रेतायामायुषो विदुः ।
द्वे सहस्रे द्वापरे तु भुवि तिष्ठंति सांप्रतम्

3.7.7

तत्प्रमाणस्थितिर्ह्यस्ति तिष्ये तु मुनिपुंगवाः ।
गर्भस्थाश्च म्रियंतेऽत्र तथा जाता म्रियंति च

3.7.8

महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः ।
प्रजायंते च जाताश्च शतशोऽथ सहस्रशः

3.7.9

द्विजाः कृतयुगे विप्रा बलिनः प्रियदर्शनाः ।
प्रजायंते च जाताश्च मुनयो वै तपोधनाः

3.7.10

महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः ।
प्रियदर्शा वपुष्मंतो महावीर्य्या धनुर्धराः

3.7.11

वीरा हि युधि जायंते क्षत्रियाः शूरसंमताः ।
त्रेतायां क्षत्रियास्तावत्सर्वे वै चक्रवर्तिनः

3.7.12

सर्ववर्णाश्च जायंते सदैव द्वापरे युगे ।
महोत्साहा वीर्यवंतः परस्परवधैषिणः

3.7.13

तेजसांधेनसंयुक्ताः क्रोधनाः पुरुषाः किल ।
लुब्धाश्चानृतकाश्चैव तिष्ये जायंति भो द्विजाः

3.7.14

ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च ।
तिष्ये भवंति भूतानां रागो लोभश्च सत्तमाः

3.7.15

संक्षेपो वर्त्तते विप्रा द्वापरे युगमध्यगे ।
गुणोत्तरं हैमवतं हरिवर्षं ततः परम्

3.7.7

इति श्रीपाद्मे महापुराणे स्वर्गखंडे सप्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc