भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.50

3.50.1

ऋषय ऊचुः-
भवता कथितं सर्वं यत्किंचित्पृष्टमेव च ।
इदानीमपि पृच्छाम एकं वद महामते

3.50.2

एतेषां खलु तीर्थानां सेवनाद्यत्फलं लभेत् ।
सर्वेषां किल कृत्वैकं कर्म केन च लभ्यते

3.50.3

एतन्नो ब्रूहि सर्वज्ञ कर्मैवं यदि वर्तते ।
सूत उवाच-
कर्मयोगः किल प्रोक्तो वर्णानां द्विजपूर्वशः

3.50.4

नानाविधो महाभागास्तत्र चैकं विशिष्यते ।
हरिभक्तिः कृता येन मनसा वचसा गिरा

3.50.5

जितं तेन जितं तेन जितमेव न संशयः ।
हरिरेव समाराध्यः सर्वदेवेश्वरेश्वरः

3.50.6

हरिनाममहामंत्रैर्नश्येत्पापपिशाचकम् ।
हरेः प्रदक्षिणं कृत्वा सकृदप्यमलाशयाः

3.50.7

सर्वतीर्थसमाप्लावं लभंते यन्न संशयः ।
प्रतिमां च हरेर्दृष्ट्वा सर्वतीर्थफलं लभेत्

3.50.8

विष्णुनामपरं जप्त्वा सर्वमंत्रफलं लभेत् ।
विष्णुप्रसादतुलसीमाघ्राय द्विजसत्तमाः

3.50.9

प्रचंडं विकरालं तद्यमस्यास्यं न पश्यति ।
सकृत्प्रणामी कृष्णस्य मातुः स्तन्यं पिबेन्नहि

3.50.10

हरिपादे मनो येषां तेभ्यो नित्यं नमोनमः ।
पुल्कसः श्वपचो वापि ये चान्ये म्लेच्छजातयः

3.50.11

तेऽपि वंद्या महाभागा हरिपादैकसेवकाः ।
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा

3.50.12

हरौ भक्तिं विधायैव गर्भवासं न पश्यति ।
हरेरग्रे स्वनैरुच्चैर्नृत्यंस्तन्नामकृन्नरः

3.50.13

पुनाति भुवनं विप्रा गंगादि सलिलं यथा ।
दर्शनात्स्पर्शनात्तस्य आलापादपि भक्तितः

3.50.14

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।
हरेः प्रदक्षिणं कुर्वन्नुच्चैस्तन्नामकृन्नरः

3.50.15

करतालादिसंधानं सुस्वरं कलशब्दितम् ।
ब्रह्महत्यादिकं पापं तेनैव करतालितम्

3.50.16

हरिभक्तिकथामुक्त्वा ख्यायिकां शृणुयाच्च यः ।
तस्य संदर्शनादेव पूतो भवति मानवः

3.50.17

किं पुनस्तस्य पापानामाशंका मुनिपुंगवाः ।
तीर्थानां च परं तीर्थं कृष्णनाम महर्षयः

3.50.18

तीर्थीकुर्वंति जगतीं गृहीतं कृष्णनाम यैः ।
तस्मान्मुनिवराः पुण्यं नातः परतरं विदुः

3.50.19

विष्णुप्रसादनिर्माल्यं भुक्त्वा धृत्वा च मस्तके ।
विष्णुरेव भवेन्मर्त्यो यमशोकविनाशनः

3.50.20

अर्चनीयो नमस्कार्यो हरिरेव न संशयः ।
ये महाविष्णुमव्यक्तं देवं वापि महेश्वरम्

3.50.21

एकीभावेन पश्यंति न तेषां पुनरुद्भवः ।
तस्मादनादिनिधनं विष्णुमात्मानमव्ययम्

3.50.22

हरिं चैकं प्रपश्यध्वं पूजयध्वं तथैव हि ।
ये समानं प्रपश्यंति हरिं वै देवतांतरम्

3.50.23

ते यांति नरकान्घोरांन्न तांस्तु गणयेद्धीरः ।
मूर्खं वा पंडितं वापि ब्राह्मणं केशवप्रियम्

3.50.24

श्वपाकं वा मोचयति नारायणः स्वयं प्रभुः ।
नारायणात्परो नास्ति पापराशि दवानलः

3.50.25

कृत्वापि पातकं घोरं कृष्णनाम्ना विमुच्यते ।
स्वयं नारायणो देवः स्वनाम्नि जगतां गुरुः

3.50.26

आत्मनोऽभ्यधिकां शक्तिं स्थापयामास सुव्रताः ।
अत्र ये विवदंते वै आयासलघुदर्शनात्

3.50.27

फलानां गौरवाच्चापि ते यांति नरकं बहु ।
तस्माद्धरौ भक्तिमान्स्याद्धरिनामपरायणः

3.50.28

पूजकं पृष्ठतो रक्षेन्नामिनं वक्षसि प्रभुः ।
हरिनाममहावज्रं पापपर्वतदारणे

3.50.29

तस्य पादौ तु सफलौ तदर्थं गतिशालिनौ ।
तावेव धन्यावाख्यातौ यौ तु पूजाकरौ करौ

3.50.30

उत्तमांगमुत्तमांगं तद्धरौ नम्रमेव यत् ।
सा जिह्वा या हरिं स्तौति तन्मनस्तत्पदानुगम्

3.50.31

तानि लोमानि चोच्यंते यानि तन्नाम्नि चोत्थितम् ।
कुर्वंति तच्च नेत्रांबु यदच्युतप्रसंगतः

3.50.32

अहो लोका अतितरां दैवदोषेण वंचिताः ।
नामोच्चारणमात्रेण मुक्तिदं न भजंति वै

3.50.33

वंचितास्ते च कलुषाः स्त्रीणां संगप्रसंगतः ।
प्रतिष्ठंति च लोमानि येषां नो कृष्णशब्दने

3.50.34

ते मूर्खा ह्यकृतात्मानः पुत्रशोकादि विह्वलाः ।
रुदंति बहुलालापैर्न कृष्णाक्षरकीर्तने

3.50.35

जिह्वां लब्ध्वापि लोकेऽस्मिन्कृष्णनामजपेन्नहि ।
लब्ध्वापि मुक्तिसोपानं हेलयैव च्यवंति ते

3.50.36

तस्माद्यत्नेन वै विष्णुं कर्मयोगेन मानवः ।
कर्मयोगार्च्चितो विष्णुः प्रसीदत्येव नान्यथा

3.50.37

तीर्थादप्यधिकं तीर्थं विष्णोर्भजनमुच्यते ।
सर्वेषां खलु तीर्थानां स्नानपानावगाहनैः

3.50.38

यत्फलं लभते मर्त्यस्तत्फलं कृष्णसेवनात् ।
यजंते कर्मयोगेन धन्या एव नरा हरिम्

3.50.39

तस्माद्भजध्वं मुनयः कृष्णं परममंगलम्

3.50.50

इति श्रीपाद्मे महापुराणे स्वर्गखंडे विष्णुभक्तिप्रशंसनं नाम पंचाशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc