भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.4

3.4.1

ऋषय ऊचुः-।
मेरोरथोत्तरं पश्चात्पूर्वमाचक्ष्व सूततः ।
निखिलेन महाबुद्ध माल्यवंतं च पर्वतम्

3.4.2

सूत उवाच-।
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ।
उत्तराः कुरवो विप्राः पुण्याः सिद्धनिषेविताः

3.4.3

तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ।
पुष्पाणि च सुगंधीनि रसवंति फलानि च

3.4.4

सर्वकामफलास्तत्र केचिद्वृत्या द्विजोत्तमाः ।
अपरे क्षीरिणो नाम वृक्षास्तत्र द्विजोत्तमाः

3.4.5

प्रक्षरंति सदा क्षीरं तत्र सर्वेऽमृतोपमम् ।
वस्त्राणि च प्रसूयंते फलेष्वाभरणानि च

3.4.6

सर्वा मणिमयी भूमिः सूक्ष्मकांचनवालुका ।
सर्वर्तुसुखसंस्पर्शा निष्फलाश्च तपोधनाः

3.4.7

देवलोकच्युताः सर्वे जायंते तत्र मानवाः ।
शुक्लाभिजनसंपन्नाः सर्वसुप्रियदर्शनाः

3.4.8

मिथुनानि च जायंते स्त्रियश्चाप्सरसोपमाः ।
तेषां ते क्षीरिणां क्षीरं पिबंत्यमृतसंनिभम्

3.4.9

मिथुनं जायते काले समंताच्च प्रवर्द्धते ।
तुल्यरूपगुणोपेतं समवेशं तथैव च

3.4.10

एकमेवानुरूपं च चक्रवाकसमं द्विजाः ।
निरामयाश्च ते लोका नित्यं मुदितमानसाः

3.4.11

दशवर्षसहस्राणि दशवर्षशतानि च ।
जीवंति ते महाभागा न चान्योन्यं जहत्युत

3.4.12

भारुंडा नाम शकुनास्तीक्ष्णतुंडा महाबलाः ।
तान्निर्हरंतीहमृतान्दरीषु प्रक्षिपंति च

3.4.13

उत्तराःकुरवो विप्रा व्याख्यातास्ते समासतः ।
मेरुपार्श्वमहं पूर्वं प्रवक्ष्यामि यथातथम्

3.4.14

तस्य मूर्द्धाभिषेकस्तु भद्राश्वस्य तपोधनाः ।
भद्रशालवनं यत्र कालाम्राश्च महाद्रुमाः

3.4.15

कालाम्रास्तु महाभागा नित्यंपुष्पफलाः शुभाः ।
द्रुमाश्च योजनोत्सेधाः सिद्धचारणसेविताः

3.4.16

तत्र ते पुरुषाः श्वेतास्तेजोयुक्तमहाबलाः ।
स्त्रियः कुमुदवर्णाश्च सुंदर्यः प्रियदर्शनाः

3.4.17

चंद्रवर्णाश्चतुर्वर्णाः पूर्णचंद्रनिभाननाः ।
चंद्रशीतलगात्राश्च नृत्यगीतविशारदाः

3.4.18

दशवर्षसहस्राणि तत्रायुर्द्विजसत्तमाः ।
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः

3.4.19

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
सुदर्शनो नाम महान्जंबूवृक्षः सनातनः

3.4.20

सर्वकामफलः पुण्यः सिद्धचारणसेवितः ।
तस्य नाम्ना समाख्यातो जंबूद्वीपः सनातनः

3.4.21

योजनानां सहस्रं च शतं च द्विजसत्तमाः ।
तथा माल्यवतः शृंगे पूर्वे पूर्वानुगांतकाः

3.4.22

योजनानां सहस्राणि पंचाशन्माल्यवान्द्विजाः ।
महारजतसंकाशा जायंते तत्र मानवाः

3.4.23

ब्रह्मलोकच्युताः सर्वे सर्वे च ब्रह्मवादिनः ।
तपस्तप्यंति ते दिव्यं भवंति ह्यूर्ध्वरेतसः

3.4.24

रक्षणार्थं तु भूतानां प्रविशंति दिवाकरम् ।
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च

3.4.25

अरुणस्याग्रतो यांति परिवार्य दिवाकरम् ।
षष्टिवर्षसहस्राणि षष्टिरेव शतानि च

3.4.26

आदित्यतापतप्तास्ते विशंति शशिमंडलम्

3.4.4

इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुर्थोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc