भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.5

3.5.1

ऋषय ऊचुः-।
वर्षाणां चैव नामानि पर्वतानां च सत्तम ।
आचक्ष्व नो यथातत्वं ये च पर्वतवासिनः

3.5.2

सूत उवाच-।
दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु ।
वर्षं रमणकं नाम जायंते तत्र मानवाः

3.5.3

शुक्लाभिजनसंपन्नाः सर्वे ते प्रियदर्शनाः ।
निःसपत्नाश्च ते सर्वे जायंते तत्र मानवाः

3.5.4

दशवर्षसहस्राणि शतानि दशपंच च ।
जीवंति ते महाभागा नित्यं मुदितमानसाः

3.5.5

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी

3.5.6

यत्र चायं महाप्राज्ञाः पक्षिराट्पतगोत्तमः ।
यज्ञानुगा विप्रवरा धन्विनः प्रियदर्शनाः

3.5.7

महाबलास्तत्र जना विप्रा मुदितमानसाः ।
एकादशसहस्राणि वर्षाणां ते तपोधनाः

3.5.8

आयुःप्रमाणं जीवंति शतानि दश पंच च ।
शृंगाणि च पवित्राणि त्रीण्येव द्विजपुंगवाः

3.5.9

एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम् ।
सर्वरत्नमयं चैकं भवनैरुपशोभितम्

3.5.10

तत्र स्वयं प्रभादेवी नित्यं वसति शंडिनी ।
उत्तरेण तु शृंगस्य समुद्रांते द्विजोत्तमाः

3.5.11

वर्षमैरावतं नाम तस्माच्छृंगवतः परम् ।
न तु तत्र सूर्यगतिर्जीर्यंते न च मानवाः

3.5.12

चंद्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ।
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः

3.5.13

पद्मपत्रसुगंधाश्च जायंते तत्र मानवाः ।
अनिष्पन्ना नष्टगंधा निराहारा जितेंद्रियाः

3.5.14

देवलोकच्युताः सर्वे तथा विरजसो द्विजाः ।
त्रयोदशसहस्राणि वर्षाणां ते द्विजोत्तमाः

3.5.15

आयुःप्रमाणं जीवंति नरा धार्मिकपुंगवाः ।
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः

3.5.16

हरिस्तिष्ठति वैकुंठः शकटे कनकामये ।
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम्

3.5.17

अग्निवर्णं महातेजो जांबूनदविभूषितम् ।
स प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः

3.5.18

संक्षेपे विस्तरे चैव कर्ता कारयिता तथा ।
पृथिव्यापस्तथाकाशं वायुस्तेजश्च सत्तमाः

3.5.19

स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः

3.5.5

इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc