भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.34

3.34.1

नारद उवाच-
तत्रेदं विमलं लिगमोंकारंनाम शोभनम् ।
यस्य स्मरणमात्रेण मुच्यते सर्वपातकैः

3.34.2

एतत्परतरं ज्ञानं पंचायतनमुत्तमम् ।
सेवितं मुनिर्भिर्नित्यं वाराणस्यां विमोक्षणम्

3.34.3

तत्र साक्षान्महादेवः पंचायतनविग्रहः ।
रमते भगवान्रुद्रो जंतूनामपवर्गदः

3.34.4

एतत्पाशुपतं ज्ञानं पंचायतनमुच्यते ।
तदेतद्विमलं लिगमोंकारं समुपस्थितम्

3.34.5

शांत्यतीता तथा शांतिर्विद्या चैवापरा वरा ।
प्रतिष्ठा च निवृत्तिश्च पंचात्मं लिंगमैश्वरम्

3.34.6

पंचानामपि लिंगानां ब्रह्मादीनां समाश्रयम् ।
ॐकारबोधकं लिंगं पंचायतनमुच्यते

3.34.7

संस्मरेदीश्वरं लिंगं पंचायतनमव्ययम् ।
देहांते परमं ज्योतिरानंदं विशते बुधः

3.34.8

तत्र देवर्षयः पूर्वं सिद्धाब्रह्मर्षयस्तथा ।
उपास्य देवमीशानमापुरंतः परं पदम्

3.34.9

मत्स्योदर्यास्तटे पुण्ये स्थानं गुह्यतमं शुभम् ।
गोचर्ममात्रं राजेंद्र ॐकारेश्वरमुत्तमम्

3.34.10

कृत्तिवासेश्वरं लिंगं मध्यमेश्वरमुत्तमम् ।
विश्वेश्वरं तथोंकारंकंदर्पेश्वरमेव च

3.34.11

एतानि गुह्यलिंगानि वाराणस्यां युधिष्ठिर ।
न कश्चिदिह जानाति विना शंभोरनुग्रहात्

3.34.12

कृत्तिवासेश्वरस्यैव माहात्म्यं शृणु पार्थिव ।
तस्मिन्स्थाने पुरा दैत्यो हस्ती भूत्वा शिवांतिकम्

3.34.13

ब्राह्मणान्हंतुमायातो यत्र नित्यमुपासते ।
तेषां लिंगान्महादेवः प्रादुरासीत्त्रिलोचनः

3.34.14

रक्षणार्थं महादेवो भक्तानां भक्तवत्सलः ।
हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः

3.34.15

वासस्तस्याकरोत्कृत्तिं कृत्तिवासेश्वरस्ततः ।
तत्र सिद्धिं परां प्राप्ता मुनयो हि युधिष्ठिर

3.34.16

तेनैव च शरीरेण प्राप्तास्तत्परमं पदम् ।
विद्याविद्येश्वरा रुद्राः शिवा ये च प्रकीर्त्तिताः

3.34.17

कृत्तिवासेश्वरं लिंगं नित्यमाश्रित्य संस्थिताः ।
ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः

3.34.18

कृत्तिवासं न मुंचंति कृतार्थास्ते न संशयः ।
जन्मांतरसहस्रेण मोक्षो यत्राप्यते न वा

3.34.19

एकेन जन्मना मोक्षः कृत्तिवासेऽत्र लभ्यते ।
आलयं सर्वसिद्धानामेतत्स्थानं वदंति हि

3.34.20

गोपितं देवदेवेन महादेवेन शंभुना ।
युगेयुगे ह्यत्र दांता ब्राह्मणा वेदपारगाः

3.34.21

उपासंते महात्मानं जपंति शतरुद्रियम् ।
स्तुवंति सततं देवं त्र्यंबकं कृत्तिवाससम् ।
ध्यायंति हृदये देवं स्थाणुं सर्वांतरं शिवम्

3.34.22

गायंति सिद्धाः किल गीतकानि वाराणसीं ये निवसंति विप्राः ।
तेषामथैकेन भवेद्विमुक्तिर्ये कृत्तिवासं शरणं प्रपन्नाः

3.34.23

संप्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म ।
ध्याने समाधाय जपंति रुद्रं ध्यायंति चित्ते यतयो महेशम्

3.34.24

आराधयंति प्रभुमीशितारं वाराणसीमध्यगता मुनींद्राः ।
यजंति यज्ञैरभिसंधिहीनाः स्तुवंति रुद्रं प्रणमंति शंभुम्

3.34.25

नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुराणम् ।
स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम्

3.34.34

इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुस्त्रिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc