भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.33

3.33.1

युधिष्ठिर उवाच-
वाराणस्याश्च माहात्म्यं संक्षेपात्कथितं त्वया ।
विस्तरेण मुने ब्रूहि तदा प्रीणाति मे मनः

3.33.2

नारद उवाच-।
अत्रेतिहासं वक्ष्यामि वाराणस्या गुणाश्रयम् ।
यस्य श्रवणमात्रेण मुच्यते ब्रह्महत्यया

3.33.3

मेरुशृंगे पुरा देवमीशानं त्रिपुरद्विषम् ।
देवासनगता देवी महादेवमपृच्छत

3.33.4

देव्युवाच-।
देवदेव महादेव भक्तानामार्तिनाशन ।
कथं त्वां पुरुषो देवमचिरादेव पश्यति

3.33.5

सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः ।
आयासबहुला लोके यानि चान्यानि शंकर

3.33.6

येन विश्रांतचित्तानां योगिनां कर्मिणामपि ।
दृश्यो हि भगवान्सूक्ष्मः सर्वेषामथ देहिनाम्

3.33.7

एतद्गुह्यतमं ज्ञानं गूढं शक्रादिसेवितम् ।
हिताय सर्वभूतानां ब्रूहि कामाग्निनाशनम्

3.33.8

ईश्वर उवाच-।
अवाच्यमत्र विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम् ।
वक्ष्ये तव यथातत्त्वं यदुक्तं परमर्षिभिः

3.33.9

परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी ।
सर्वेषामेव भूतानां संसारार्णवतारिणी

3.33.10

तत्र भक्त्या महादेवि मदीयं व्रतमास्थिताः ।
निवसंति महात्मानः परं नियममास्थिताः

3.33.11

उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च यत् ।
ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम

3.33.12

स्थानांतर पवित्राणि तीर्थान्यायतनानि च ।
श्मशानसंस्थितान्येव दिव्यभूमिगतानि च

3.33.13

भूर्लोके नैव संलग्नमंतरिक्षे ममालयम् ।
अमुक्तास्तत्र पश्यंति मुक्ताः पश्यंति चेतसा

3.33.14

श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतम् ।
कालो भूत्वा जगदिदं संहराम्यत्र सुंदरि

3.33.15

देवीदं सर्वगुह्यानां स्थानं प्रियतरं मम ।
मद्भक्तास्तत्र गच्छंति मामेव प्रविशंति च

3.33.16

दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।
ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत्

3.33.17

जन्मांतरसहस्रेषु यत्पापं पूर्वसंचितम् ।
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम्

3.33.18

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वर्णसंकराः ।
स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः

3.33.19

कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।
कालेन निधनं प्राप्ता अविमुक्ते वरानने

3.33.20

चंद्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः ।
शिवे मम पुरे देवि जायंते तत्र मानवाः

3.33.21

नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ।
ईश्वरानुगृहीता हि सर्वे यांति परां गतिम्

3.33.22

मोक्षं सुदुर्ल्लभं मत्वा संसारं चातिभीषणम् ।
अश्मना चरणौ भंक्त्वा वाराणस्यां वसेन्नरः

3.33.23

दुर्ल्लभा तपसा चापि मृतस्य परमेश्वरि ।
यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी

3.33.24

प्रसादाज्जायते सम्यक्मम शैलेंद्रनंदिनि ।
अप्रवृद्धा न पश्यंति मम मायाविमोहिताः

3.33.25

विण्मूत्ररेतसां मध्ये ते वसंति पुनः पुनः ।
हन्यमानोऽपि यो विद्वान्वसेद्विघ्नशतैरपि

3.33.26

स याति परमं स्थानं यत्र गत्वा न शोचति ।
जन्ममृत्युजरामुक्तं परं यांति शिवालयम्

3.33.27

अपुनर्मरणानां हि सा गतिर्मोक्षकांक्षिणाम् ।
यां प्राप्य कृतकृत्यः स्यादिति मन्यंति पंडिताः

3.33.28

न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ।
प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते

3.33.29

नानावर्णा विवर्णाश्च चांडालाद्या जुगुप्सिताः ।
किल्बिषैः पूर्णदेहाश्च विशिष्टैः पातकैस्तथा

3.33.30

भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ।
अविमुक्तं परं ज्ञानमविमुक्तं परं पदम्

3.33.31

अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ।
कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसंति ये

3.33.32

तेषां तत्परमं ज्ञानं ददाम्यंते परं पदम् ।
प्रयागं नैमिषारण्यं श्रीशैलोऽथ महाबलम्

3.33.33

केदारं भद्रकर्णं तु गया पुष्करमेव च ।
कुरुक्षेत्रं भद्रकोटिर्नर्मदाम्रातकेश्वरी

3.33.34

शालग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम् ।
प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम्

3.33.35

एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह ।
न यास्यंति परं तत्त्वं वाराणस्यां यथा मृताः

3.33.36

वाराणस्यां विशेषेण गंगा त्रिपथगामिनी ।
प्रविष्टा नाशयेत्पापं जन्मांतरशतैः कृतम्

3.33.37

अन्यत्र सुलभा गंगा श्राद्धं दानं तपो जपः ।
व्रतानि सर्वमेवैतद्वाराणस्यां सुदुर्ल्लभम्

3.33.38

जपेच्च जुहुयान्नित्यं ददात्यर्चयतेऽमरान् ।
वायुभक्षश्च सततं वाराणस्यां स्थितो नरः

3.33.39

यदि पापो यदि शठो यदि वा धार्मिको नरः ।
वाराणसीं समासाद्य पुनाति सकलं कुलम्

3.33.40

वाराणस्यां येऽर्चयंति महादेवं स्तुवंति वै ।
सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः

3.33.41

अन्यत्र योगज्ञानाभ्यां संन्यासादथवान्यतः ।
प्राप्यते तत्परं स्थानं सहस्रेणैव जन्मनाम्

3.33.42

ये भक्ता देवदेवेशि वाराणस्यां वसंति वै ।
ते विंदंति परं मोक्षमेकेनैव तु जन्मना

3.33.43

यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ।
अविमुक्तं तदासाद्य नान्यदिच्छेत्तपोवनम्

3.33.44

यतो मयाऽविमुक्तं तदविमुक्तं ततः स्मृतम् ।
तदेव गुह्यं गुह्यानामेतद्विज्ञानमुच्यते

3.33.45

ज्ञानाज्ञानाभिनिष्ठानां परमानंदमिच्छताम् ।
यागतिर्विदिता सुभ्रूः साविमुक्ते मृतस्य तु

3.33.46

यानि चैवाविमुक्तस्य देहे दृष्टानि कृत्स्नशः ।
पुरी वाराणसी तेभ्यः स्थानेभ्योऽप्यधिका शुभा

3.33.47

यत्र साक्षान्महादेवो देहांते स्वयमीश्वरः ।
व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तये

3.33.48

यत्तत्परतरं तत्त्वमविमुक्तमिति श्रुतम् ।
एकेन जन्मना देवि वाराणस्यां तदाप्नुयात्

3.33.49

भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि ।
यथाविमुक्तमादित्ये वाराणस्यां व्यवस्थितम्

3.33.50

वरणायास्तथा चास्या मध्ये वाराणसीपुरी ।
तत्रैव संस्थितं तत्त्वं नित्यमेवंविमुक्तकम्

3.33.51

वाराणस्याः परं स्थानं न भूतं न भविष्यति ।
यत्र नारायणो देवो महादेवो दिवीश्वरः

3.33.52

तत्र देवाः सगंधर्वाः सयक्षोरगराक्षसाः ।
उपासते यं सततं देवदेवः पितामहः

3.33.53

महापातकिनो देवि ये तेभ्यः पापकृत्तमाः ।
वाराणसीं समासाद्य ते यांति परमां गतिम्

3.33.54

तस्मान्मुमुक्षुर्नियतो वसेद्वै मरणांतकम् ।
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते

3.33.55

किंतु विघ्ना भविष्यंति पापोपहतचेतसः ।
ततो नैवाचरेत्पापं कायेन मनसा गिरा

3.33.56

एतद्रहस्यं देवानां पुराणानां च सुव्रते ।
अविमुक्ताश्रयं ज्ञानं न कश्चिद्वेत्ति तत्त्वतः

3.33.57

नारद उवाच-।
देवतानामृषीणां च शृण्वतां परमेष्ठिनाम् ।
देवदेवेन कथितं सर्वपापविनाशनम्

3.33.58

यथानारायणः श्रेष्ठो देवानां पुरुषोत्तमः ।
यथेश्वराणां गिरिशः स्थानानामेतदुत्तमम्

3.33.59

यैः समाराधितो रुद्रः पूर्वस्मिन्नेकजन्मनि ।
ते विदंति परं क्षेत्रमविमुक्तं शिवालयम्

3.33.60

कलिकल्मषसंभूता येषामुपहृता मतिः ।
न तेषां वेदितुं शक्यं स्थानं तत्परमेष्ठिनः

3.33.61

ये स्मरंति सदा कालं वदंति च पुरीमिमाम् ।
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम्

3.33.62

यानि चेह प्रकुर्वंति पातकानि कृतालयाः ।
नाशयेत्तानि सर्वाणि देवः कालतनुः शिवः

3.33.63

आगच्छेत्तदिदं स्थानं सेवितं मोक्षकांक्षिभिः ।
मृतानां च पुनर्जन्म न भूयो भवसागरे

3.33.64

तस्मात्सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ।
योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः

3.33.65

न लोकवचनात्पित्रोर्न चैव गुरुवादतः ।
मतिर्न क्रमणीया स्यादविमुक्तगतिं प्रति

3.33.33

इति श्रीपाद्मे महापुराणे स्वर्गखंडे त्रयस्त्रिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc