भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.28

3.28.1

नारद उवाच-।
ततो गच्छेत धर्म्मज्ञ धर्म्मतीर्थं पुरातनम् ।
यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः

3.28.2

तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च चिह्नितम् ।
तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः

3.28.3

आसप्तमं कुलं चैव पुनीते नात्र संशयः ।
ततो गच्छेत धर्मज्ञ कलाप वनमुत्तमम्

3.28.4

कृच्छ्रेण महता गत्वा तत्र स्नात्वा समाहितः ।
अग्निष्टोममवाप्नोति विष्णुलोकं च गच्छति

3.28.5

सौगंधिकं वनं राजंस्ततो गच्छेत मानवः ।
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः

3.28.6

सिद्धचारणगंधर्वाः किन्नराः स महोरगाः ।
तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते

3.28.7

ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी ।
प्लक्षादेवी स्मृता राजन्महा पुण्या सरस्वती

3.28.8

तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले ।
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत्

3.28.9

ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् ।
षड्गुणं यन्निपातेषु वल्मीकादिति निश्चयः

3.28.10

कपिलानां सहस्रं च वाजिमेधं च विंदति ।
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातनैः

3.28.11

सुगंधां शतकुंभां च पंचयज्ञं च भारत ।
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते

3.28.12

त्रिशूलपात्रं तत्रैव तीर्थमासाद्य दुर्लभम् ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः

3.28.13

गाणपत्यं च लभते देहं त्यक्त्वा न संशयः ।
ततो राजगृहं गच्छेद्देव्याः स्थानं सुदुर्लभम्

3.28.14

शाकंभरीति विख्याता त्रिषुलोकेषु विश्रुता ।
दिव्यं वर्षसहस्रं च शाकेन किल भारत

3.28.15

आहारं सा कृतवती मासिमासि नराधिप ।
ऋषयोऽभ्यागतास्तत्र देव्या भक्तास्तपोधनाः

3.28.16

आतिथ्यं च कृतं तेषां शाकेन किल भारत ।
ततः शाकंभरीत्येवं नाम तस्याः प्रतिष्ठितम्

3.28.17

शाकंभरीं समासाद्य ब्रह्मचारी समाहितः ।
त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः

3.28.18

शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् ।
तत्फलं तस्य भवति देव्याश्छंदेन भारत

3.28.19

ततो गच्छेत्सुवर्णाख्यं त्रिषुलोकेषु विश्रुतम् ।
यत्र कृष्णः प्रसादार्थं रुद्रमाराधयत्पुरा

3.28.20

वरांश्च सुबहूँल्लेभे देवैरपि स दुर्ल्लभान् ।
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत

3.28.21

अपि चात्माप्रियतरो लोके कृष्ण भविष्यसि ।
त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः

3.28.22

तत्राभिगम्य राजेंद्र पूजयित्वा वृषध्वजम् ।
अश्वमेधमवाप्नोति गाणपत्यं च विंदति

3.28.23

धूमावतीं ततो गच्छेत्त्रिरात्रमुषितो नरः ।
मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः

3.28.24

देव्यास्तु दक्षिणार्धे नरथावर्त्तो नराधिप ।
तत्रागत्य तु धर्मज्ञ श्रद्दधानो जितेंद्रियः

3.28.25

महादेवप्रसादेन गच्छेत परमां गतिम् ।
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc