भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.27

3.27.1

नारद उवाच-।
ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् ।
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत्

3.27.2

ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् ।
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः

3.27.3

ब्राह्मणस्तु विशुद्धात्मा गच्छेत परमां गतिम् ।
ततो गच्छेन्नरव्याघ्र सोमतीर्थमनुत्तमम्

3.27.4

तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ।
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप

3.27.5

यत्र मंकणकः सिद्धो ब्रह्मर्षिर्लोकविश्रुतः ।
पुरा मंकणको राजन्कुशाग्रेणेति विश्रुतम्

3.27.6

क्षतः किल करे राजन्तस्य शाकरसोऽस्रवत् ।
स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः

3.27.7

ननर्त किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः ।
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जंगमं च यत्

3.27.8

प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ।
ब्रह्मादिभिस्ततो देवैरृषिभिश्च तपोधनैः

3.27.9

विज्ञप्तो वै ऋषेरर्थे महादेवो नराधिप ।
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि

3.27.10

ततो देवो मुनिं दृष्ट्वा हर्षाविष्टेन चेतसा ।
नृत्यंतमब्रवीच्चैनं स्थिराणां हितकाम्यया

3.27.11

अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् ।
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव

3.27.12

ऋषिरुवाच-।
तपस्विनो धर्म्मपथस्थितस्य द्विजसत्तम ।
किं न पश्यसि मे ब्रह्मन्क्षताच्छाकरसं सृतम्

3.27.13

यं दृष्ट्वा संप्रनृत्तोऽहं हर्षेण महता वृतः ।
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम्

3.27.14

अहं तु विस्मयं विप्र न गच्छामीह पश्य माम् ।
एवमुक्त्वा नरश्रेष्ठ महादेवेन वै तदा

3.27.15

अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितोऽनघ ।
तस्य भस्मक्षताद्राजन्निःसृतं हिमसंनिभम्

3.27.16

यं दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ।
नान्यं देवादहं मन्ये रुद्रात्परतरं महत्

3.27.17

सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ।
त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम्

3.27.18

त्वामेव भगवन्सर्वे प्रविशंति युगक्षये ।
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया

3.27.19

त्वयि सर्वेश दृश्यंते सुराः शक्रादयोऽनघ ।
सर्वस्त्वमसि लोकानां कर्ता कारयितान्वहम्

3.27.20

त्वत्प्रसादात्सुराः सर्वे मोदंतीहाकुतोभयाः ।
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत्

3.27.21

त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै ।
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत्

3.27.22

तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा ।
आश्रमे चेह वत्स्यामि त्वया सार्द्धं महामुने

3.27.23

सप्तसारस्वते स्नात्वा अर्चयिष्यंति ये तु माम् ।
न तेषां दुर्लभं किंचिदिह लोके परत्र वा

3.27.24

गच्छेत्सारस्वतं चापि लोकं नास्त्यत्र संशयः ।
एवमुक्त्वा महादेवस्तत्रैवांतरधीयत

3.27.25

ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः

3.27.26

कार्तिकेयश्च भगवांस्त्रिसंध्यां किल भारत ।
सान्निध्यमकरोत्तत्र भार्गवप्रियकाम्यया

3.27.27

कपालमोचनं तीर्थं सर्वपापप्रणाशनम् ।
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते

3.27.28

अग्नितीर्थं ततो गच्छेत्स्नात्वा च भरतर्षभ ।
अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत्

3.27.29

विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते

3.27.30

ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः ।
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते

3.27.31

पुनात्या सप्तमं चैव कुलं नास्त्यत्र संशयः ।
ततो गच्छेत राजेंद्र तीर्थं त्रैलोक्यविश्रुतम्

3.27.32

पृथूदकमिति ख्यातं कार्तिकेयस्य व्नृप ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः

3.27.33

अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ।
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना

3.27.34

तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत ।
अश्वमेधफलं चापि लभते स्वर्गमेव च

3.27.35

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् ।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्

3.27.36

उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ।
पृथूदके जप्यपरो नैव संसरणं लभेत्

3.27.37

गीतं सनत्कुमारेण व्यासेन च महात्मना ।
वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम्

3.27.38

पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम ।
एतन्मेध्यं पवित्रं च पावनं च न संशयः

3.27.39

तत्र स्नात्वा दिवं यांति अपि पापकृतो जनाः ।
पृथूदके नरश्रेष्ठमाहुरेवं मनीषिणः

3.27.40

मधुस्रवं च तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्

3.27.41

ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् ।
सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम्

3.27.42

त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया ।
अग्निष्टोमातिरात्राभ्यां फलं चैव समश्नुते

3.27.43

पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ।
अवकीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह

3.27.44

विप्राणामनुकंपार्थं दर्भिणा निर्मितं पुरा ।
व्रतोपनयनाभ्यां चाप्युपवासेन वा द्विजः

3.27.45

क्रियामंत्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः ।
क्रियामंत्रविहीनोऽपि तत्र स्नात्वा नरर्षभ

3.27.46

चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातनम् ।
समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा

3.27.47

तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात् ।
फलानि गोसहस्राणां चतुर्णां विंदते च सः

3.27.48

ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् ।
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते

3.27.49

उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् ।
दानं वाप्युपवासो वा सहस्रगुणितो भवेत्

3.27.50

ततो गच्छेत राजेंद्र रेणुकातीर्थमुत्तमम् ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः

3.27.51

सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ।
विमोचन उपस्पृश्य जितमन्युर्जितेंद्रियः

3.27.52

प्रतिग्रहकृतैः पापैः सर्वैः संपरिमुच्यते ।
ततः पंचवटं गत्वा ब्रह्मचारी जितेंद्रियः

3.27.53

पुण्येन महता युक्तः स्वर्गलोके महीयते ।
यत्र योगीश्वरः स्थाणुः स्वयमेव वृषध्वजः

3.27.54

तमर्चयित्वा देवेशं गमनादेव सिध्यति ।
तैजसं वारुणं तीर्थं दीप्यते स्वेन तेजसा

3.27.55

यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः ।
सैनापत्ये च देवानामभिषिक्तो गुहस्तदा

3.27.56

तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ।
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेंद्रियः

3.27.57

सर्वपापविशुद्धात्मा रुद्रलोकं प्रपद्यते ।
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः

3.27.58

अग्निष्टोममवाप्नोति ब्रह्मलोकं च गच्छति ।
ततो गच्छेदनरकं तीर्थसेवी नराधिप

3.27.59

तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ।
तत्र ब्रह्मा स्वयं नित्यं देवैस्सह महीयते

3.27.60

अध्यास्ते पुरुषव्याघ्र नारायणपरागमैः ।
सान्निध्यं चैव राजेंद्र रुद्रवेद्यां कुरुद्वह

3.27.61

अभिगम्य तु तां देवीं न दुर्गतिमवाप्नुयात् ।
तत्रैव च महाराज विश्वेश्वरमुमापतिम्

3.27.62

अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ।
नारायणं चाभिगम्य पद्मनाभमरिंदम

3.27.63

शोभमानो महाराज विष्णुलोकं प्रपद्यते ।
तीर्थेषु सर्वदेवानां स्नातमात्रो नराधिप

3.27.64

सर्वदुःखपरित्यक्तो द्योतते शिववत्सदा ।
ततस्त्वस्थिपुरं गच्छेत्तीर्थसेवी नराधिप

3.27.65

पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ।
अग्निष्टोमस्य यज्ञस्य फलमाप्नोति भारत

3.27.66

गंगाह्रदश्च तत्रैव कूपश्च भरतर्षभ ।
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीयते

3.27.67

तत्र स्नात्वा नरो राजन्ब्रह्मलोके प्रपद्यते ।
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम्

3.27.68

गतिं परामवाप्नोति कुलं चैव समुद्धरेत् ।
ततः स्थाणुवटं गछेत्त्रिषुलोकेषु विश्रुतम्

3.27.69

तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् ।
बदरीणां वनं गच्छेद्वसिष्ठस्याश्रमं ततः

3.27.70

बदरी भक्ष्यते यत्र त्रिरात्रोपोषितो नरः ।
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः

3.27.71

त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप ।
इंद्रमार्गं समासाद्य तीर्थसेवी नराधिप

3.27.72

अहोरात्रोपवासेन स्वर्गलोके महीयते ।
एकरात्रं समासाद्य एकरात्रोषितो नरः

3.27.73

नियतः सत्यवादी च ब्रह्मलोके महीयते ।
तथा गछेच्च राजेंद्र तीर्थं त्रैलोक्यविश्रुतम्

3.27.74

आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः ।
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम्

3.27.75

आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ।
सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह

3.27.76

सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः ।
ततो गच्छेत धर्मज्ञ दधीचस्य नराधिप

3.27.77

तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् ।
यत्र सारस्वतो यातः सिद्धिं स तपसोनिधिः

3.27.78

तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ।
सारस्वतीं मतिं चैव लभते नात्र संशयः

3.27.79

ततः कन्याश्रमं गत्वा नियतो ब्रह्मचर्यया ।
त्रिरात्रमुषितो राजन्नुपवासपरायणः

3.27.80

लभेत्कन्याशतं दिव्यं बह्मलोकं च गच्छति ।
ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि

3.27.81

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
मासि मासि समेष्यंति पुण्येन महतान्विताः

3.27.82

सन्निहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ।
अश्वमेधशतं तेन इष्टं भवति शाश्वतम्

3.27.83

पृथिव्यां यानि तीर्थानि अंतरिक्षचराणि च ।
उदपानाश्च विप्राश्च पुण्यान्यायतनानि च

3.27.84

निःसंशयममावास्यां समेष्यंति नराधिप ।
मासिमासि नरव्याघ्र सन्निहित्यां जनेश्वर

3.27.85

तीर्थसन्नयनादेव सन्निहिती भुवि विश्रुता ।
तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते

3.27.86

अमावास्यां तथा चैव राहुग्रस्ते दिवाकरे ।
यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु

3.27.87

अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् ।
स्नात एव तदाप्नोति श्राद्धं कृत्वा च मानवः

3.27.88

यत्किंचिद्दुष्कृतं कर्म्म स्त्रिया वा पुरुषस्य वा ।
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः

3.27.89

पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ।
अभिवाद्य ततो नाम्ना द्वारपालं मचक्रुकम्

3.27.90

गंगाह्रदश्च तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः

3.27.91

राजसूयाश्वमेधाभ्यां फलं विंदति मानवः ।
पृथिव्यां नैमिषं पुण्यमंतरिक्षे च पुष्करम्

3.27.92

त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ।
पांसवोऽपि कुरुक्षेत्रे वायुनाति समीरिताः

3.27.93

अपि दुष्कृतकर्म्माणं नयंति परमां गतिम् ।
दक्षिणेन सरस्वत्यामुत्तरेण सरस्वतीम्

3.27.94

ये वसंति कुरुक्षेत्रे ते वसंति त्रिविष्टपे ।
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्

3.27.95

अप्येकां वाचमुत्मृज्य स्वर्गलोके महीयते ।
ब्रह्मवेद्यां कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्

3.27.96

तस्मिन्वसंति ये राजन्न ते शोच्याः कथंचन ।
तरंडकारंडकयोर्यदंतरं रामह्रदानां च मचक्रुकस्य च ।
एतत्कुरुक्षेत्र समंतपंचकं पितामहस्योत्तर वेदिरुच्यते

3.27.27

इति श्रीपाद्मेमहापुराणे स्वर्गखंडे सप्तविंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc