पद्म पुराण · अध्याय 2.98
सूत उवाच-
एवमुक्ते शुभे वाक्ये विज्वलेन महात्मना ॥
कुंजलो वदतां श्रेष्ठः स्तोत्रं पुण्यमुदैरयत्
ध्यात्वा नत्वा हृषीकेशं सर्वक्लेशविनाशनम् ॥
सर्वश्रेयः प्रदातारं हरेः स्तोत्रमुदीरितम्
वासुदेवाभिधानं तत्सर्वश्रेयः प्रदायकम् ॥
मोक्षद्वारं सुखोपेतं शांतिदं पुष्टिवर्द्धनम्
सर्वकामप्रदातारं ज्ञानदं ज्ञानवर्द्धनम् ॥
वासुदेवस्य यत्स्तोत्रं विज्वलाय प्रकाशितम्
वासुदेवाभिधानं चाप्रमेयं पुण्यवर्द्धनम् ॥
सोऽवगम्य पितुः सर्वं विज्वलः पक्षिणांवरः
तत्रगंतुंप्रचक्रामपितुःपृष्टंतदानृप ॥
एवं गंतुं कृतमतिं विज्वलं ज्ञानपारगम्
उवाच पुत्रं धर्मात्मा उपकारसमुद्यतम्
कुंजल उवाच-
पुत्र तस्य महज्जाने पातकं भूपतेः शृणु ॥
यतो गत्वा पठ स्वत्वं सुबाहोश्चोपशृण्वतः
यथायथा श्रोष्यति स्तोत्रमुत्तमं तथा तथा ज्ञानमयो भविष्यति ॥
श्रीवासुदेवस्य न संशयो वै तस्य प्रसादात्सुशिवं मयोक्तम्
आमंत्र्य स गुरुं पश्चादुड्डीय लघुविक्रमः ॥
आनंदकाननं पुण्यं संप्राप्तो विज्वलस्तदा
वृक्षच्छायां समाश्रित्य उपविष्टो मुदान्वितः ।
समालोक्य स राजानं विमानेनागतं पुनः
एष्यत्यसौ कदा राजा सुबाहुः प्रियया सह ॥
पातकान्मोचयिष्यामि स्तोत्रेणानेन वै कदा
तावद्विमानः संप्राप्तः किंकिणीजालमंडितः ॥
घंटारवसमाकीर्णो वीणावेणुसमन्वितः
गंधर्वस्वरसंघुष्टश्चाप्सरोभिः समन्वितः ॥
सर्वकामसमृद्धस्तु अन्नोदकविवर्जितः
तस्मिन्याने स्थितो राजा सुबाहुः प्रियया सह ॥
समुत्तीर्णो विमानात्स सुतार्क्ष्य प्रियया सह
शस्त्रमादाय तीक्ष्णं तु यावत्कृंतति तच्छवम् ॥
तावद्धि विज्वलेनापि समाह्वानं कृतं तदा
भो भोः पुरुषशार्दूल देवोपम भवानिदम् ॥
करोति निर्घृणं कर्म नृशंसैर्न च शक्यते
कर्तुं पुरुषशार्दूल कोऽयं विधिविपर्ययः ॥
दुष्कृतं साहसं कर्म निंद्यं लोकेषु सर्वदा
वेदाचारविहीनं तु कस्मात्प्रारब्धवानि ह ॥
तन्मे त्वं कारणं सर्वं कथयस्व यथा तथा
इत्येवं भाषितं तस्य विज्वलस्य महात्मनः ॥
समाकर्ण्य महाराजः स्वप्रियां वाक्यमब्रवीत्
प्रिये वर्षशतं भुक्तं मयेदं पापकर्मणा ॥
कदा न भाषितं केन यथायं परिभाषते
ममैवं पीड्यमानस्य क्षुधया हृदयं प्रिये ॥
निर्गतं चोत्सुकं कांते शांतिश्चित्ते प्रवर्तते
यावदस्य श्रुतं वाक्यं सर्वदुःखस्य शांतिदम् ॥
तावच्चित्ते समाह्लादो वर्तते चारुहासिनि
कोयं देवो नु गंधर्वः सहस्राक्षो भविष्यति ॥
मुनीनां स्याद्वचः सत्यं यदुक्तं मुनिना पुरा
एवमाभाषितं श्रुत्वा प्रियस्यानंतरं प्रिया ॥
राजानं प्रत्युवाचाथ भार्या पतिपरायणा
सत्यमुक्तं त्वया नाथ इदमाश्चर्यमुत्तमम् ॥
यथा ते वर्तते कांत मम चित्ते तथा पुनः
पक्षिरूपधरः कोऽयं पृच्छते हितकारिवत् ॥
एवमाभाषितं श्रुत्वा प्रियायाः पृथिवीपतिः
बद्धांजलिपुटोभूत्वा पक्षिणं वाक्यमब्रवीत् ॥
सुबाहुरुवाच-
स्वागतं ते महाप्राज्ञ पक्षिरूपधरः प्रभो
शिरसा भार्यया सार्द्धं तव पादांबुजद्वयम् ॥
नमस्करोम्यहं पुण्यमस्तु नस्त्वत्प्रसादतः
भवान्कः पक्षिरूपेण पुण्यमेवं प्रभाषते ॥
यादृशं क्रियतेकर्म पूर्वदेहेन सत्तम
सुकृतं दुष्कृतं वापि तदिहैव प्रभुज्यते ॥
अथ तेनात्मकं वृत्तं तस्याग्रे च निवेदितम्
यथोक्तं कुंजलेनापि पित्रा पूर्वं श्रुतं तथा ॥
कथयस्वात्मवृत्तांतं भवान्को मां प्रभाषते
सुबाहुं प्रत्युवाचेदं वाक्यं पक्षिवरस्तदा ॥
विज्वल उवाच-
शुकजात्यां समुत्पन्नः कुंजलोनाम मे पिता
तस्याहं विज्वलो नाम तृतीयस्तु सुतेष्वहम् ॥
नाहं देवो न गंधर्वो न च सिद्धो महाभुज
नित्यमेव प्रपश्यामि कर्म चैवं सुदारुणम् ॥
कियत्कालं महत्कर्म साहसाकारसंयुतम्
करिष्यसि महाराज तन्मे कथय सांप्रतम् ॥
सुबाहुरुवाच-
वासुदेवाभिधानं यत्पूर्वमुक्तं हि ब्राह्मणैः
श्रोष्याम्यहं यदा भद्र गतिं स्वां प्राप्नुयां तदा ॥
पुण्यात्मना भाषितं वै मुनिना संयतात्मना
तदाहं पातकान्मुक्तो भविष्यामि न संशयः ॥
विज्वल उवाच-
तवार्थे पृच्छितस्तातस्तेन मे कथितं च यत्
तत्तेद्याहं प्रवक्ष्यामि शाश्वतं शृणु सत्तम
ॐअस्य श्रीवासुदेवाभिधानस्य स्तोत्रस्य नारदऋषिरनुष्टुप्छंदः ।
ॐकारोदेवता सर्वपातकनाशनार्थे चतुर्वर्गसाधनार्थे च जपे विनियोगः ।
ॐनमो भगवते वासुदेवाय इति मंत्रः ।
पावनं परमं पुण्यं वेदज्ञं वेदमंदिरम् ॥
विद्याधारं भवाधारं प्रणवं वै नमाम्यहम्
निरावासं निराकारं सुप्रकाशं महोदयम् ॥
निर्गुणं गुणसंबद्धं नमामि प्रणवं परम्
महाकांतं महोत्साहं महामोहविनाशनम् ॥
आचिन्वंतं जगत्सर्वं गुणातीतं नमाम्यहम्
भाति सर्वत्र यो भूत्वा भूतानां भूतिवर्द्धनः। ।
अभयं भिक्षुसंबद्धं नमामि प्रणवं शिवम्
गायत्रीसाम गायंतं गीतं गीतप्रियं शुभम् ॥
गंधर्वगीतभोक्तारं प्रणवं प्रणमाम्यहम्
विचारं वेदरूपं तं यज्ञस्थं भक्तवत्सलम् ॥
योनिं सर्वस्य लोकस्य ॐकारं प्रणमाम्यहम्
तारकं सर्वभूतानां नौरूपेण विराजितम् ॥
संसारार्णवमग्नानां नमामि प्रणवं हरिम्
सर्वलोकेषु वसते एकरूपेण नैकधा ॥
धामकैवल्यरूपेण नमामि प्रणवं शिवम्
सूक्ष्मं सूक्ष्मतरं शुद्धं निर्गुणं गुणनायकम् ॥
वर्जितं प्राकृतैर्भावैर्वेदस्थानं नमाम्यहम्
देवदैत्यवियोगैश्च वर्जितं तुष्टिभिः सदा ॥
दैवैश्च योगिभिर्ध्येयं तमोंकारं नमाम्यहम्
व्यापकं विश्ववेत्तारं विज्ञानं परमं शुभम् ॥
शिवं शिवगुणं शांतं वंदे प्रणवमीश्वरम्
यस्य मायां प्रविष्टास्तु ब्रह्माद्याश्च सुरासुराः। ।
न विंदंति परं शुद्धं मोक्षद्वारं नमाम्यहम्
आनंदकंदाय विशुद्धबुद्धये शुद्धाय हंसाय परावराय। ।
नमोऽस्तु तस्मै गणनायकाय श्रीवासुदेवाय महाप्रभाय
श्रीपांचजन्येन विराजमानं रविप्रभेणापि सुदर्शनेन ॥
गदाब्जकेनापि विराजमानं प्रभुं सदैनं शरणं प्रपद्ये
यं वेदगुह्यं सगुणं गुणानामाधारभूतं सचराचरस्य ॥
यं सूर्यवैश्वानरतुल्यतेजसं तं वासुदेवं शरणं प्रपद्ये
क्षुधानिधानं विमलं सुरूपमानंदमानेन विराजमानम् ।
यं प्राप्य जीवंति सुरादिलोकास्तं वासुदेवं शरणं प्रपद्ये
तमोघनानां स्वकरैर्विनाशं करोति नित्यं परिकर्महेतुः ॥
उद्द्योतमानं रविदीप्ततेजसं तं वासुदेवं शरणं प्रपद्ये
यो भाति सर्वत्र रविप्रभावैः करोति शोषं च रसं ददाति ॥
यः प्राणिनामंतरगः स वायुस्तं वासुदेवं शरणं प्रपद्ये
स्वेच्छानुरूपेण स देवदेवो बिभर्ति लोकान्सकलान्महीपान् ॥
संतारणे नौरिव वर्तते यस्तं वासुदेवं शरणं प्रपद्ये
अंतर्गतो लोकमयः सदैव पचत्यसौ स्थावरजंगमानाम् ॥
स्वाहामुखो देवगणस्य हेतुस्तं वासुदेवं शरणं प्रपद्ये
रसैः सुपुण्यैः सकलैः सहैव पुष्णाति सौम्यो गुणदश्च लोके ॥
अन्नानि योनिर्मल तेजसैव तं वासुदेवं शरणं प्रपद्ये
अस्त्येव सर्वत्र विनाशहेतुः सर्वाश्रयः सर्वमयः स सर्वः ॥
विना हृषीकैर्विषयान्प्रभुंक्ते तं वासुदेवं शरणं प्रपद्ये
जीवस्वरूपेण बिभर्ति लोकांस्ततः स्वमूर्तान्सचराचरांश्च ॥
निष्केवलो ज्ञानमयः सुशुद्धस्तं वासुदेवं शरणं प्रपद्ये
दैत्यांतकं दुःखविनाशमूलं शांतं परं शक्तिमयं विशालम् ॥
यं प्राप्य देवा विनयं प्रयांति तं वासुदेवं शरणं प्रपद्ये
सुखं सुखांतं सुखदं सुरेशं ज्ञानार्णवं तं मुनिपं सुरेशम् ॥
सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये
यज्ञांगरूपं परमार्थरूपं मायान्वितं मापतिमुग्रपुण्यम् ॥
विज्ञानमेकं जगतां निवासं तं वासुदेवं शरणं प्रपद्ये
अंभोधिमध्ये शयनं हितस्य नागांगभोगे शयनं विशाले ॥
श्रीपादपद्मद्वयमेव तस्य तद्वासुदेवस्य नमामि नित्यम्
पुण्यान्वितं शंकरमेव नित्यं तीर्थैरनेकैः परिसेव्यमानम् ॥
तत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य अघापहं तत्
पादांबुजं रक्तमहोत्पलाभमंभोजसल्लिंगजयोपयुक्तम् ॥
अलंकृतं नूपुरमुद्रिकाभिः श्रीवासुदेवस्य नमामि नित्यम्
देवैः सुसिद्धैर्मुनिभिः सदैव नुतं सुभक्त्या उरगाधिपैश्च ॥
तत्पादपंकेरुहमेवपुण्यं श्रीवासुदेवस्य नमामि नित्यम्
यस्यापि पादांभसि मज्जमानाः पूता दिवं यांति विकल्मषास्ते ॥
मोक्षं लभंते मुनयः सुतुष्टास्तं वासुदेवं शरणं प्रपद्ये
पादोदकं तिष्ठति यत्र विष्णोर्गंगादितीर्थानि सदैव तत्र ॥
पिबंति येद्यापि सपापदेहास्ते यांति शुद्धाः सुगृहं मुरारेः
पादोदकेनाप्यभिषिच्यमाना उग्रैश्च पापैः परिलिप्तदेहाः ॥
ते यांति मुक्तिं परमेश्वरस्य तस्यैव पादौ सततं नमामि
नैवेद्यमात्रेण सुभक्षितेन सुचक्रिणस्तस्य महात्मनस्तु ॥
श्रीवाजपेयस्य फलं लभंते सर्वार्थयुक्ताश्च नरा भवंति
नारायणं तं नरकाधिनाशनं मायाविहीनं सकलं गुणज्ञम् ॥
यं ध्यायमानाः सुगतिं प्रयांति तं वासुदेवं शरणं प्रपद्ये
यो वंद्यस्त्वृषिसिद्धचारणगणैर्देवैः सदा पूज्यते ॥
यो विश्वस्य विसृष्टिहेतुकरणे ब्रह्मादिदेवप्रभुः ॥
यः संसारमहार्णवे निपतितस्योद्धारको वत्सल-।
स्तस्यैवापि नमाम्यहं सुचरणौ भक्त्या वरौ पावनौ
यो दृष्टो मखमंडपे सुरगणैः श्रीवामनः सामगः ॥
सामोद्गीतकुतूहलः सुरगणैस्त्रैलोक्य एकः प्रभुः । ।
कुर्वंतं नयनेक्षणैः शुभकरैर्निष्पापतां तद्बले-।
स्तस्याहं चरणारविंदयुगलं वंदे परं पावनम्
राजंतं द्विजमंडले मखमुखे ब्रह्मश्रियाशोभितं ॥
दिव्येनापि सुतेजसा करमयं यं चेंद्रनीलोपमम् ।
देवानां हितकाम्यया सुतनुजं वैरोचनस्यापि तं-।
याचंतं मम दीयतां त्रिपदकं वंदे प्रभुं वामनम्
तं द्रष्टुं रविमंडले मुनिगणैः संप्राप्तवंतं दिवं ॥
चंद्रार्कास्तमयांतरे किल पदा संच्छादयंतं तदा ॥
तस्यैवापि सुचक्रिणः सुरगणाः प्रापुर्लयं सांप्रतं-।
का ये विश्वविकोशकेतमतुलं नौमि प्रभोर्विक्रमम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रेऽष्टनवतितमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0