भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.99

2.99.1

।
विष्णुरुवाच-
स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च ।
धन्यं सुसूक्तं परमं सुजाप्यं निशम्य राजा स सुखी बभूव

2.99.2

गतासु तृष्णा क्षुधया समेता देवोपमो भूमिपतिर्बभूव ।
भार्या च तस्यापि विभाति रूपैर्युक्तावुभौ पापविबंधमाप्तौ

2.99.3

देवः सुदेवैः परिवारितोसौ विप्रैः सुसिद्धैर्हरिभक्तियुक्तैः ।
आगत्य भूपं गतकल्मषं तं श्रीशंखचक्राब्जगदासिधर्ता

2.99.4

श्रीनारदो भार्गव व्यास पुण्या समागतस्तत्र मृकंडसूनुः ।
वाल्मीकि नामा मुनिर्विष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः

2.99.5

गर्गो महात्मा हरिभक्तियुक्तो जाबालिरैभ्यावथ कश्यपश्च ।
आजग्मुरेते हरिणा समेता विष्णुप्रिया भागवतां वरिष्ठाः

2.99.6

पुण्याः सुधन्या गतकल्मषास्ते हरेः सुपादांबुजभक्तियुक्ताः ।
श्रीवासुदेवं परिवार्य तस्थुः स्तुवंति भूपं विविधप्रकारैः

2.99.7

देवाश्च सर्वे हुतभुङ्मुखाश्च ब्रह्मा हरिश्चापि सुदिव्यदेव्यः ।
गायंति दिव्यं मधुरं मनोहरं गंधर्वराजादिसुगायनाश्च

2.99.8

सुवेद युक्तैः परमार्थसंमितैः स्तवैः सुपुण्यैर्मुनयः स्तुवंति ।
दृष्ट्वा पतिं भूपतिमेव देवो हरिर्बभाषे वचनं मनोहरम्

2.99.9

वरं यथेष्टं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः ।
हरेस्तु वाक्यं स निशम्य राजा दृष्ट्वा मुरारिं वदमानमग्रे

2.99.10

नीलोत्पलाभं मुरघातिनं प्रभुं तं शंखचक्रासिगदाप्रधारिणम् ।
श्रियासमेतं परमेश्वरं तं रत्नोज्ज्वलं कंकणहारभूषितम्

2.99.11

रविप्रभं देवगणैः सुसेवितं महार्घहाराभरणैः सुभूषितम् ।
सुदिव्यगंधैर्वरलेपनैर्हरिं सुभक्तिभावैरवनीं गतो नृपः

2.99.12

दंडप्रणामैः सततं नमाम जयेति वाचाथ महानृपस्तदा ।
दासोस्मि भृत्योस्मि पुरः स ते सदा भक्तिं न जाने न च भावमुत्तमम्

2.99.13

जायान्वितं मामिह चागतं हरे प्रपाहि वै त्वां शरणं प्रपन्नम् ।
धन्यास्तु ते माधव मानवा द्विजाः सदैव ते ध्यानमनोविलीनाः

2.99.14

समुच्चरंतो भव माधवेति प्रयांति वैकुंठमितः सुनिर्मलाः ।
तवैव पादांबुजनिर्गतं पयः पुण्यं तथा ये शिरसा वहंति

2.99.15

समस्ततीर्थोद्भव तोय आप्लुतास्ते मानवा यांति हरेः सुधाम

2.99.16

नास्ति योगो न मे भक्तिर्ज्ञानं नास्ति न मे क्रिया ।
कस्य पुण्यस्य संगेन वरं मह्यं प्रयच्छसि

2.99.17

हरिरुवाच-
वासुदेवाभिधानं यन्महापातकनाशनम् ।
भवता विज्वलात्पुण्याच्छ्रुतं राजन्विकल्मषः

2.99.18

तेन त्वं मुक्तिभागी च संजातो नात्र संशयः ।
मम लोके प्रभुंक्ष्व त्वं दिव्यान्भोगान्मनोनुगान्

2.99.19

राजोवाच-
यदिदेववरोदेयोममदीनस्यवैत्वया ।
विज्वलायप्रयच्छत्वंप्रथमंवरमुत्तमम्

2.99.20

हरिरुवाच-
विज्वलस्य पिता पुण्यः कुंजलो ज्ञानमंडितः ।
वासुदेवमहास्तोत्रं नित्यं पठति भूपते

2.99.21

पुत्रैः प्रियासमेतोऽसौ मम गेहं प्रयास्यति ।
एतत्तु जपते स्तोत्रं सदा दास्याम्यहं फलम्

2.99.22

एवमुक्ते शुभे वाक्ये राजा केशवमब्रवीत् ।
इदं स्तोत्रं महापुण्यं सफलं कुरु केशव

2.99.23

हरिरुवाच-।
कृते युगे महाराज यदा स्तोष्यंति मानवाः ।
तदा मोक्षं प्रयास्यंति तत्क्षणान्नात्र संशयः

2.99.24

त्रेतायां मासमात्रेण षड्भिर्मासैस्तु द्वापरे ।
वर्षेणैकेन च कलौ ये जपंति च मानवाः

2.99.25

स्वर्गं प्रयांति राजेंद्र वैष्णवं गतिदायकम् ।
त्रिकालमेककालं वा स्नातो जपति ब्राह्मणः

2.99.26

यं यं तु वांछते कामं स स तस्य भविष्यति ।
क्षत्रियो जयमाप्नोति धनधान्यैरलंकृतः

2.99.27

वैश्यो भविष्यति श्रीमान्सुखी शूद्रो भविष्यति ।
अंत्यजं श्रावयेद्योयं पापान्मुक्तो भविष्यति

2.99.28

श्रावको नरकं घोरं कदाचिन्नैव पश्यति ।
मम स्तोत्रप्रसादाच्च सर्वसिद्धो भविष्यति

2.99.29

ब्राह्मणैर्भोज्यमानैश्च श्राद्धकाले पठिष्यति ।
पितरो वैष्णवं लोकं तृप्ता यास्यंति भूपते

2.99.30

तर्पणांते जपं कुर्याद्ब्राह्मणो वाथ क्षत्रियः ।
पिबंति चामृतं तस्य पितरो हृष्टमानसाः

2.99.31

होमेषु यज्ञमध्ये च भावाज्जपति मानवः ।
तत्र विघ्ना न जायंते सर्वसिद्धिर्भविष्यति

2.99.32

विषमे दुर्गसंस्थाने हिंस्रव्याघ्रस्य संकटे ।
चौराणां संकटे प्राप्ते तत्र स्तोत्रमुदीरयेत्

2.99.33

तत्र शांतिर्महाराज भविष्यति न संशयः ।
अन्येष्वेव सुभव्येषु राजद्वारे गते नरे

2.99.34

वासुदेवाभिधानस्य अयुतं जपते नरः ।
ब्रह्मचर्येण संस्नातः क्रोधलोभविवर्जितः

2.99.35

तिलतंडुलकैर्होमं दशांशमाज्यमिश्रितम् ।
वासुदेवं प्रपूज्यैव दद्यात्प्रयतमानसः

2.99.36

श्लोकं प्रति ततो देयं होमं ध्यानेन मानवैः ।
तेषां सुभृत्यवन्नित्यं पार्श्वं नैव त्यजाम्यहम्

2.99.37

कलौ युगे सुसंप्राप्ते स्तोत्रे दास्यं प्रयास्यति ।
वेदभंगप्रसंगेन यस्य कस्य न दीयते

2.99.38

सर्वकामसमृद्धार्थः स चैव हि भविष्यति ।
एवं हि सफलं स्तोत्रं मया भूप कृतं शृणु

2.99.39

ब्रह्मणा निर्मितं तेन जप्तं रुद्रेण वै पुरा ।
ब्रह्महत्याविनिर्मुक्त इंद्रो मुक्तश्च किल्बिषात्

2.99.40

देवाश्च ऋषयो गुह्याः सिद्धविद्याधरामराः ।
नागैस्तु पूजितं स्तोत्रमापुः सिद्धिं मनीप्सिताम्

2.99.41

पुण्यो धन्यः स वै दाता पुत्रवान्हि भविष्यति ।
जपिष्यति मम स्तोत्रं नात्र कार्या विचारणा

2.99.42

आगच्छ त्वं स्त्रिया सार्धं मम स्थानं नृपोत्तम ।
हस्तावलंबनं दत्तं हरिणा तस्य भूपतेः

2.99.43

नेदुर्दुंदुभयस्तत्र गंधर्वा ललितं जगुः ।
ननृतुश्चाप्सरः श्रेष्ठाः पुष्पवृष्टिं प्रचक्रिरे

2.99.44

देवाश्च ऋषयः सर्वे वेदस्तोत्रैः स्तुवंति ते ।
ततो दयितया सार्द्धं जगाम नृपतिर्हरिम्

2.99.45

तं स्तूयमानं सुरसिद्धसंघैः स विज्वलः पश्यति हृष्टमानसः ।
समागतस्तिष्ठति यत्र वै पिता माता च वेगेन महाप्रभावः

2.99.99

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे नवनवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc