भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.89

2.89.1

विष्णुरुवाच-
कुंजलस्तु सुतं वाक्यं समुज्ज्वलमथाब्रवीत् ।
भवान्कथय भोः पुत्र किमपूर्वं तु दृष्टवान्

2.89.2

तन्मे कथय सुप्रीतः श्रोतुकामोऽस्मि सांप्रतम् ।
एवमादिश्य तं पुत्रं विरराम स कुंजलः

2.89.3

पितरं प्रत्युवाचाथ विनयावनतस्सुतः ।
समुज्ज्वल उवाच-
हिमवंतं नगश्रेष्ठं देववृंदसमन्वितम्

2.89.4

आहारार्थं प्रगच्छामि भवतश्चात्मनः पितः ।
पश्यामि कौतुकं तत्र न दृष्टं न श्रुतं पुरा

2.89.5

प्रदेशमृषिगणाकीर्णमप्सरोभिः प्रशोभितम् ।
बहुकौतुकशोभाढ्यं मंगल्यं मंगलैर्युतम्

2.89.6

बहुपुण्यफलोपेतैर्वनैर्नानाविधैस्ततः ।
अनेककौतुकभरैर्मनसः परिमोहनम्

2.89.7

तत्र दृष्टं मया तात अपूर्वं मानसांतिके ।
बहुहंसैः समाकीर्णो हंस एकः समागतः

2.89.8

एवं कृष्णा महाभाग अन्ये तत्र समागताः ।
सितेतरैश्चंचुपादैरन्यतः शुक्लविग्रहाः

2.89.9

तादृशास्ते च नीला वै अन्ये शुभ्रा महामते ।
चतस्रस्तत्र वै नार्यो रौद्राकारा विभीषणाः

2.89.10

दंष्ट्राकरालसंक्रूरा ऊर्ध्वकेश्यो भयानकाः ।
पश्चात्तास्तु समायातास्तस्मिन्सरसि मानसे

2.89.11

कृष्णा हंसास्तु संस्नाता मानसे तात मत्पुरः ।
विभ्रांताः परितश्चान्ये न स्नातास्तत्र मानसे

2.89.12

जहसुस्ताः स्त्रियस्तात हास्यैरट्टाट्टदारुणैः ।
तस्मात्सराद्विनिष्क्रांतो हंस एको महातनुः

2.89.13

पश्चात्त्रयो विनिष्क्रांतास्तैश्चाहं समुपेक्षितः ।
याता आकाशमार्गेण विवदंतः परस्परम्

2.89.14

तास्तु स्त्रियो महाभीमाः समंतात्परिबभ्रमुः ।
विंध्यस्य शिखरे पुण्ये वृक्षच्छायासुपक्षिणः

2.89.15

निषण्णास्तत्र ते सर्वे दग्धा दुःखैः सुदारुणैः ।
तेषां सुवीक्षमाणानां भिल्ल एकः समागतः

2.89.16

मृगान्स पीडयित्वा तु बाणपाणिर्धनुर्द्धरः ।
शिलातलं समाश्रित्य निषसाद सुखेन वै

2.89.17

पश्चाद्भिल्ली समायाता अन्नमादाय सोदकम् ।
स्वं प्रियं वीक्षते राज्ञा मुदितैर्लक्षणैर्युतम्

2.89.18

अन्यादृशं समावीक्ष्य स्वकांतं तेजसावृतम् ।
दिव्यतेजः समाक्रांतं यथा सूर्यं दिविस्थितम्

2.89.19

नरमन्यं परिज्ञाय तं परित्यज्य सा ययौ ।
व्याध उवाच-
एह्येहि त्वं प्रिये चात्र कस्मान्मां त्वं न पश्यसि

2.89.20

क्षुधया पीड्यमानोहं त्वामहं चावलोकये ।
तस्य वाक्यं समाकर्ण्य शीघ्रं व्याधी समागता

2.89.21

भर्तुः पार्श्वं समासाद्य विस्मिता साभवत्तदा ।
कोयं तेजः समाचारो देवोयं मां समाह्वयेत्

2.89.22

तमुवाच ततो व्याधी भर्तारं दीप्ततेजसम् ।
अत्र किं ते कृतं वीर भवान्को दिव्यलक्षणः

2.89.23

सूत उवाच-
एवमाभाषितो व्याध्या व्याधः प्रियामभाषत ।
अहं ते वल्लभः कांते भवती च मम प्रिया

2.89.24

कस्मात्त्वं मां न जानासि कथं शंका प्रवर्तते ।
क्षुधया पीड्यमानेन पयश्चान्नं प्रतीक्ष्यते

2.89.25

व्याध्युवाच-
बर्बरः कृष्णवर्णश्च रक्ताक्षः कृष्णकंचुकः ।
ईदृशश्चास्ति मे भर्ता सर्वसत्वभयंकरः

2.89.26

भवान्को दिव्यदेहस्तु प्रियेत्युक्त्वा समाह्वयेत् ।
एष मे संशयो जातो वद सत्यं ममाग्रतः

2.89.27

कुलं नाम स्वकं ग्रामं क्रीडां लिगं सुतं सुताम् ।
समाचष्ट प्रियाग्रे तु तस्याः प्रत्यय हेतवे

2.89.28

प्रत्युवाच स्वभर्तारं सा व्याधी हृष्टमानसा ।
कस्मात्ते ईदृशः कायः श्वेतकंचुकधारकः

2.89.29

कथं जातः समाचक्ष्व ममाश्चर्यं प्रवर्तते ।
एवं संपृच्छमानस्तु भार्यया मृगघातकः

2.89.30

सूत उवाच-
प्रत्युवाच ततः श्रुत्वा तां प्रियां प्रश्रयान्विताम् ।
नर्मदा उत्तरे कूले संगमश्चास्ति सुव्रते

2.89.31

आतपेनाकुलो जीवो मम जातोति सुप्रिये ।
अस्मिन्वै संगमे कांते श्रमश्रांतो हि सत्वरः

2.89.32

गतः स्नात्वा जलं पीत्वा पश्चाच्चाहं समागतः ।
तदाप्रभृति मे काय ईदृशस्तेजसावृतः

2.89.33

संजातो वस्त्रसंयुक्तः कंचुकः शुभ्रतां गतः ।
पूर्वोक्तलिंगसंस्थानैः कुलैः स्थानेन वै तथा

2.89.34

स्वप्रियं लक्षयित्वा तु ज्ञात्वा पुण्यस्य संभवम् ।
प्रत्युवाचाथ भर्तारं संगमं मम दर्शय

2.89.35

तव पश्चात्प्रदास्यामि भोजनं पानसंयुतम् ।
इत्युक्तः प्रियया व्याधः सत्वरेण जगाम ह

2.89.36

संगमो दर्शितस्तेन ततोग्रे पापनाशनः ।
समुड्डीना महाभाग पक्षिणो लघुविक्रमाः

2.89.37

तया सार्द्धं ययुः सर्वे रेवासंगममुत्तमम् ।
तेषां तु वीक्षमाणानां पक्षिणां मम पश्यतः

2.89.38

तया हि स्नापितो भर्ता पुनः स्नाता हि सा स्वयम् ।
दिव्यदेहधरौ चोभौ दिव्यकांतिसमन्वितौ

2.89.39

संजातौ पक्षिणां श्रेष्ठ दिव्यवस्त्रानुलेपनौ ।
दिव्यमालांबरधरौ दिव्यगंधानुलेपनौ

2.89.40

वैष्णवं यानमासाद्य मुनिगंधर्वपूजितौ ।
गतौ तौ वैष्णवं लोकं वैष्णवैः परिपूजितौ

2.89.41

स्तूयमानौ महात्मानौ दंपती दृष्टवानहम् ।
व्रजंतौ स्वर्गमार्गेण कूजंते पक्षिणस्तथा

2.89.42

तीर्थराजं परं दृष्ट्वा हर्षव्यक्ताक्षरैस्तदा ।
चत्वारः कृष्णहंसास्ते संगमे पापनाशने

2.89.43

स्नात्वा वै भावशुद्धास्ते प्राप्ता उज्ज्वलतां पुनः ।
स्नात्वा पीत्वा जलं ते तु पुनर्बहिर्विनिर्गताः

2.89.44

तावत्यस्ताः स्त्रियः कृष्णा मृतास्तत्स्नानमात्रतः ।
क्रंदमाना विचेष्टंत्यो हाहाकार विकंपिताः

2.89.45

यमलोकं गतास्तास्तु तात दृष्टा मया तदा ।
उड्डीनास्तु ततो हंसाः स्वस्थानं प्रतिजग्मिरे

2.89.46

एवं तात मया दृष्टं प्रत्यक्षं कथितं तव ।
कृष्णपक्षा महाकाया धार्तराष्ट्रास्तु ताः स्त्रियः

2.89.47

कथयस्व प्रसादेन के भविष्यंति वै पितः ।
निर्गतान्मानसान्मध्याद्धार्तराष्ट्रान्वदस्व मे

2.89.48

के भविष्यंति ते तात कथय त्वं तु सांप्रतम् ।
कस्मात्सुकृष्णतां प्राप्ता हंसाः शुद्धाश्च ते पुनः

2.89.49

संजातास्तत्क्षणात्तात कस्मान्मृतास्तु ताः स्त्रियः ।
एवं मे संशयस्तात संजातो दारुणो हृदि

2.89.50

छेत्तुमर्हसि अद्यैव भवाञ्ज्ञानविचक्षणः ।
प्रसादसुमुखो भूत्वा प्रणतस्य सदैव मे

2.89.51

एवं संभाष्य पितरं विरराम समुज्ज्वलः ।
ततः प्रवक्तुमारेभे स शुकः कुंजलाभिधः

2.89.89

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे एकोननवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc