भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.90

2.90.1

सूतौवाच-
एवमाकर्ण्य तत्सर्वं समुज्ज्वलस्य भाषितम् ।
कुंजलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति

2.90.2

कुंजल उवाच-
संप्रवक्ष्याम्यहं तात श्रूयतां स्थिरमानसः ।
सर्वसंदेहविध्वंसं चरित्रं पापनाशनम्

2.90.3

इंद्रलोके प्रववृते संवादो देव कौतुकः ।
सभायां तस्य देवस्य इंद्रस्यापि महात्मनः

2.90.4

देवं द्रष्टुं सहस्राक्षं नारदस्त्वरितं ययौ ।
समागतं सहस्राक्षः सूर्यतेजःसमप्रभम्

2.90.5

तं दृष्ट्वा हर्षमायातः समुत्थाय महामतिः ।
ददावर्घं च पाद्यं च भक्त्या प्रणतमानसः

2.90.6

बद्धांजलिपुटोभूत्वा प्रणाममकरोत्तदा ।
आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम्

2.90.7

पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः ।
कस्माच्चागमनं तेऽद्य कारणं वद सांप्रतम्

2.90.8

इत्युक्तो देवराजेन प्रत्युवाच महामुनिः ।
भवंतं द्रष्टुमायातः पृथिव्यास्तु पुरंदरः

2.90.9

स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया ।
देवान्पितॄन्समभ्यर्च्य दृष्ट्वा तीर्थान्यनेकशः

2.90.10

एतत्ते सर्वमाख्यातं यत्त्वया पृच्छितं पुरा ।
देवेंद्र उवाच-
दृष्टानि पुण्यतीर्थानि सुक्षेत्राणि त्वया मुने

2.90.11

किं तीर्थं प्राप्य मुच्येत ब्रह्मघ्नो ब्रह्महत्यया ।
सुरापोमुच्यतेपापाद्गोघ्नोहेमापहारकः

2.90.12

स्वामिद्रोहान्महाभाग नारीहंता कथं सुखी ।
नारद उवाच-
यानि कानि च तीर्थानि गयादीनि सुरेश्वर

2.90.13

तेषां नैव प्रजानामि विशेषं पापनाशनम् ।
सुपुण्यानि सुदिव्यानि पापघ्नानि समानि च

2.90.14

सर्वाण्येव सुतीर्थानि जानाम्यहं पुरंदर ।
अविशेषं विशेषं वै नैव जानामि सांप्रतम्

2.90.15

प्रत्ययं क्रियतां देव तीर्थानां गतिदायकम् ।
एवमाकर्ण्य तद्वाक्यं नारदस्य महात्मनः

2.90.16

समाहूतानि चेंद्रेण तीर्थानि भूगतानि च ।
मूर्तिवर्तीनि दिव्यानि समायातानि शासनात्

2.90.17

बद्धांजलीनि दिव्यानि भूषितानि सुभूषणैः ।
दिव्यांबराणि स्निग्धानि तेजोवंति च सुव्रत

2.90.18

स्त्रीपुंसोश्च स्वरूपाणि कृतानि च विशेषतः ।
हेमचंदनकाशानि दिव्यरूपधराणि च

2.90.19

मुक्ताफलस्यवर्णेन प्रभासंति नरेश्वर ।
तप्तकांचनवर्णानि सारुण्यानि च तत्र वै

2.90.20

कति शुक्ल सुपीतानि प्रभावंति सभांतरे ।
कानि पद्मनिभान्येव मूर्तिवर्तीनि तानि तु

2.90.21

सूर्यतेजः प्रकाशानि तडित्तेजः समानि च ।
पावकाभानि चान्यानि प्रभासंति सभांतरे

2.90.22

सर्वाभरणशोभाढ्यैः प्रशोभंते नरेश्वर ।
हारकंकणकेयूरमालाभिस्तु सुचंदनैः

2.90.23

दिव्यचंदनदिग्धानि सुरभीणि गुरूणि च ।
कमंडलुकराण्येव आयातानि सभांतरे

2.90.24

गंगा च नर्मदा पुण्या चंद्रभागा सरस्वती ।
देविका बिंबिका कुब्जा कुंजला मंजुला श्रुता

2.90.25

रंभा भानुमती पुण्या पारा चैव सुघर्घरा ।
शोणा च सिंधुसौवीरा कावेरी कपिला तथा

2.90.26

कुमुदा वेदनदी पुण्या सुपुण्या च महेश्वरी ।
चर्मण्वती तथा ख्याता लोपा चान्या सुकौशिकी

2.90.27

सुहंसी हंसपादा च हंसवेगा मनोरथा ।
सुरुथास्वारुणा वेणा भद्र वेणा सुपद्मिनी

2.90.28

नाहलीसुमरी चान्या पुण्या चान्या पुलिंदिका ।
हेमा मनोरथा दिव्या चंद्रिका वेदसंक्रमा

2.90.29

ज्वालाहुताशनी स्वाहा काला चैव कपिंजला ।
स्वधा च सुकला लिंगा गंभीरा भीमवाहिनी

2.90.30

देवद्रीची वीरवाहा लक्षहोमा अघापहा ।
पाराशरी हेमगर्भा सुभद्रा वसुपुत्रिका

2.90.31

एता नद्यो महापुण्या मूर्तिमत्यो नरेश्वर ।
सर्वाभरणशोभाढ्याः कुंभहस्ताः सुपूजिताः

2.90.32

प्रयागः पुष्करश्चैव अर्घदीर्घो मनोरथा ।
वाराणसी महापुण्या ब्रह्महत्या व्यपोहिनी

2.90.33

द्वारावती प्रभासश्च अवंती नैमिषस्तथा ।
चंडकश्च महारत्नो महेश्वरकलेश्वरौ

2.90.34

कलिंजरो ब्रह्मक्षेत्रं माथुरो मानवाहकः ।
मायाकांती तथान्यानि दिव्यानि विविधानि च

2.90.35

अष्टषष्टिः सुतीर्थानि नदीनां शतकोटयः ।
गोदावरीमुखाः सर्वा समायातास्तदाज्ञया

2.90.36

द्वीपानां तु समस्तानि सुतीर्थानि महांति च ।
मूर्तिलिंगधराण्येव सहस्राक्षं सुरेश्वरम्

2.90.37

समाजग्मुः समस्तानि तदादेशकराणि च ।
प्रणेमुर्देवदेवेशं नतशीर्षाणि सर्वशः

2.90.38

सूत उवाच-
तैः प्रोक्तं तु महातीर्थैर्देवराजं यशस्विनम् ।
कस्मात्त्वया समाहूता देवदेव वदस्व नः

2.90.39

ब्रूहि नः कारणं सर्वं नमस्तुभ्यं सुराधिप ।
एवमाकर्ण्य तद्वाक्यं देवराजोभ्यभाषत

2.90.40

कः समर्थो महातीर्थो ब्रह्महत्यां व्यपोहितुम् ।
गोवधाख्यं महापापं स्त्रीवधाख्यमनुत्तमम्

2.90.41

स्वामिद्रोहाच्च संभूतं सुरापानाच्च दारुणम् ।
हेमस्तेयात्तथा जातं गुरुनिंदा समुद्भवम्

2.90.42

भ्रूणहत्यां महाघोरां नाशयेत्कः समर्थवान् ।
राजद्रोहान्महापापं बहुपीडाप्रदायकम्

2.90.43

मित्रद्रोहात्तथा चान्यदन्यद्विश्वासघातकम् ।
देवभेदं तथा चान्यं लिंगभेदमतः परम्

2.90.44

वृत्तिच्छेदं च विप्राणां गोप्रचारप्रणाशनम् ।
आगारदहनं चान्यद्गृहदीपनकं तथा

2.90.45

षोडशैते महापापा अगम्यागमनं तथा ।
स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनात्

2.90.46

एतानि नाशयेत्को वै समर्थस्तीर्थौत्तमः ।
समर्थो भवतां मध्ये प्रायश्चित्तं विना ध्रुवम्

2.90.47

पश्यतां देवतानां च नारदस्य च पश्यतः ।
ब्रुवंतु सर्वे संचिंत्य विचार्यैवं सुनिश्चितम्

2.90.48

एवमुक्ते शुभे वाक्ये देवराज्ञामहात्मना ।
संमंत्र्य तीर्थराजेन प्रोचुः शक्रं सभागतम्

2.90.49

तीर्थान्यूचुः -
श्रूयतामभिधास्यामो देवराज नमोस्तु ते ।
संति वै सर्वतीर्थानि सर्वपापहराणि च

2.90.50

ब्रह्महत्यादिकान्यांश्च त्वया प्रोक्तान्सुरेश्वर ।
महाघोरान्सुदीप्तांश्च नाशितुं नैव शक्नुमः

2.90.51

प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् ।
वाराणसी महाभाग समर्था पापनाशिनी

2.90.52

महापातकनाशार्थे चत्वारोमितविक्रमाः ।
उपपातकनाशार्थं चत्वारोमितविक्रमाः

2.90.53

सृष्टा धात्रा च देवेंद्र पुष्कराद्या महाबलाः ।
एवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराट् ततः

2.90.54

हर्षेण महताविष्टस्तेषां स्तोत्रं चकार सः

2.90.90

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये ।
च्यवनचरित्रे नवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc