भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.88

2.88.1

कुंजल उवाच-
व्रतं स्तोत्रं महाज्ञानं ध्यानं चैव सुपुत्रक ।
मयाख्यातं तवाग्रे वै विष्णोः पापप्रणाशनम्

2.88.2

एवं चतुष्टयं सा हि यदा पुण्यं समाचरेत् ।
प्रयाति वैष्णवं लोकं देवानामपि दुर्लभम्

2.88.3

इतो गत्वा व्रतं वत्स दिव्यां देवीं प्रबोधय ।
अशून्यशयनं नाम व्रतराजं वदस्व ताम्

2.88.4

समुद्धर महापापाद्राजकन्यां यशस्विनीम् ।
त्वया पृष्टं मया ख्यातं पुण्यदं पापनाशनम्

2.88.5

गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सः ।
श्रीविष्णुरुवाच-
उज्ज्वलोप्येवमुक्तस्तु स पित्रा कुंजलेन हि

2.88.6

प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिः ।
जगाम त्वरितो राजन्प्लक्षद्वीपं स उज्ज्वलः

2.88.7

तं गिरिं सर्वतोभद्रं नानाधातुसमाकुलम् ।
नानारत्नमयैस्तुंगैः शिखरैरुपशोभितम्

2.88.8

नानाप्रवाहसंपूर्णैरुदकैरुज्ज्वलैर्नृप ।
नद्यः संति स्वच्छनीरास्तस्मिन्गिरिवरोत्तमे

2.88.9

किन्नरास्तत्र गायंति गंधर्वाः सुस्वरैर्नृप ।
अप्सरोभिः समाकीर्णं देववृंदैरुपावृतम्

2.88.10

सिद्धचारणसंघुष्टं मुनिवृंदैरलंकृतम् ।
नानापक्षिनिनादैश्च सर्वत्र परिनादितम्

2.88.11

एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमः ।
सुस्वरेणापि सा कन्या गिरौ तस्मिन्प्ररोदिति

2.88.12

रोरूयमाणां स प्राज्ञो वचनं चेदमब्रवीत् ।
का त्वं भवसि कल्याणि कस्माद्रोदिषि सांप्रतम्

2.88.13

कमाश्रिता महाभागे केन ते विप्रियं कृतम् ।
समाचक्ष्व ममाद्यैव सर्वदुःखस्य कारणम्

2.88.14

दिव्यादेव्युवाच-
विपाको हि महाभाग कर्मणां मम सांप्रतम् ।
इह तिष्ठामि दुःखेन वैधव्येन समन्विता

2.88.15

भवान्को हि महाभाग कृपया मम पीडितः ।
पक्षिरूपधरो वत्स सोत्सवं परिभाषते

2.88.16

एवमाकर्ण्य तत्सर्वं भाषितं राजकन्यया ।
अहं पक्षी महाभागे कृपया तव पीडितः

2.88.17

पक्षिरूपधरो भद्रे नाहं सिद्धो न ज्ञानवान् ।
रुदमानां महालापैर्भवतीं दृष्टवानिह

2.88.18

ततः पृच्छाम्यहं देवि वद मे कारणं त्विह ।
पितुर्गेहे यथावृत्तमात्मवृत्तांतमेव हि

2.88.19

तया निवेदितं सर्वं यथासंख्येन दुःखदम् ।
समासेन समाकर्ण्य उज्ज्वलस्तु महमनाः

2.88.20

तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम् ।
यथा विवाहकाले ते भर्तारो मरणं गताः

2.88.21

स्वयंवरनिमित्तं ते क्षयं याताश्च क्षत्रियाः ।
एतत्ते चेष्टितं सर्वं मया पितरि भाषितम्

2.88.22

अन्यजन्मकृतंकर्मतव पापं सुलोचने ।
मम पित्रा ममाग्रे तु कृपया परिभाषितम्

2.88.23

तेन दोषेण संपुष्टा लिप्ता जाता वरानने ।
एतावत्कारणं सर्वं तातेन परिभाषितम्

2.88.24

पूर्वकर्मविपाकं तु भुंक्ष्व त्वं च समाश्वस ।
एवं सा भाषितं तस्य श्रुत्वा कन्योज्ज्वलस्य तत्

2.88.25

प्रत्युवाच महात्मानं ब्रुवंतं पक्षिणं पुनः ।
प्रणता दीनया वाचा कुरु पक्षिन्कृपां मम

2.88.26

कथयस्व प्रसादेन तस्य पापस्य निष्कृतिम् ।
प्रायश्चित्तं सुपुण्यं च मम पातकशोधनम्

2.88.27

येन व्रजाम्यहं पुण्यं विशुद्धाधौतकल्मषा ।
प्रायश्चित्तं महाभाग वद मे त्वं प्रसादतः

2.88.28

उज्ज्वल उवाच-
तवार्थं तु महाभागे पितरं पृष्टवानहम् ।
समाख्यातमतः पित्रा प्रायश्चित्तमनुत्तमम्

2.88.29

तत्त्वं कुरु महाभागे सर्वपातकशोधनम् ।
ध्यायस्व हि हृषीकेशं शतनामजपस्व च

2.88.30

भव ज्ञानपरा नित्यं कुरु व्रतमनुत्तमम् ।
अशून्यशयनं पुण्यं व्रतं पापप्रणाशकम्

2.88.31

समाचष्ट स धर्मात्मा सर्वज्ञानप्रकाशकम् ।
ज्ञानं स्तोत्रं व्रतं ध्यानं विष्णोश्चैव महात्मनः

2.88.32

विष्णुरुवाच-
तस्मात्सा हि प्रजग्राह संस्थिता निर्जने वने ।
सर्वद्वंद्वविनिर्मुक्ता संजाता तपसि स्थिता

2.88.33

व्रतं चक्रे जिताहारा निराधारा सुदुःखिता ।
कामक्रोधविहीना सा वर्गं संयम्य नित्यशः

2.88.34

इंद्रियाणां महाराज महामोहं निरस्य सा ।
अब्दे चतुर्थके प्राप्ते सुप्रसन्नो जनार्दनः

2.88.35

तस्यै वरं दातुकामश्चायातो वरनायकः ।
तस्यै संदर्शयामास स्वरूपं वरदः प्रभुः

2.88.36

सूत उवाच-
इंद्रनीलघनश्यामं शंखचक्रगदाधरम् ।
सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम्

2.88.37

बद्धांजलिपुटा भूत्वा वेपमाना निराश्रया ।
उवाच गद्गदैर्वाक्यैः प्रणता मधुसूदनम्

2.88.38

तेजसा तव दिव्येन स्थातुं शक्नोमि नैव हि ।
दिव्यरूपो भवेः कस्त्वं कृपया मम चाग्रतः

2.88.39

कथयस्व प्रसादेन किमत्र तव कारणम् ।
सर्वमेव प्रसादेन प्रब्रवीहि महामते

2.88.40

देवमेवं विजानामि तेजसा इंगितैस्तव ।
ज्ञानहीना जगन्नाथ न जाने रूपनामनी

2.88.41

किं ब्रह्मा वा भवान्विष्णुः किं वा शंकर एव हि ।
एवमुक्त्वा प्रणम्यैवं दंडवद्धरणीं गता

2.88.42

तामुवाच जगन्नाथः प्रणतां राजनंदिनीम् ।
श्रीभगवानुवाच-
त्रयाणामपि देवानामंतरं नास्ति शोभने

2.88.43

ब्रह्मा समर्चितो येन शंकरो वा वरानने ।
तेनाहमर्चितो नित्यं नात्र कार्या विचारणा

2.88.44

एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान् ।
अहं हि पूजितो यैश्च तावेतौ तैः सुपूजितौ

2.88.45

अहं देवो हृषीकेशः कृपया तव चागतः ।
स्तवेनानेन पुण्येन व्रतेन नियमेन च

2.88.46

संजाता कल्मषैर्हीना वरं वरय शोभने ।
दिव्यादेव्युवाच-
विजयस्व हृषीकेश कृष्णक्लेशापहारक

2.88.47

नमामि चरणद्वंद्वं मामुद्धर सुरेश्वर ।
वरं मे दातुकामोऽसि चक्रपाणे प्रसीद मे

2.88.48

आत्मपादयुगस्यापि भक्तिं देहि ममानघ ।
दर्शयस्व जगन्नाथ मोक्षमार्गं निरामयम्

2.88.49

दासत्वं देहि वैकुंठ यदि तुष्टो जनार्दन ।
श्रीभगवानुवाच-
एवमस्तु महाभागे गच्छ निर्धूतकल्मषा

2.88.50

वैष्णवं परमं लोकं दुर्लभं योगिभिः सदा ।
गच्छ गच्छ परं लोकं प्रसादान्मम सांप्रतम्

2.88.51

एवमुक्ते ततो वाक्ये माधवेन महात्मना ।
दिव्यादेवी अभूद्दिव्या सूर्यतेजः समप्रभा

2.88.52

पश्यतां सर्वलोकानां दिव्याभरणभूषिता ।
दिव्यमालान्विता सा च दिव्यहारविलंबिनी

2.88.53

गता सा वैष्णवं लोकं दाहप्रलयवर्जितम् ।
पुनः पक्षी समायातः स्वगृहं हर्षसंयुतः

2.88.54

तत्सर्वं कथयामास पितरं प्रति सत्तमः

2.88.88

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रेऽष्टाशीतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc