भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.86

2.86.1

कुंजल उवाच-
तस्यास्तु चेष्टितं वत्स दिव्या देव्या वदाम्यहम् ।
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु

2.86.2

अस्ति वाराणसी पुण्या नगरी पापनाशिनी ।
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः

2.86.3

वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः ।
तस्य भार्या महाप्राज्ञ चित्रा नाम सुविश्रुता

2.86.4

कुलाचारं परित्यज्य अनाचारेण वर्तते ।
न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते

2.86.5

धर्मपुण्यविहीना तु पापमेव समाचरेत् ।
भर्तारं कुत्सते नित्यं नित्यं च कलहप्रिया

2.86.6

नित्यं परगृहे वासो भ्रमते सा गृहे गृहे ।
परच्छिद्रं समापश्येत्सदा दुष्टा च प्राणिषु

2.86.7

साधुनिंदापरा दुष्टा सदा हास्यकरा च सा ।
अनाचारां महापापां ज्ञात्वा वीरेण निंदिता

2.86.8

स तां त्यक्त्वा महाप्राज्ञ उपयेमे महामतिः ।
अन्य वैश्यस्य वै कन्यां तया सह प्रवर्तते

2.86.9

धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदा ।
निरस्ता तेन सा चित्रा प्रचंडा भ्रमते महीम्

2.86.10

दुष्टानां संगतिं प्राप्ता नराणां पापिनां सदा ।
दूतीकर्म चकाराथ सा तेषां पापनिश्चया

2.86.11

गृहभंगं चकाराथ साधूनां पापकारिणी ।
साध्वीं नारीं समाहूय पापवाक्यैः सुलोभयेत्

2.86.12

धर्मभंगं चकाराथ वाक्यैः प्रत्ययकारकैः ।
साधूनां सा स्त्रियं चित्रा अन्यस्मै प्रतिपादयेत्

2.86.13

एवं गृहशतं भग्नं चित्रया पापनिश्चयात् ।
संग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः

2.86.14

मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रति ।
अकारयच्च संग्रामं यमग्रामविवर्धनम्

2.86.15

एवं गृहशतं भंक्त्वा पश्चात्सा निधनं गता।
शासिता यमराजेन बहुदंडैः सुनंदन

2.86.16

अभोजयत्सुनरकान्रौरवांस्तरणेः सुतः ।
पाचिता रौरवे चित्रा चित्राः पीडाः प्रदर्शिताः

2.86.17

यादृशं क्रियते कर्म तादृशं परिभुज्यते ।
तया गृहशतं भग्नं चित्रया पापनिश्चयात्

2.86.18

तत्तत्कर्मविपाकोऽयं तया भुक्तो द्विजोत्तम ।
यस्माद्गृहशतं भग्नं तस्माद्दुःखं प्रभुंजति

2.86.19

विवाहसमये प्राप्ते दैवं च पाकतां गतम् ।
प्राप्ते विवाहसमये भर्ता मृत्युं प्रयाति च

2.86.20

यथा गृहशतं भग्नं तथा वरशतं मृतम् ।
स्वयंवरे तदा वत्स विवाहे चैकविंशतिः

2.86.21

दिव्या देव्या मया ख्यातं यथा मे पृच्छितं त्वया ।
एतत्ते सर्वमाख्यातं तस्याः पूर्वविचेष्टितम्

2.86.22

उज्ज्वल उवाच-
दिव्या देव्यास्त्वया ख्यातं यत्पूर्वं पूर्वचेष्टितम् ।
तथा पापं कृतं घोरं गृहभंगाख्यमेव च

2.86.23

प्लक्षद्वीपस्य भूपस्य दिवोदासस्य वै सुता ।
केन पुण्यप्रभावेण तया प्राप्तं महाकुलम्

2.86.24

एतन्मे संशयं तात तदेतत्प्रब्रवीतु मे ।
एवं पापसमाचारा कथं जाता नृपात्मजा

2.86.25

कुंजल उवाच-
चित्रायाश्चेष्टितं पुण्यं तत्सर्वं प्रवदाम्यहम् ।
श्रूयतामुज्ज्वल सुत चित्रया यत्कृतं पुरा

2.86.26

भ्रममाणो महाप्राज्ञः कश्चित्सिद्धः समागतः ।
कुचैलो वस्त्रहीनश्च संन्यासी स च दंडधृक्

2.86.27

कौपीनेन समायुक्तः पाणिपात्रो दिगंबरः ।
गृहद्वारं समाश्रित्य चित्रायाः परिसंश्रितः

2.86.28

स मौनी सर्वमुंडस्तु विजितात्मा जितेंद्रियः ।
निराहारो जिताहारः सर्वतत्त्वार्थदर्शकः

2.86.29

दूराध्वानपरिश्रांत आतपाकुलमानसः ।
श्रमेण खिद्यमानश्च तृषाक्रांतः सुपुत्रक

2.86.30

चित्रा द्वारं समाश्रित्य च्छायामाश्रित्य संस्थितः ।
तया दृष्टो महात्मा स चित्रया श्रमपीडितः

2.86.31

सेवां चक्रे च चित्रा सा तस्यैव सुमहात्मनः ।
पादप्रक्षालनं कृत्वा दत्वा आसनमुत्तमम्

2.86.32

आस्यतामासने तात सुखेनापि सुकोमले ।
क्षुधापनोदनार्थं हि भुज्यतामन्नमुत्तमम्

2.86.33

स्वेच्छया परितुष्टश्च शीतलं सलिलं पिब ।
एवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत

2.86.34

अंगसंवाहनं कृत्वा नाशितश्रम एव च ।
तयोक्तो हि महात्मा स भुक्त्वा पीत्वा द्विजोत्तम

2.86.35

एवं संतोषितः सिद्धस्तया तत्त्वार्थदर्शकः ।
संतुष्टः सर्वधर्मात्मा किंचित्कालं स्थिरोभवत्

2.86.36

स्वेच्छया स गतो विप्रो महायोगी यथागतम् ।
गते तस्मिन्महाभागे सिद्धे चैव महात्मनि

2.86.37

सा चित्रा मरणं प्राप्ता स्वकर्मवशमागता ।
शासिता धर्मराजेन महादंडैः सुदुःखदैः

2.86.38

सा चित्रा नरकं प्राप्ता वेदना व्रातदायकम् ।
भुंक्ते दुःखं महाराज सा वै युगसहस्रकम्

2.86.39

भोगांते तु पुनर्जन्म संप्राप्तं मानुषस्य च ।
पूर्वं संपूजितः सिद्धस्तया पुण्यवतां वरः

2.86.40

तस्य कर्मविपाकोयं प्राप्ता पुण्यवतां कुले ।
क्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे

2.86.41

दिव्यादेवी च तन्नाम जातं तस्या नरोत्तम ।
सा हि दत्तवती चान्नं पानं पुण्यं महात्मने

2.86.42

तस्य दानस्य सा भुंक्ते महत्पुण्यफलोदयम् ।
पिबते शीतलं तोयं मिष्टान्नं च भुनक्ति वै

2.86.43

दिव्यान्भोगान्प्रभुंजाना वर्तते पितृमंदिरे ।
सिद्धस्यास्य प्रभावाच्च राजकन्या व्यजायत

2.86.44

पापकर्मप्रभावाच्च गृहभंगान्महीपते ।
विधवात्वं भुंजते सा दिव्यादेवी सुपुत्रक

2.86.45

एतत्ते सर्वमाख्यातं दिव्यादेव्या विचेष्टितम् ।
अन्यत्किन्ते प्रवक्ष्यामि यत्त्वं पृच्छसि मामिह

2.86.46

उज्ज्वल उवाच-
कथं सा मुच्यते शोकान्महादुःखाद्वदस्व मे ।
सास्याच्च कीदृशी बाला महादुःखेन पीडिता

2.86.47

तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यति ।
एतन्मे संशयं तात सांप्रतं छेत्तुमर्हसि

2.86.48

कथं सा लभते मोक्षं तंचोपायं वदस्व मे ।
एकाकिनी महाभागा महारण्ये प्ररोदिति

2.86.49

विष्णुरुवाच-
पुत्रवाक्यं महच्छ्रुत्वा क्षणमेकं विचिंत्य सः ।
प्रत्युवाच महाप्राज्ञः कुंजलः पुत्रकं प्रति

2.86.50

शृणु वत्स महाभाग सत्यमेतद्वदाम्यहम् ।
पापयोनिं तु संप्राप्य पूर्वकर्मसमुद्भवाम्

2.86.51

तिर्यक्त्वेन च मे ज्ञानं नष्टं संप्रति पुत्रक ।
अस्य वृक्षस्य संगाच्च प्रयतस्य महात्मनः

2.86.52

रेवायाश्च प्रसादेन विष्णोश्चैव प्रसादतः ।
येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते

2.86.53

उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम् ।
यास्यते कल्मषान्मुक्ता यथा हेम हुताशनात्

2.86.54

शुद्धं च जायते वत्स संगाद्वह्नेः स्वरूपवत् ।
हरेर्ध्यानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः

2.86.55

जपहोमव्रतात्पापं नाशं याति हि पापिनाम् ।
मदं त्यजेद्यथा नागो भयात्सिंहस्य सर्वदा

2.86.56

नामोच्चारेण कृष्णस्य तत्प्रयाति हि किल्बिषम् ।
तेजसा वैनतेयस्य विषहीना इवोरगाः

2.86.57

ब्रह्महत्यादिकाः पापाः प्रलयं यांति नान्यथा ।
नामोच्चारेण तस्यापि चक्रपाणेः प्रयांति ते

2.86.58

यदा नामशतं पुण्यमघराशिविनाशनम् ।
सा जपेत स्थिरा भूत्वा कामक्रोधविवर्जिता

2.86.59

सर्वेंद्रियाणि संयम्य आत्मज्ञानेन गोपयेत् ।
तस्य ध्यानप्रविष्टा सा एकभूता समाहिता

2.86.60

सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति च ।
तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत्

2.86.61

उज्ज्वल उवाच-
वद तात परं ज्ञानं परमं मम सांप्रतम् ।
पश्चाद्ध्यान व्रतं पुण्यं नाम्नां शतमिहैव च

2.86.62

कुंजल उवाच-
परं ज्ञानं प्रवक्ष्यामि यन्न दृष्टं तु केनचित् ।
श्रूयतां पुत्र कैवल्यं केवलं मलवर्जितम्

2.86.63

सूत उवाच-
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः।
प्रज्वलन्नाशयेत्सर्वमंधकारं महामते

2.86.64

तद्वद्दोषविहीनात्मा भवत्येव निराश्रयः ।
निराशो निर्मलो वत्स न मित्रं न रिपुः कदा

2.86.65

न शोको न च हर्षश्च न लोभो न च मत्सरः ।
एको विषादहर्षैश्च सुखदुःखैर्विमुच्यते

2.86.66

विषयैश्चापि सर्वैश्च इंद्रियाणि स संहरेत् ।
तदा स केवलो जातः केवलत्वं प्रजायते

2.86.67

अग्निकर्मप्रसंगेन दीपस्तैलं प्रशोषयेत् ।
वर्त्याधारेण राजेंद्र निःसंगो वायुवर्जितः

2.86.68

कज्जलं वमते पश्चात्तैलस्यापि महामते ।
कृष्णासौ दृश्यते रेखा दीपस्याग्रे महामते

2.86.69

स्वयमाकृष्यते तैलं तेजसा निर्मलो भवेत् ।
कायवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत्

2.86.70

विषयान्कज्जलीकृत्य प्रत्यक्षं संप्रदर्शयेत् ।
जनयेन्निर्मलोभूत्वा स्वयमेव प्रकाशयेत्

2.86.71

क्रोधादिभिः क्लेशसंज्ञैर्वायुभिः परिवर्जितः ।
निःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत्

2.86.72

त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थः स्वतेजसा ।
केवलज्ञानरूपोऽयं मया ते परिकीर्तितः

2.86.73

ध्यानं तस्य प्रवक्ष्यामि द्विविधं तस्य चक्रिणः ।
केवलज्ञानरूपेण दृश्यते ज्ञानचक्षुषा

2.86.74

योगयुक्ता महात्मानः परमार्थपरायणाः ।
यं पश्यंति विनिद्रास्तु यत्तपः सर्वदर्शकम्

2.86.75

हस्तपादविहीनं च सर्वत्र परिगच्छति ।
सर्वं गृह्णाति त्रैलोक्यं स्थावरं जंगमं सुत

2.86.76

नासामुखविहीनस्तु घ्राति जक्षिति पुत्रक ।
अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः

2.86.77

अरूपो रूपसंबद्धः पंचवर्गवशंगतः ।
सर्वलोकस्य यः प्राणः पूजितः स चराचरैः

2.86.78

अजिह्वो वदते सर्वं वेदशास्त्रानुगं सुत ।
अत्वचः स्पर्शनं चापि सर्वेषामेव जायते

2.86.79

सदानंदो विरक्तात्मा एकरूपो निराश्रयः ।
निर्जरो निर्ममो न्यायी सगुणो निर्ममोमलः

2.86.80

अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः ।
तस्य धाता न चैवास्ति स वै सर्वमयो विभुः

2.86.81

एवं सर्वमयं ध्यानं पश्यते यो महात्मनः ।
स याति परमं स्थानममूर्तममृतोपमम्

2.86.82

द्वितीयं तु प्रवक्ष्यामि अस्य ध्यानं महात्मनः ।
मूर्ताकारं तु साकारं निराकारं निरामयम्

2.86.83

ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना ।
स तस्माद्वासुदेवेति उच्यते मम नंदन

2.86.84

वर्षमाणस्य मेघस्य यद्वर्णं तस्य तद्भवेत् ।
सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम्

2.86.85

दक्षिणे शोभते शंखो हेमरत्नविभूषितः ।
सूर्यबिंबसमाकारं चक्रं पद्मप्रतिष्ठितम्

2.86.86

कौमोदकी गदा तस्य महासुरविनाशिनी ।
वामे च शोभते वत्स हस्ते तस्य महात्मनः

2.86.87

महापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम् ।
शोभमानः सदैवास्ते सायुधः कमलाप्रियः

2.86.88

कंबुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम् ।
राजमानं हृषीकेशं दशनै रत्नसन्निभैः

2.86.89

गुडाकेशाः सन्ति यस्य अधरो विद्रुमाकृतिः ।
शोभते पुंडरीकाक्षः किरीटेनापि पुत्रक

2.86.90

विशालेनापि रूपेण केशवस्तु सुवर्चसा ।
कौस्तुभेनांकितेनैव राजमानो जनार्दनः

2.86.91

सूर्यतेजः प्रतीकाश कुंडलाभ्यां प्रभाति च ।
श्रीवत्सांकेन पुण्येन सर्वदा राजते हरिः

2.86.92

केयूरकंकणैर्हारैर्मौक्तिकैरृक्षसन्निभैः ।
वपुषा भ्राजमानस्तु विजयो जयतां वरः

2.86.93

भ्राजते सोपि गोविंदो हेमवर्णेन वाससा ।
मुद्रिकारत्नयुक्ताभिरंगुलीभिर्विराजते

2.86.94

सर्वायुधैः सुसंपूर्णैर्दिव्यैराभरणैर्हरिः ।
वैनतेयसमारूढो लोककर्ता जगत्पतिः

2.86.95

एवंतं ध्यायते नित्यमनन्यमनसा नरः ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति

2.86.96

एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पतेः ।
व्रतं चैव प्रवक्ष्यामि सर्वपापनिवारणम्

2.86.86

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने षडशीतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc