भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.71

2.71.1

ययातिरुवाच-
यत्त्वया सर्वमाख्यातं धर्माधर्ममनुत्तमम् ।
शृण्वतोऽथ मम श्रद्धा पुनरेव प्रवर्तते

2.71.2

देवानां लोकसंस्थानां वद संख्याः प्रकीर्तिताः ।
यस्य पुण्यप्रसंगेन येन प्राप्तं च मातले

2.71.3

मातलिरुवाच-
योगयुक्तं प्रवक्ष्यामि तपसा यदुपार्जितम् ।
देवानां लोकसंस्थानं सुखभोगप्रदायकम्

2.71.4

धर्मभावं प्रवक्ष्यामि आयासैरर्जितं पृथक् ।
उपरिष्टाच्च लोकानां स्वरूपं चाप्यनुक्रमात्

2.71.5

तत्राष्टगुणमैश्वर्यं पार्थिवं पिशिताशिनाम् ।
तस्मात्सद्यो गतानां च नराणां तत्समं स्मृतम्

2.71.6

रक्षसां षोडशगुणं पार्थिवानां च तद्विधम् ।
एवं निरवशेषं च यच्छेषं कुलतेजसाम्

2.71.7

गंधर्वाणां च वायव्यं याक्षं च सकलं स्मृतम् ।
पांचभौतिकमिंद्रस्य चत्वारिंशद्गुणं महत्

2.71.8

सोमस्य मानसं दिव्यं विश्वेशं पांचभौतिकम् ।
सौम्यं प्रजापतीशानामहंकारगुणाधिकम्

2.71.9

चतुष्षष्टिगुणं ब्राह्मं बौधमैश्वर्यमुत्तमम् ।
विष्णोः प्राधानिकं तंत्रमैश्वर्यं ब्रह्मणः पदम्

2.71.10

श्रीमच्छिवपुरे दिव्ये ऐश्वर्यं सर्वकामिकम् ।
अनंतगुणमैश्वर्यं शिवस्यात्मगुणं महत्

2.71.11

आदिमध्यांतरहितं विशुद्धं तत्त्वलक्षणम् ।
सर्वावभासकं सूक्ष्ममनौपम्यं परात्परम्

2.71.12

सुसंपूर्णं जगद्वेषं पशुपाशाविमोक्षणम् ।
यो यत्स्थानमनुप्राप्तस्तस्य भोगस्तदात्मकः

2.71.13

विमानं तत्समानं च भवेदीशप्रसादतः ।
नानारूपाणि ताराणां दृश्यंते कोटयस्त्विमा

2.71.14

अष्टविंशतिरेवं ते संदीप्ताः सुकृतात्मनाम् ।
ये कुर्वंति नमस्कारमीश्वराय क्वचित्क्वचित्

2.71.15

संपर्कात्कौतुकाल्लोभात्तद्विमानं लभंति ते ।
नामसंकीर्तनाद्वापि प्रसंगेन शिवस्य यः

2.71.16

कुर्याद्वापि नमस्कारं न तस्य विलयो भवेत् ।
इत्येता गतयस्तत्र महत्यः शिवकर्मणि

2.71.17

कर्मणाभ्यंतरेणापि पुंसामीशानभावतः ।
प्रसंगेनापि ये कुर्युः शंकरस्मरणं नराः

2.71.18

तैर्लभ्यं त्वतुलं सौख्यं किं पुनस्तत्परायणैः ।
विष्णुचिंतां प्रकुर्वंति ध्यानेन गतमानसाः

2.71.19

ते यांति परमं स्थानं तद्विष्णोः परमं पदम् ।
शैवं च वैष्णवं रूपमेकरूपं नरोत्तम

2.71.20

द्वयोश्च अंतरं नास्ति एकरूपमहात्मनोः ।
शिवाय विष्णुरूपाय शिवरूपाय विष्णवे

2.71.21

शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः ।
एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः

2.71.22

त्रयाणामंतरं नास्ति गुणभेदाः प्रकीर्तिताः ।
शिवभक्तोसि राजेंद्र तथा भागवतोसि वै

2.71.23

तेन देवाः प्रसन्नास्ते ब्रह्मविष्णुमहेश्वराः ।
सुप्रीता वरदा राजन्कर्मणस्तव सुव्रत

2.71.24

इंद्रादेशात्समायातः सन्निधौ तव मानद ।
ऐंद्रमेनं पदं याहि पश्चाद्ब्राह्मं महेश्वरम्

2.71.25

वैष्णवं च प्रयाहि त्वं दाहप्रलयवर्जितम् ।
अनेनापि विमानेन दिव्येन सर्वगामिना

2.71.26

दिव्यमूर्तिरतो भुंक्ष्व दिव्यभोगान्मनोरमान् ।
समारुह्य विमानं त्वं पुष्पकं सुखगामिनम्

2.71.27

सुकर्मोवाच-
एवमुक्त्वा द्विजश्रेष्ठ मौनवान्मातलिस्तदा ।
राजानं धर्मतत्त्वज्ञं ययातिं नहुषात्मजम्

2.71.71

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकसप्ततितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc