भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.70

2.70.1

मातलिरुवाच-
यमपीडां प्रवक्ष्यामि महातीव्रां सुदारुणाम् ।
भुंजंति पापिनः सर्वे क्रूरास्ते ब्रह्मघातकाः

2.70.2

क्वचित्पापाः प्रपच्यंते तीव्रेण करिषाग्निना ।
क्वचित्सिंहैर्वृकैर्व्याघ्रैर्दंशैः कीटैश्च दारुणैः

2.70.3

क्वचिन्महाजलौकोभिः क्वचिदाजगरैः पुनः ।
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः

2.70.4

मत्तमातंगयूथैश्च बलोत्कृष्टैः प्रमाथिभिः ।
पंथानमुल्लिखद्भिश्च तीक्ष्णशृंगमहावृषैः

2.70.5

महाशृंगैश्च महिषैर्दुष्टगात्रप्रबाधकैः ।
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः

2.70.6

व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति ते ।
महातुलां समारूढा दह्यमाना दवानले

2.70.7

महावेगप्रधूतास्ते महाचंडेन वायुना ।
महापाषाणवर्षेण भिद्यमानाश्च सर्वतः

2.70.8

पतद्भिर्वज्रनिर्घोषैरुल्कापातैश्च दारुणैः ।
प्रदीप्तांगारवर्षेण हन्यमाना व्रजंति ते

2.70.9

महता पांसुवर्षेण पूर्यमाणा यमं गताः ।
ये नराः पापकर्माणः पापं भुंजंति दारुणम्

2.70.10

एवं पापविशेषेण पापिष्ठाः पापकारकाः ।
नरकं प्रतिभुंजंति बहुपीडासमाकुलम्

2.70.11

एतत्ते सर्वमाख्यातं विवेकं पुण्यपापयोः ।
अन्यत्किं ते प्रवक्ष्यामि धर्मशास्त्रमनुत्तमम्

2.70.70

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरिते सप्ततितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc