भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.68

2.68.1

ययातिरुवाच-
अधर्मस्य फलं सूत श्रुतं सर्वं मया विभो ।
धर्मस्यापि फलं ब्रूहि श्रोतुं कौतूहलं मम

2.68.2

मातलिरुवाच-
अथ पापैरिमे यांति यमलोकं चतुर्विधाः ।
संत्रासजननं घोरं विवशाः सर्वदेहिनः

2.68.3

गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।
पुंस्त्रीनपुंसकैर्वृद्धैर्यातव्यं जंतुभिस्ततः

2.68.4

शुभाशुभफलं तत्र देहिनां प्रविचार्यते ।
चित्रगुप्तादिभिः सर्वैर्मध्यस्थैः सर्वदर्शिभिः

2.68.5

न तेत्र प्राणिनः संति ये न यांति यमक्षयम् ।
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचारितम्

2.68.6

ये तत्र शुभकर्माणः सौम्यचित्तादयान्विताः ।
ते नरा यांति सौम्येन पथा यमनिकेतनम्

2.68.7

यः प्रदद्याच्च विप्राणामुपानत्काष्ठपादुके ।
स विमानेन महता सुखं याति यमालयम्

2.68.8

छत्रदानेन गच्छंति पथा साभ्रेण देहिनः ।
दिव्यवस्त्रपरीधाना यांति वस्त्रप्रदायिनः

2.68.9

शिबिकायाः प्रदानेन विमानेन सुखं व्रजेत् ।
सुखासनप्रदानेन सुखं यांति यमालयम्

2.68.10

आरामकर्ता छायासु शीतलासु सुखं व्रजेत् ।
यांति पुष्पकयानेन पुष्पारामप्रदायिनः

2.68.11

देवायतनकर्ता च यतीनामाश्रमस्य च ।
अनाथमंडपानां च क्रीडन्याति गृहोत्तमैः

2.68.12

देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकः

2.68.13

विप्रेषु दीनेषु गुणान्वितेषु यच्छ्रद्धया स्वल्पमपि प्रदत्तम् ।
तत्सर्वकामान्समुपैति लोके श्राद्धे च दानं प्रवदंति संतः

2.68.14

श्रद्धादानेन विज्ञेयमपि वालाग्रमात्रकम् ।
यत्पात्रादि चतुष्टयं श्रद्धा तेषु सदा मम

2.68.15

श्रद्धीयते सदा तस्माच्छ्रद्धायास्तत्फलं भवेत् ।
गुणान्वितेषु दीनेषु यच्छत्यावसथान्यपि

2.68.16

स प्रयाति सर्वकामं स्थानं पैतामहं नृप ।
श्रद्धयायेन विप्राय दत्तं काकिणिमात्रकम्

2.68.17

सस्याद्दिव्यतिथिर्भूप देवानां कीर्तिवर्धनः ।
तस्माच्छ्रद्धान्वितैर्देयं तत्फलं भवति ध्रुवम्

2.68.68

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरित्रेऽष्टषष्टितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc