भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.64

2.64.1

।
पिप्पलौवाच-
पितुःप्रसादभावाद्वै यदुना सुखमुत्तमम् ।
कथं प्राप्तं सुभुक्तं च तन्मे विस्तरतो वद

2.64.2

कस्मात्पापप्रभावं च रुरुर्भुंक्ते द्विजोत्तम ।
सकलं विस्तरेणापि वद मे कुंडलात्मज

2.64.3

सुकर्मोवाच-
श्रूयतामभिधास्यामि चरित्रं पापनाशनम् ।
नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः

2.64.4

सोमवंशात्प्रभूतो हि नहुषो मेदिनीपतिः ।
दानधर्माननेकांश्च चका रह्यतुलानपि

2.64.5

मखानामश्वमेधानामियाज शतमुत्तमम् ।
वाजपेयशतं चापि अन्यान्यज्ञाननेकधा

2.64.6

आत्मनः पुण्यभावेन इंद्रलोकमवाप सः ।
पुत्रं धर्मगुणोपेतं प्रजापालं चकार सः

2.64.7

ययातिं सत्यसंपन्नं धर्मवीर्यं महामतिम् ।
एंद्रं पदं गतो राजा तस्य पुत्रः पदे स्वके

2.64.8

ययातिः सत्यसंपन्नः प्रजा धर्मेण पालयेत् ।
स्वयमेव प्रपश्येत्स प्रजाकर्माणि तान्यपि

2.64.9

याजयामास धर्मज्ञः श्रुत्वा धर्ममनुत्तमम् ।
यज्ञतीर्थादिकं सर्वं दानपुण्यं चकार सः

2.64.10

राज्यं चकार मेधावी सत्यधर्मेण वै तदा ।
यावदशीतिसहस्राणि वर्षाणां नृपनंदनः

2.64.11

तावत्कालं गतं तस्य ययातेस्तु महात्मनः ।
तस्य पुत्राश्च चत्वारस्तद्वीर्यबलविक्रमाः

2.64.12

तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसः ।
तस्यासीज्ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलः

2.64.13

पुरुर्नाम द्वितीयोऽभूत्कुरुश्चान्यस्तृतीयकः ।
यदुर्नाम स धर्मात्मा चतुर्थो नृपतेः सुतः

2.64.14

एवं चत्वारः पुत्राश्च ययातेस्तु महात्मनः ।
तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः

2.64.15

एवं राज्यं कृतं तेन धर्मेणापि ययातिना ।
तस्य कीर्तिर्यशो भावस्त्रैलोक्ये प्रचुरोभवत्

2.64.16

विष्णुरुवाच-
एकदा तु द्विजश्रेष्ठो नारदो ब्रह्मनंदनः ।
एंद्रं लोकं गतो राजन्द्रष्टुं चैव पुरंदरम्

2.64.17

सहस्राक्षस्ततोपश्यद्धुताशनसमप्रभम् ।
देवो विप्रं समायांतं सर्वज्ञं ज्ञानपंडितम्

2.64.18

पूजितं मधुपर्काद्यैर्भक्त्या नमितकंधरः ।
निवेश्य चासने पुण्ये पप्रच्छ मुनिपुंगवम्

2.64.19

इंद्र उवाच-
कस्मादागमनं तेद्य किमर्थमिह चागतः ।
किं ते हि सुप्रियं विप्र करोम्यद्य महामुने

2.64.20

नारद उवाच-
देवराज कृतं सर्वं भक्त्या यच्च प्रभाषितम् ।
संतुष्टोस्मि महाप्राज्ञ प्रश्नोत्तरं वदाम्यहम्

2.64.21

महीलोकात्सुसंप्राप्तः सांप्रतं तव मंदिरम् ।
त्वामन्वेष्टुं समायातो दृष्ट्वा नाहुषमेव च

2.64.22

इंद्र उवाच-
सत्यधर्मेण को राजा प्रजाः पालयते सदा ।
सर्वधर्मसमायुक्तः श्रुतवाञ्ज्ञानवान्गुणी

2.64.23

पृथिव्यामस्ति को राजा वेदज्ञो ब्राह्मणप्रियः ।
ब्रह्मण्यो वेदविच्छूरो यज्वा दाता सुभक्तिमान्

2.64.24

नारद उवाच-
एभिर्गुणैस्तु संयुक्तो नहुषस्यात्मजो बली ।
यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः

2.64.25

भवादृशो हि भूर्लोके ययातिर्नहुषात्मजः ।
भवान्स्वर्गे स चैवास्ति भूतले भूतिवर्धनः

2.64.26

पितुः श्रेष्ठो महाराज ह्यश्वमेधशतं तथा ।
वाजपेयशतं चक्रे ययातिः पृथिवीपतिः

2.64.27

दत्तान्यनेकरूपाणि दानानि तेन भक्तितः ।
गवां लक्षसहस्राणि गवां कोटिशतानि च

2.64.28

कोटिहोमांश्चकाराथ लक्षहोमांस्तथैव च ।
भूमिदानादि दानानि ब्राह्मणेभ्योददाच्च यः

2.64.29

सर्वं येन स्वरूपं हि धर्मस्य परिपालितम् ।
एवं गुणैः समायुक्तो ययातिर्नहुषात्मजः

2.64.30

वर्षाणां तु सहस्राणि अशीतिर्नृपसत्तमः ।
राज्यं चकार सत्येन यथा दिवि भवानिह

2.64.31

सुकर्मोवाच-
एवमाकर्ण्य देवेंद्रो नारदात्स मुनीश्वरात् ।
समालोच्य स मेधावी संभीतो धर्मपालनात्

2.64.32

शतयज्ञप्रभावेण नहुषो हि पुरा मम ।
एंद्रं पदं गतो वीरो देवराजोभवत्पुरा

2.64.33

शची बुद्धिप्रभावेण पदभ्रष्टो व्यजायत ।
तादृशोयं महाराजः पितुस्तुल्यपराक्रमः

2.64.34

प्राप्स्यते नात्र संदेहः पदमैंद्रं न संशयः ।
येन केनाप्युपायेन तं भूपं दिवमानये

2.64.35

इत्येवं चिंतयामास तस्माद्भीतः सुरेश्वरः ।
भूपालस्य नृपश्रेष्ठ ययातेः सुमहद्भयात्

2.64.36

तमानेतुं ततो दूतं प्रेषयामास देवराट् ।
नहुषस्य विमानं तु सर्वकामसमन्वितम्

2.64.37

सारथिं मातलिं नाम विमानेन समन्वितम् ।
गतो हि मातलिस्तत्र यत्रास्ते नहुषात्मजः

2.64.38

प्रहितः सुरराजेन समानेतुं महामतिम् ।
सभायां वर्त्तमानस्तु यथा इंद्र प्रःशोभते

2.64.39

तथा ययातिर्धर्मात्मा स्वसभायां विराजते ।
तमुवाच महात्मानं राजानं सत्यभूषणम्

2.64.40

सारथिर्देवराजस्य शृणु राजन्वचो मम ।
प्रहितो देवराजेन सकाशं तव सांप्रतम्

2.64.41

यद्ब्रूते देवराजस्तु तत्सर्वं सुमनाः कुरु ।
आगंतव्यं त्वया देव एंद्रं लोकं हि नान्यथा

2.64.42

पुत्रे राज्यं विसृज्यैव कृत्वा चांतेष्टिमुत्तमाम् ।
इलो राजा महातेजा वसते नहुषात्मज

2.64.43

पुरूरवा महावीर्यो विप्रचित्तिर्महामनाः ।
शिबिर्वसति तत्रैव मनुरिक्ष्वाकु भूपतिः

2.64.44

सगरो नाम मेधावी नहुषश्च पिता तव ।
ऋतवीर्यः कृतज्ञश्च शंतनुश्च महामनाः

2.64.45

भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः ।
यज्ञानाहृत्य बहुधा मोदंते दिवि भूभृतः

2.64.46

अन्ये चैव तु राजानो यज्ञकर्मसु तत्पराः ।
सर्वे ते दिवि चेंद्रेण मोदंते स्वेन कर्मणा

2.64.47

त्वं पुनः सर्वधर्मज्ञः सर्वधर्मेषु संस्थितः ।
शक्रेण सह मोदस्व स्वर्गलोके महीपते

2.64.48

ययातिरुवाच-
किं मया तत्कृतं कर्म येन मय्यर्थिता तव ।
इंद्रस्य देवराजस्य तत्सर्वं मे वदस्व च

2.64.49

मातलिरुवाच- [ह्त्त्प्:॥www.अन्गेल्fइरे.चोम्।इन्4।वेदस्तुद्य्।पुर्_इन्देx23।मतलि.ह्त्म् मातलि उपरि टिप्पणी]
यदशीतिसहस्राणि वर्षाणां हि त्वया नृप ।
दानपुण्यादिकं कर्म यज्ञैस्तु परिसाधितम्

2.64.50

दिवं गच्छ महाराज कर्मणा स्वेन भूपते ।
सखित्वं देवराजेन कुरु गच्छ सुरालयम्

2.64.51

पंचात्मकं शरीरं च भूमौ त्यज महामते ।
दिव्यरूपं समास्थाय भुंक्ष्व भोगान्मनोनुगान्

2.64.52

यथायथा कृता भूमौ यज्ञा दानं तपश्च ते ।
तथातथा स्वर्गभोगाः प्रार्थयंते नरेश्वर

2.64.53

ययातिरुवाच-
येन कायेन सिध्येत सुकृतं दुष्कृतं भुवि ।
मातले तत्कथं त्यक्त्वा गच्छेल्लोकमुपार्जितम्

2.64.54

मातलिरुवाच-
यत्रैवोपार्जितं कायं पंचात्मकमिदं नृप ।
तत्तत्रैव परित्यज्य दिव्येनैव व्रजंति तम्

2.64.55

इतरे मानवाः सर्वे पापपुण्यप्रसाधकाः ।
तेऽपि कायं परित्यज्य अधऊर्ध्वं व्रजंति वै

2.64.56

ययातिरुवाच-
पंचात्मकेन कायेन सुकृतं दुष्कृतं नराः ।
उत्पाद्यैव प्रयांत्येव अधऊर्ध्वं तु मातले

2.64.57

को विशेषो हि धर्मज्ञ भूमौ कायं परित्यजेत् ।
पापपुण्यप्रभावाद्वै कायस्य पतनं भवेत्

2.64.58

दृष्टांतो दृश्यते सूत प्रत्यक्षं मर्त्यमंडले ।
विशेषं नैव पश्यामि पापपुण्यस्य चाधिकम्

2.64.59

सत्यधर्मादिकं कर्म येन कायेन मानवः ।
समर्जयति वै मर्त्यस्तं कस्माद्विप्रसर्जयेत्

2.64.60

आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि ।
कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितः

2.64.61

मातलिरुवाच-
सत्यमुक्तं त्वया राजन्कायं त्यक्त्वा प्रयाति सः ।
संबंधो नास्ति तेनापि समं कायेन चात्मनः

2.64.62

यस्मात्पंचत्वरूपोऽयं संधिजर्जरितः सदा ।
जरया पीड्यमानस्तु व्याधिभिर्दूषितः सदा

2.64.63

जरादोषैः प्रभग्नोऽसौ अत्र स्थातुं स नेच्छति ।
आकुलव्याकुलो भूत्वा जीवस्त्यक्त्वा प्रयाति सः

2.64.64

सत्येन धर्मपुण्यैश्च दानैर्नियमसंयमैः ।
अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा

2.64.65

सुपुण्यैः सुकृतैश्चान्यैर्जरा नैव प्रधार्यते ।
पातकैश्च महाराज द्रवते कायमेव सा

2.64.66

ययातिरुवाच-
कस्माज्जरा समुत्पन्ना कस्मात्कायं प्रपीडयेत् ।
मम विस्तरतस्त्वं च वक्तुमर्हसि सत्तम

2.64.67

मातलिरुवाच-
हंत ते वर्णयिष्यामि जरायाः परिकारणम् ।
यस्माच्चेयं समुद्भूता कायमध्ये नृपोत्तम

2.64.68

पंचभूतात्मकः कायो विषयैः पंचभिः श्रितः ।
यदात्मा त्यजते राजन्स कायः परिधक्ष्यते

2.64.69

वह्निना दीप्यमानस्तु सरसो ज्वलते नृप ।
तस्माद्विजायते धूमो धूमान्मेघाश्च जज्ञिरे

2.64.70

मेघादापः प्रवर्तंते अद्भ्यः पृथ्वी प्रकल्पते ।
जलमायाति साध्वी सा यथा नारी रजस्वला

2.64.71

तस्मात्प्रजायते गंधो गंधाद्रसो नृपोत्तम ।
रसात्प्रभवते चान्नमन्नाच्छुक्रं न संशयः

2.64.72

शुक्राद्धि जायते कायः कुरूपः काय एव च ।
यथा पृथ्वी सृजेद्गंधान्रसैश्चरति भूतले

2.64.73

तथा कायश्चरेन्नित्यं रसाधारो हि सर्वशः ।
गंधश्च जायते तस्माद्गंधाद्रसो भवेत्पुनः

2.64.74

तस्माज्जज्ञे महावह्निर्दृष्टांतं पश्य भूपते ।
यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत्

2.64.75

कायमध्ये रसादग्निस्तद्वदेव प्रजायते ।
तत्र संचरते नित्यं कायं पुष्णाति भूपते

2.64.76

यावद्रसस्य चाधिक्यं तावज्जीवः प्रशांतिमान् ।
चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते

2.64.77

अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम् ।
प्रदानं लभते चान्नमुदकं चापि भूपते

2.64.78

शोणितं चरते वह्निस्तद्वद्वीर्यं न संशयः ।
यक्ष्मरोगो भवेत्तस्मात्सर्वकायप्रणाशकः

2.64.79

रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति ।
रसेन पीड्यमानस्तु ज्वररूपोभिजायते

2.64.80

ग्रीवा पृष्ठं कटिं पायुं सर्वास्वेव तु संधिषु ।
आरुध्य तिष्ठते वह्निः काये वह्निः प्रवर्तते

2.64.81

तस्याऽधिक्यं चरेन्नित्यं कायं पुष्णाति सर्वतः ।
रसस्तु बंधमायाति बलरूपो भवेत्तदा

2.64.82

अतिरिक्तो बलेनैव वीर्यान्मर्माणि चालयेत् ।
तेनैव जायते कामः शल्यरूपो भवेन्नृप

2.64.83

सकामाग्निः समाख्यातो बलनाशकरो नृप ।
मैथुनस्य प्रसंगेन विनाशत्वं कलेवरे

2.64.84

नारीं च संश्रयेत्प्राणी पीडितः कामवह्निना ।
मैथुनस्य प्रसंगेन मूर्छितः कामकर्शितः

2.64.85

तेजोहीनो भवेत्कायो बलहानिश्च जायते ।
बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः

2.64.86

स वह्निः प्रचरेत्काये शोणितं शुक्रमेव च ।
शुक्रशोणितयोर्नाशाच्छून्यदेहोभिजायते

2.64.87

अतीव जायते वायुः प्रचंडो दारुणाकृतिः ।
विवर्णो दुःखसंतप्तः शून्यबुद्धिस्ततो भवेत्

2.64.88

दृष्टा श्रुता तु या नारी तच्चित्तो भ्रमते सदा ।
तृप्तिर्न जायते काये लोलुपे चित्तवर्त्मनि

2.64.89

विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते ।
बलहीनो यदा कामी मांसशोणितसंक्षयात्

2.64.90

पलितं जायते काये नाशिते कामवह्निना ।
तस्मात्संजायते कामी वृद्धो भूत्वा दिनेदिने

2.64.91

सुरते चिंतते नारीं यथा वार्द्धुषिको नरः ।
तथातथा भवेद्धानिस्तेजसोऽस्य नरेश्वर

2.64.92

तस्मात्प्रजायते कायो नाशरूपं समृच्छति ।
अग्निः प्रजायते भूयो जरारूपो न संशयः

2.64.93

प्राणिनां क्षयरूपेण ज्वरो भवति दारुणः ।
स्थावरा जंगमाः सर्वे ज्वरेण परिपीडिताः

2.64.94

नाशमायांति ते सर्वे बहुपीडा प्रपीडिताः ।
एतत्ते सर्वमाख्यातमन्यत्किं ते वदाम्यहम्

2.64.95

एवमुक्तो महाराजो मातलिं वाक्यमब्रवीत्

2.64.64

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थमाहात्म्ये चतुःषष्टितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc