भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.65

2.65.1

ययातिरुवाच-
धर्मस्य रक्षकः कायो मातले चात्मना सह ।
नाकमेष न प्रयाति तन्मे त्वं कारणं वद

2.65.2

मातलिरुवाच-
पंचानामपि भूतानां संगतिर्नास्ति भूपते ।
आत्मना सह वर्तंते संगत्या नैव पंच ते

2.65.3

सर्वेषां तत्र संघातः कायग्रामे प्रवर्तते ।
जरया पीडिताः सर्वेः स्वंस्वं स्थानं प्रयांति ते

2.65.4

यथा रसाधिका पृथ्वी महाराज प्रकल्पिता ।
रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते

2.65.5

भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव च ।
छिद्राण्येव प्रजायंते वल्मीकाश्च महोदराः

2.65.6

तद्वत्काये प्रजायंते गंडमाला विचार्चिकाः ।
कृमिभिर्भिद्यमानश्च काय एष नरोत्तम

2.65.7

गुल्मास्तत्र प्रजायंते सद्यः पीडाकरास्तदा ।
एभिर्दोषैः समायुक्तः कायोयं नहुषात्मज ।
कथं प्राणसमायोगाद्दिवं याति नरेश्वर

2.65.8

काये पार्थिवभागोऽयं समानार्थं प्रतिष्ठितः ।
न कायः स्वर्गमायाति यथा पृथ्वी तथास्थितः

2.65.9

एतत्ते सर्वमाख्यातं दोषौघैः पार्थिवस्य यः

2.65.65

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थ-।
माहात्म्ये पंचषष्टितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc