भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.62

2.62.1

विष्णुरुवाच-
कुंडलस्याश्रमं गत्वा सत्यधर्म समाकुलम् ।
सुकर्माणं ततो दृष्ट्वा पितृमातृपरायणम्

2.62.2

शुश्रूषंतं महात्मानं गुरूसत्यपराक्रमम् ।
महारूपं महातेजं महाज्ञानसमाकुलम्

2.62.3

मातापित्रोः पदांते तमुपविष्टं ददर्श सः ।
महाभक्त्यान्वितं शांतं सर्वज्ञानमहानिधिम्

2.62.4

कुंडलस्यापि पुत्रेण सुकर्मणा महात्मना ।
आगतं पिप्पलं दृष्ट्वा द्वारदेशे महामतिम्

2.62.5

आसनात्तूर्णमुत्थाय अभ्युत्थानं कृतं पुनः ।
आगच्छ त्वं महाभाग विद्याधर महामते

2.62.6

आसनं पाद्यमर्घं च ददौ तस्मै महामतिः ।
निर्विघ्नोऽसि महाप्राज्ञ कुशलेन प्रवर्त्तसे

2.62.7

निरामयं च पप्रच्छ पिप्पलं तं समागतम् ।
यस्मादागमनं तेद्य तत्सर्वं प्रवदाम्यहम्

2.62.8

वर्षाणां च सहस्राणि त्रीणि यावत्त्वया तपः ।
तप्तमेव महाभाग सुरेभ्यः प्राप्तवान्वरम्

2.62.9

वश्यत्वं च त्वया प्राप्तं कामचारस्तथैव च ।
तेन मत्तो न जानासि गर्वमुद्वहसे वृथा

2.62.10

दृष्ट्वा ते चेष्टितं सर्वं सारसेन महात्मना ।
ममाभिधानं कथितं मम ज्ञानमनुत्तमम्

2.62.11

पिप्पल उवाच-
योसौ मां सारसो विप्र सरित्तीरे प्रयुक्तवान् ।
सर्वं ज्ञानं वदेन्मां हि स तु कः प्रभुरीश्वरः

2.62.12

सुकर्मोवाच-
भवंतमुक्तवान्यो वै सरित्तीरे तु सारसः ।
ब्रह्माणं त्वं महाज्ञानं तं विद्धि परमेश्वरम्

2.62.13

अन्यत्किं पृच्छसे ब्रूहि तमेवं प्रवदाम्यहम् ।
विष्णुरुवाच-
एवमुक्तः स धर्मात्मा सुकर्मा नृपनंदन

2.62.14

पिप्पल उवाच-
त्वयि वश्यं जगत्सर्वमिति शुश्रुम भूतले ।
तन्मे त्वं कौतुकं विप्र दर्शयस्व प्रयत्नतः

2.62.15

पश्य कौतुकमेवाद्य त्वं वश्यावश्यकारणम् ।
तमुवाच स धर्मात्मा सुकर्मा पिप्पलं प्रति

2.62.16

अथ सस्मार वै देवान्सुकर्मा प्रत्ययाय वै ।
इंद्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः

2.62.17

समागताः समाहूता नाना विद्याधरास्तथा ।
सुकर्माणं ततः प्रोचुर्देवाश्चाग्निपुरोगमाः

2.62.18

कस्मात्स्मृतास्त्वया विप्र ततोर्थकारणं वद ।
सुकर्मोवाच-
अयमेष सुसंप्राप्तो विद्याधरो हि पिप्पलः

2.62.19

मामेवं भाषते विप्र वश्यावश्यत्वकारणम् ।
प्रत्ययार्थं समाहूता अस्यैव च महात्मनः

2.62.20

स्वंस्वं स्थानं प्रगच्छध्वमित्युवाच सुरान्प्रति ।
तमूचुस्ते ततो देवाः सुकर्माणं महामतिम्

2.62.21

अस्माकं दर्शनं व्रिप्र न मोघं जायते वरम् ।
वरं वरय भद्रं ते मनसा यद्धिरोचते

2.62.22

तत्ते दद्मो न संदेहस्त्वेवमूचुः सुरोत्तमाः ।
भक्त्या प्रणम्य तान्देवान्ययाचे स द्विजोत्तमः

2.62.23

अचलां दत्त देवेंद्रा सुःभक्तिं भावसंयुताम् ।
मातापित्रोश्च मे नित्यं तद्वै वरमनुत्तमम्

2.62.24

पिता मे वैष्णवं लोकं प्रयात्वेतद्वरोत्तमम् ।
तद्वन्माता च देवेशा वरमन्यं न याचये

2.62.25

देवा ऊचुः-
पितृभक्तोसि विप्रेंद्र भक्त्या तव वयं द्विज ।
सुकर्मञ्छ्रूयतां वाक्यं प्रीत्या युक्ता सदैव ते

2.62.26

एवमुक्त्वा गता देवाः स्वर्लोकं नृपनंदन ।
सर्वमैश्वर्यमेतेन तस्याग्रे परिदर्शितम्

2.62.27

दृष्टं तु पिप्पलेनापि कौतुकं च महाद्भुतम् ।
तमुवाच स धर्मात्मा पिप्पलं कुंडलात्मजम्

2.62.28

अर्वाचीनं त्विदं रूपं पराचीनं च कीदृशम् ।
प्रभावमुभयोश्चैव वदस्व वदतां वर

2.62.29

सुकर्मोवाच-
पराचीनस्य रूपस्य लिंगमेव वदामि ते ।
येनलोकाः प्रमोदंते इंद्राद्याः सचराचराः

2.62.30

अयमेव जगन्नाथः सर्वगो व्यापकः प्रभुः ।
अस्य रूपं न दृष्टं हि केनाप्येव हि योगिना

2.62.31

श्रुतिरेव वदत्येवं तं वक्तुं शंकितेव सा ।
अपाणिपादनासश्च अकर्णो मुखवर्जितः

2.62.32

सर्वं पश्यति वै कर्म कृतं त्रैलोक्यवासिनाम् ।
तेषामुक्तमकर्णश्च स शृणोति सुसाक्ष्यदः

2.62.33

गतिहीनो व्रजेत्सोपि स हि सर्वत्र दृश्यते ।
पाणिहीनोपि गृह्णाति पादहीनः प्रधावति

2.62.34

सर्वत्र दृश्यते विप्र व्यापकः पादवर्जितः ।
यं न पश्यंति देवेंद्रा मुनयस्तत्त्वदर्शिनः

2.62.35

स च पश्यति तान्सर्वान्सत्यासत्यपदे स्थितान् ।
व्यापकं विमलं सिद्धं सिद्धिदं सर्वनायकम्

2.62.36

यं जानाति महायोगी व्यासो धर्मार्थकोविदः ।
तेजोमूर्तिः स चाकाशमेकवर्णमनंतकम्

2.62.37

तदेतन्निर्मलं रूपं श्रुतिराख्याति निश्चितम् ।
व्यासश्चैव हि जानाति मार्कंडेयश्च तत्पदम्

2.62.38

अर्वाचीनं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ।
यदा संहृत्य भूतात्मा स्वयमेकः प्रगच्छति

2.62.39

अप्सु शय्यां समास्थाय शेषभोगासनस्थितः ।
तमाश्रित्य स्वपित्येको बहुकालं जनार्दनः

2.62.40

जलांधकारसंतप्तो मार्कंडेयो महामुनिः ।
स्थानमिच्छन्स योगात्मा निर्विण्णो भ्रमणेन सः

2.62.41

भ्रममाणः स ददृशे शेषपर्यंकशायिनम् ।
सूर्यकोटिप्रतीकाशं दिव्याभरणभूषितम्

2.62.42

दिव्यमाल्यांबरधरं सर्वव्यापिनमीश्वरम् ।
योगनिद्रा गतं कांतं शंखचक्रगदाधरम्

2.62.43

एका नारी महाभागा कृष्णांजनचयोपमा ।
दंष्ट्राकरालवदना भीमरूपा द्विजोत्तम

2.62.44

तयोक्तोसौ मुनिश्रेष्ठो मा भैरिति महामुनिः ।
पद्मपत्रं सुविस्तीर्णं पंचयोजनमायतम्

2.62.45

तस्मिन्पत्रे महादेव्या मार्कण्डेयो निवेशितः ।
केशवे सति सुप्तेपि नास्त्यत्र च भयं तव

2.62.46

तामुवाच स योगींद्र का त्वं भवसि भामिनि ।
अस्मिन्विनिर्जिते चैका भवती परिबृंहिता

2.62.47

पृष्टैवं मुनिना देवी सादरं प्राह भूसुर ।
नागभोगांकपर्यंके स यः स्वपिति केशवः

2.62.48

अस्याहं वैष्णवी शक्तिः कालरात्रिरिहोच्यते ।
मामेवं विद्धि विप्रेंद्र सर्वमायासमन्विताम्

2.62.49

महामाया पुराणेषु जगन्मोहाय कथ्यते ।
इत्युक्त्वा सा गता देवी अंतर्धानं हि पिप्पलः

2.62.50

देव्यामनुगतायां तु मार्कंडेयस्य पश्यतः ।
तस्य नाभ्यां समुत्पन्नं पंकजं हाटकप्रभम्

2.62.51

तस्माज्जज्ञे महातेजा ब्रह्मा लोकपितामहः ।
तस्माद्विजज्ञिरे लोकाः सर्वे स्थावरजंगमाः

2.62.52

इंद्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः ।
अर्वाचीनं स्वरूपं तु दर्शितं हि मया नृप

2.62.53

अर्वाचीनस्वरूपोयं पराचीनो निराश्रयः ।
यदा स दर्शयेत्कायं कायरूपा भवंति ते

2.62.54

ब्रह्माद्याः सर्वलोकाश्च अर्वाचीना हि पिप्पल ।
अर्वाचीना अमी लोका ये भवंति जगत्त्रये

2.62.55

पराचीनः स भूतात्मा यं सुपश्यंति योगिनः ।
मोक्षरूपं परं स्थानं परब्रह्मस्वरूपकम्

2.62.56

अव्यक्तमक्षरं हंसं शुद्धं सिद्धिसमन्वितम् ।
पराचीनस्य यद्रूपं विद्याधर तवाग्रतः

2.62.57

सर्वमेव मया ख्यातमन्यत्किं ते वदाम्यहम् ।
पिप्पल उवाच-
कस्मादेतन्महाज्ञानमुद्भूतं तव सुव्रत

2.62.58

अर्वाचीनगतिं विद्वान्पराचीनगतिं तथा ।
त्रैलोक्यस्य परं ज्ञानं त्वय्येवं परिवर्तते

2.62.59

तपसो नैव पश्यामि परां निष्ठां हि सुव्रत ।
यजनंयाजनंतीर्थंतपोवाकृतवानसि

2.62.60

तत्प्रभावं वदस्वैवं केन ज्ञानं तवाखिलम् ।
सुकर्मोवाच-
तप एव न जानामि न कृतं कायशोषणम्

2.62.61

यजनं याजनं वापि न जाने तीर्थसाधनम् ।
न मया साधितं ध्यानं पुण्यकालं सुकर्मजम्

2.62.62

स्फुटमेकं प्रजानामि पितृमातृप्रपूजनम् ।
उभयोरपि हस्तेन मातापित्रोस्तु नित्यशः

2.62.63

पादप्रक्षालनं पुण्यं स्वयमेव करोम्यहम् ।
अंगसंवाहनं स्नानं भोजनादिकमेव च

2.62.64

त्रिकालेध्यानसंलीनः साधयामि दिनेदिने ।
पादोदकं तयोश्चैव मातापित्रोर्दिनेदिने

2.62.65

भक्तिभावेन विंदामि पूजयामि सुभावतः ।
गुरू मे जीवमानौ तु यावत्कालं हि पिप्पल

2.62.66

तावत्कालं हि मे लाभो ह्यतुलश्च प्रजायते ।
त्रिकालं पूजयाम्येतौ शुद्धभावेन चेतसा

2.62.67

स्वच्छंदलीलासंचारी वर्ताम्येव हि पिप्पल ।
किं मे चान्येन तपसा किं मे कायस्य शोषणैः

2.62.68

किं मे सुतीर्थयात्राभिरन्यैः पुण्यैश्च सांप्रतम् ।
मखानामेव सर्वेषां यत्फलं प्राप्यते द्विज

2.62.69

तत्फलं तु मया दृष्टं पितुः शुश्रूषणादपि ।
मातुः शुश्रूषणं तद्वत्पुत्राणां गतिदायकम्

2.62.70

सर्वकर्मसुसर्वस्वं सारभूतं जगत्रये ।
पुत्रस्य जायते लोको मातुः शुश्रूषणादपि

2.62.71

पितुः शुश्रूषणे तद्वन्महत्पुण्यं प्रजायते ।
तत्र गंगा गयातीर्थं तत्र पुष्करमेव च

2.62.72

यत्र मातापिता तिष्ठेत्पुत्रस्यापि न संशयः ।
अन्यानि तत्र तीर्थानि पुण्यानि विविधानि च

2.62.73

भवंत्येतानि पुत्रस्य पितुः शुश्रूषणादपि ।
पितुः शुश्रूषणात्तस्य दानस्य तपसः फलम्

2.62.74

सत्पुत्रस्य भवेद्विप्र अन्य धर्मः श्रमायते ।
पितुः शुश्रूषणात्पुण्यं पुत्रः प्राप्नोत्यनुत्तमम्

2.62.75

स्वकर्मणस्तु सर्वस्वमिहैव च परत्र च ।
जीवमानौ गुरूत्वेतौ स्वमातापितरौ तथा

2.62.76

शुश्रूषते सुतो भूत्वा तस्य पुण्यफलं शृणु ।
देवास्तस्यापि तुष्यंति ऋषयः पुण्यवत्सलाः

2.62.77

त्रयोलोकास्तु तुष्यंति पितुः शुश्रूषणादिह ।
मातापित्रोस्तु यः पादौ नित्यमेव हि क्षालयेत्

2.62.78

तस्य भागीरथीस्नानमहन्यहनि जायते ।
पुण्यैर्मिष्टान्नपानैर्यः पितरं मातरं तथा

2.62.79

भक्त्या भोजयते नित्यं तस्य पुण्यं वदाम्यहम् ।
अश्वमेधस्य यज्ञस्य फलं पुत्रस्य जायते

2.62.80

तांबूलैश्छादनैश्चैव पानैश्चाशनकैस्तथा ।
भक्त्या चान्नेन पुण्येन गुरू येनाभिपूजितौ

2.62.81

सर्वज्ञानी भवेत्सोपि यशःकीर्तिमवाप्नुयात् ।
मातरं पितरं दृष्ट्वा हर्षात्संभाषयेत्सुतः

2.62.82

निधयस्तस्य संतुष्टास्तस्य गेहे वसंति ते ।
गावः सौहृद्यमायांति पुत्रस्य सुखदाः सदा

2.62.62

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातृपितृतीर्थ-।
माहात्म्ये द्विषष्टितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc