भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.61

2.61.1

वेन उवाच-
भार्यातीर्थं समाख्यातं सर्वतीर्थोत्तमोत्तमम् ।
पितृतीर्थं समाख्याहि पुत्राणां तारणं परम्

2.61.2

विष्णुरुवाच-
कुरुक्षेत्रे महाक्षेत्रे कुंडलो नाम ब्राह्मणः ।
सुकर्मा नाम सत्पुत्रः कुंडलस्य महात्मनः

2.61.3

गुरू तस्य महावृद्धौ धर्मज्ञौ शास्त्रकोविदौ ।
द्वावेतौ तु महात्मानौ जरया परिपीडितौ

2.61.4

तयोः शुश्रूषणं चक्रे भक्त्या च परया ततः ।
धर्मज्ञो भावसंयुक्तो अहर्निशमनारतम्

2.61.5

तस्माद्वेदानधीते स पितुः शास्त्राण्यनेकशः ।
सर्वाचारपरो दक्षो धर्मज्ञो ज्ञानवत्सलः

2.61.6

अंगसंवाहनं चक्रे गुर्वोश्च स्वयमेव सः ।
पादप्रक्षालनं चैव स्नानभोजनकीं क्रियाम्

2.61.7

भक्त्या चैव स्वभावेन तद्ध्याने तन्मयो भवेत् ।
मातापित्रोश्च राजेंद्र उपचर्यां प्रकारयेत्

2.61.8

सूत उवाच-
तद्वर्तमानकाले तु बभूव नृपसत्तम ।
पिप्पलो नाम वै विप्रः कश्यपस्य महात्मनः

2.61.9

तपस्तेपे निराहारो जितात्मा जितमत्सरः ।
दयादानदमोपेतः कामं क्रोधं विजित्य सः

2.61.10

दशारण्यगतो धीमाञ्ज्ञानशांतिपरायणः ।
सर्वेंद्रियाणि संयम्य तपस्तेपे महामनाः

2.61.11

तपःप्रभावतस्तस्य जंतवो गतविग्रहाः ।
वसंति सुयुगे तत्र एकोदरगता इव

2.61.12

तत्तपस्तस्य मुनयो दृष्ट्वा विस्मयमाययुः ।
नेदृशं केनचित्तप्तं यथासौ तप्यते मुनिः

2.61.13

देवाश्च इंद्रप्रमुखाः परं विस्मयमाययुः ।
अहो अस्य तपस्तीव्रं शमश्चेंद्रियसंयमः

2.61.14

निर्विकारो निरुद्वेगः कामक्रोधविवर्जितः ।
शीतवातातपसहो धराधर इवस्थितः

2.61.15

विषये विमुखो धीरो मनसोतीतसंग्रहम् ।
न शृणोति यथा शब्दं कस्यचिद्द्विजसत्तमः

2.61.16

संस्थानं तादृशं गत्वा स्थित्वा एकाग्रमानसः ।
ब्रह्मध्यानमयो भूत्वा सानंदमुखपंकजः

2.61.17

अश्मकाष्ठमयो भूत्वा निश्चेष्टो गिरिवत्स्थितः ।
स्थाणुवद्दृश्यते चासौ सुस्थिरो धर्मवत्सलः

2.61.18

तपःक्लिष्टशरीरोति श्रद्धावाननसूयकः ।
एवं वर्षसहस्रैकं संजातं तस्य धीमतः

2.61.19

पिपीलिकाभिर्बह्वीभिः कृतं मृद्भारसंचयम् ।
तस्योपरि महाकायं वल्मीकं निजमंदिरम्

2.61.20

वल्मीकोदरमध्यस्थो जडीभूत इवस्थितः ।
स एवं पिप्पलो विप्रस्तपते सुमहत्तपः

2.61.21

कृष्णसर्पैस्तु सर्वत्र वेष्टितो द्विजसत्तमः ।
तमुग्रतेजसं विप्रं प्रदशंति विषोल्बणाः

2.61.22

संप्राप्य गात्रमर्माणि विषं तस्य न भेदयेत् ।
तेजसा तस्य विप्रस्य नागाः शांतिमथागमन्

2.61.23

तस्य कायात्समुद्भूता अर्चिषो दीप्ततेजसः ।
नानारूपाः सुबहुशो दृश्यंते च पृथक्पृथक्

2.61.24

यथा वह्नेः खरतरास्तथाविधा नरोत्तम ।
यथामेघोदरे सूर्यः प्रविष्टो भाति रश्मिभिः

2.61.25

वल्मीकस्थस्तथाविप्रः पिप्पलो भाति तेजसा ।
सर्पा दशंति विप्रं तं सक्रोधा दशनैरपि

2.61.26

न भिंदंति च दंष्ट्राग्राच्चर्म भित्त्वा नृपोत्तम ।
एवं वर्षसहस्रैकं तप आचरतस्ततः

2.61.27

गतं तु राजराजेंद्र मुनेस्तस्य महात्मनः ।
त्रिकालं साध्यमानस्य शीतवर्षातपान्वितः

2.61.28

गतः कालो महाराज पिप्पलस्य महात्मनः ।
तद्वच्च वायुभक्षं तु कृतं तेन महात्मना

2.61.29

त्रीणि वर्षसहस्राणि गतानि तस्य तप्यतः ।
तस्य मूर्ध्नि ततो देवैः पुष्पवृष्टिः कृता पुरा

2.61.30

ब्रह्मज्ञोसि महाभाग धर्मज्ञोसि न संशयः ।
सर्वज्ञानमयोऽसि त्वं संजातः स्वेनकर्मणा

2.61.31

यं यं त्वं वांछसे कामं तं तं प्राप्स्यसि नान्यथा ।
सर्वकामप्रसिद्धस्त्वं स्वत एव भविष्यसि

2.61.32

समाकर्ण्य महद्वाक्यं पिप्पलोपि महामनाः ।
प्रणम्य देवताः सर्वा भक्त्या नमितकंधरः

2.61.33

हर्षेण महताविष्टो वचनं प्रत्युवाच सः ।
इदं विश्वं जगत्सर्वं ममवश्यं यथा भवेत्

2.61.34

तथा कुरुध्वं देवेंद्रा विद्याधरो भवाम्यहम् ।
एवमुक्त्वा स मेधावी विरराम नृपोत्तम

2.61.35

एवमस्त्विति ते प्रोचुर्द्विजश्रेष्ठं सुरास्तदा ।
दत्वा वरं महाभाग जग्मुस्तस्मै महात्मने

2.61.36

गतेषु तेषु देवेषु पिप्पलो द्विजसत्तमः ।
ब्रह्मण्यं साधयेन्नित्यं विश्ववश्यं प्रचिंतयेत्

2.61.37

तदाप्रभृति राजेंद्र पिप्पलो द्विजसत्तमः ।
विद्याधरपदं लब्ध्वा कामगामी महीयते

2.61.38

एवं स पिप्पलो विप्रो विद्याधरपदं गतः ।
संजातो देवलोकेशः सर्वशास्त्रविशारदः

2.61.39

एकदा तु महातेजाः पिप्पलः पर्यचिंतयत् ।
विश्ववश्यं भवेत्सर्वं मम दत्तो वरोत्तमः

2.61.40

तदर्थं प्रत्ययं कर्तुमुद्यतो द्विजपुंगवः ।
यं यं चिंतयते कर्तुं तं तं हि वशमानयेत्

2.61.41

एवं स प्रत्यये जाते मनसा पर्यकल्पयत् ।
द्वितीयो नास्ति वै लोके मत्समः पुरुषोत्तमः

2.61.42

सूत उवाच-
एवं हि कल्पमानस्य पिप्पलस्य महात्मनः ।
ज्ञात्वा मानसिकं भावं सारसस्तमुवाच ह

2.61.43

सरस्तीरगतो राजन्सुस्वरं व्यंजनान्वितम् ।
स्वनं सौष्ठवसंयुक्तमुक्तवान्पिप्पलं प्रति

2.61.44

कस्मादुद्वहसे गर्वमेवं त्वं परमात्मकम् ।
सर्ववश्यात्मिकीं सिद्धिं नाहं मन्ये तवैव हि

2.61.45

वश्यावश्यमिदं कर्म अर्वाचीनं प्रशस्यते ।
पराचीनं न जानासि पिप्पल त्वं हि मूढधीः

2.61.46

वर्षाणां तु सहस्राणि यावत्त्रीणि त्वया तपः ।
समाचीर्णं ततो गर्वं कुरुषे किं मुधा द्विज

2.61.47

कुंडलस्य सुतो धीरः सुकर्मानाम यः सुधीः ।
वश्यावश्यं जगत्सर्वं तस्यासीच्छृणु सांप्रतम्

2.61.48

अर्वाचीनं पराचीनं स वै जानाति बुद्धिमान् ।
लोके नास्ति महाज्ञानी तत्समः शृणु पिप्पल

2.61.49

न कुंडलस्य पुत्रेण सदृशस्त्वं सुकर्मणा ।
न दत्तं तेन वै दानं न ज्ञानं परिचिंतितम्

2.61.50

हुतयज्ञादिकं कर्म न कृतं तेन वै कदा ।
न गतस्तीर्थयात्रायां न च वह्नेरुपासनम्

2.61.51

स कदा कृतवान्विप्र धर्मसेवार्थमुत्तमम् ।
स्वच्छंदचारी ज्ञानात्मा पितृमातृसुहृत्सदा

2.61.52

वेदाध्ययनसंपन्नः सर्वशास्त्रार्थकोविदः ।
यादृशं तस्य वै ज्ञानं बालस्यापि सुकर्मणः

2.61.53

तादृशं नास्ति ते ज्ञानं वृथा त्वं गर्वमुद्वहेः ।
पिप्पल उवाच-
को भवान्पक्षिरूपेण मामेवं परिकुत्सयेत्

2.61.54

कस्मान्निंदसि मे ज्ञानं पराचीनं तु कीदृशम् ।
तन्मे विस्तरतो ब्रूहि त्वयि ज्ञानं कथं भवेत्

2.61.55

अर्वाचीनगतिं सर्वां पराचीनस्य सांप्रतम् ।
वद त्वमंडजश्रेष्ठ ज्ञानपूर्वं सुविस्तरम्

2.61.56

किं वा ब्रह्मा च विष्णुश्च किं वा रुद्रो भविष्यसि ।
सारस उवाच-
नास्ति ते तपसो भावः फलं नास्ति च तस्य तु

2.61.57

त्वया न परितप्तस्य तपसः सांप्रतं शृणु ।
कुंडलस्यापि पुत्रस्य बालस्यापि यथा गुणः

2.61.58

तथा ते नास्ति वै ज्ञानं परिज्ञातं न तत्पदम् ।
इतो गत्वापि पृच्छ त्वं मम रूपं द्विजोत्तम

2.61.59

स वदिष्यति धर्मात्मा सर्वं ज्ञानं तवैव हि ।
विष्णुरुवाच-
एवमाकर्ण्य तत्सर्वं सारसेन प्रभाषितम्

2.61.60

निर्जगाम स वेगेन दशारण्यं महाश्रमम्

2.61.61

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने एकषष्टितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc