भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.58

2.58.1

विष्णुरुवाच-
क्रीडाप्रयुक्तासु वनं प्रविष्टा वैश्यस्य भार्या सुकला सुतन्वी ।
ददर्श सर्वं गहनं मनोरमं तामेव पप्रच्छ सखीं सती सा

2.58.2

अरण्यमेतत्प्रवरं सुपुण्यं दिव्यं सखे कस्य मनोभिरामम् ।
सिद्धंसुकामैः प्रवरैः समस्तैः पप्रच्छ हर्षात्सुकला सखीं ताम्

2.58.3

क्रीडोवाच-
एतद्वनं दिव्यगुणैः प्रयुक्तं सिद्धस्वभावैः परिभावनेन ।
पुष्पाकुलं कामफलोपयुक्तं विपश्य सर्वं मकरध्वजस्य

2.58.4

एवं वाक्यं ततः श्रुत्वा हर्षेण महतान्विता ।
समालोक्य महद्वृत्तं कामस्य च दुरात्मनः

2.58.5

वायुना नीयमानं तं समाघ्राति न सौरभम् ।
वाति वायुः स्वभावेन सौरभेण समन्वितः

2.58.6

तद्बाणो विशतेनासां यथा तथा सुलीलया ।
सा गंधं नैव गृह्णाति पुष्पाणां च वरानना

2.58.7

न चास्वादयते सा तु सुरसान्सा महासती ।
स सखा कामदेवस्य रममाणो विनिर्जितः

2.58.8

लज्जितः पराङ्मुखो भूत्वा भूं पपात लवच्छदैः ।
फलेभ्यो हि सुपक्वेभ्यः पुष्पमंजरिसंस्कृतः

2.58.9

लवरूपोपतद्भूमौ रसस्त्वेष तया जितः ।
मकरंदः सुदीनात्मा फलाद्भूमिं ततः पुनः

2.58.10

भक्ष्यते मक्षिकाभिश्च यथामृतो रणे तथा ।
मक्षिकाभक्ष्यमाणस्तु प्रवाहेन प्रयाति सः

2.58.11

मंदंमंदं प्रयात्येव तं हसंति च पक्षिणः ।
नानारुतैः प्रचलंति सुखमानंदनिर्भरैः

2.58.12

प्रीत्या शकुनयस्तत्र वनमध्यनगस्थिताः ।
सुकलया जितो ह्येष निम्नं पंथानमाश्रितः

2.58.13

प्रीत्या समेता रतिः कामभार्या गत्वाब्रवीत्सा सुकलां विहस्य ।
स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्व प्रीत्या नयनाभिरामम्

2.58.14

ते रूपमिष्टममलमिंद्रस्यापि महात्मनः ।
यदेष्टं ते तदा ब्रूहि समानेष्ये न संशयः

2.58.15

सूत उवाच-
वदंत्यौ ते स्त्रियौ दृष्ट्वा श्रुत्वोवाच सुभाषितम् ।
रतिं प्रतिगृहीत्वा मे गतो भर्त्ता महामतिः

2.58.16

यत्र मे तिष्ठते भर्त्ता तत्राहं पतिसंयुता ।
तत्र कामश्च मे प्रीतिरयं कायो निराश्रयः

2.58.17

द्वे अप्युक्तं समाकर्ण्य रतिप्रीती विलज्जिते ।
व्रीडमाने गते ते द्वे यत्र कामो महाबलः

2.58.18

ऊचतुस्तं महावीरमिंद्रकाय समाश्रितम् ।
चापमाकर्षमाणं तं नेत्रलक्ष्यं महाबलम्

2.58.19

दुर्जयेयं महाप्राज्ञ त्यज पौरुषमात्मनः ।
पतिकामा महाभागा पतिव्रता सदैव सा

2.58.20

काम उवाच-
अनया लोक्यते रूपमिंद्रस्यास्य महात्मनः ।
यदि देवि तदा चाहं हनिष्यामि न संशयः

2.58.21

अथ वेषधरो देवो महारूपः सुराधिपः ।
स तयानुगतस्तूर्णं परया लीलया तदा

2.58.22

सर्वभोगसमाकीर्णः सर्वाभरणशोभितः ।
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः

2.58.23

तया रत्या समायातो यत्रास्ते पतिदेवता ।
प्रत्युवाच महाभागां सुकलां सत्यचारिणीम्

2.58.24

पूर्वं दूती समक्षं ते प्रीत्या च प्रहिता मया ।
कस्मान्न मन्यसे भद्रे भजंतं त्वामिहागतम्

2.58.25

सुकलोवाच-
रक्षायुक्तास्मि भद्रं ते भर्तुः पुत्रैर्महात्मभिः ।
एकाकिनीसहायैश्च नैव कस्य भयं मम

2.58.26

शूरैश्च पुरुषाकारैः सर्वत्र परिरक्षिता ।
नाति प्रस्तावये वक्तुं व्यग्रा कर्मणि तस्य च

2.58.27

यावत्प्रस्यंदते नेत्रं तावत्कालं महामते ।
भवान्न लज्जते कस्माद्रममाणो मया सह

2.58.28

भवान्को हि समायातो निर्भयो मरणादपि ।
इंद्र उवाच-
त्वामेवं हि प्रपश्यामि वनमध्ये समागताम्

2.58.29

समाख्यातास्त्वया शूरा भर्तुश्च तनयाः पुनः ।
कथं पश्याम्यहं तावद्दर्शयस्व ममाग्रतः

2.58.30

सुकलोवाच-
सनिजसकलवर्गस्याधिपत्ये निवेश्य धृतिमतिगतिबुद्ध्य्ख्यैस्तु संन्यस्य सत्यम् ।
अचलसकलधर्मो नित्ययुक्तो महात्मा मदनसबलधर्मात्मा सदामां जुगोप

2.58.31

मामेवं परिरक्षते दमगुणैः शौचैस्तु धर्मः सदा सत्यं पश्य समागतं मम पुरः शांतिक्षमाभ्यांयुतम् ।
बोधश्चातिमहाबलः पृथुयशा यो मां न मुंचेत्कदा बद्धाहं दृढबंधनैः स्वगुणजैः सांनिध्यमेवं गतः

2.58.32

रक्षायुक्ताः कृताः सर्वे सत्याद्या मम सांप्रतम् ।
धर्मलाभादिकाः सर्वे दमबुद्धिपराक्रमाः

2.58.33

मामेवं हि प्ररक्षंति किं मां प्रार्थयसे बलात् ।
को भवान्निर्भयो भूत्वा दूत्या सार्धं समागतः

2.58.34

सत्यं धर्मस्तथा पुण्यं ज्ञानाद्याः प्रबलास्तथा ।
मम भर्तुः सहायाश्च ते मां रक्षंति वेश्मनि

2.58.35

अहं रक्षायुता नित्यं दमशांतिपरायणा ।
न मां जेतुं समर्थश्च अपि साक्षाच्छचीपतिः

2.58.36

यदि वा मन्मथो वापि समागच्छति वीर्यवान् ।
दंशिताहं सदा सत्यं सत्यकेनैव नान्यथा

2.58.37

निरर्थकास्तस्य बाणा भविष्यंति न संशयः ।
त्वामेवं हि हनिष्यंति धर्मादयो महाभटाः

2.58.38

दूरं गच्छ पलायत्वमत्र मा तिष्ठ सांप्रतम् ।
वार्यमाणो यदा तिष्ठेर्भस्मीभूतो भविष्यसि

2.58.39

भर्त्रा विना निरीक्षेत मम रूपं यदा भवान् ।
यथा दारु दहेदग्निस्तथा धक्ष्यामि नान्यथा

2.58.40

एवं श्रुत्वा सहस्राक्षो मन्मथस्यापि सम्मुखम् ।
पश्य पौरुषमेतस्या युध्यस्व निजपौरुषैः

2.58.41

यथागतास्तथा सर्वे महाशापभयातुराः ।
स्वंस्वं स्थानं महाराज इंद्राद्याः प्रययुस्तदा

2.58.42

गतेषु तेषु सर्वेषु सुकला सा पतिव्रता ।
स्वगृहं पुण्यसंयुक्ता पतिध्यानेन चागता

2.58.43

स्वगृहं पुण्यसंयुक्तं सर्वतीर्थमयं तदा ।
सर्वयज्ञमयं राजन्संप्राप्ता पतिदेवता

2.58.58

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रेष्टपंचाशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc