भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.32

2.32.1

सूत उवाच-
नानारत्नैः सुदीप्तांगो हाटकेनापि सर्वतः ।
राजमानो गिरिश्रेष्ठो यथा सूर्यः स्वरश्मिभिः

2.32.2

छायामशोकां संप्राप्य शीतलां सुखदायिनीम् ।
ध्यायंति योगिनः सर्वे उपविष्टा दृढासने

2.32.3

क्वचित्तपंति मुनयः क्वचिद्गायंति किन्नराः ।
संतुष्टा ऋषिगंधर्वा वीणातालकराविलाः

2.32.4

तालमानलये लीनाः स्वरैः सप्तभिरन्वितैः ।
मूर्च्छनारत्निसंयुक्तैर्व्यक्तं गीतं मनोहरम्

2.32.5

तस्मिन्वै पर्वतश्रेष्ठे चंदनच्छायसंश्रिताः ।
गंधर्वा गीततत्वज्ञा गीतं गायंति तत्पराः

2.32.6

नृत्यंति योषितस्तत्र देवानां पर्वत्तोत्तमे ।
पापहा पुण्यदो दिव्यः सुश्रेयसां प्रदायकः

2.32.7

वेदध्वनिः समधुरः श्रूयते पर्वतोत्तमे ।
चंदनाशोकपुन्नागैः शालैस्तालैस्तमालकैः

2.32.8

वटैस्तु मेघसंकाशै राजते पर्वतोत्तमः ।
संतानकैः कल्पवृक्षै रंभापादपसंकुलैः

2.32.9

नगेंद्रो भाति सर्वत्र नाकवृक्षैः सुपुष्पितैः ।
नानाधातुसमाकीर्णो नानारत्नचयो गिरिः

2.32.10

नानाकौतुकसंयुक्तो नानामंगलसंयुतः ।
वेदवृंदैः सुसंजुष्टो ह्यप्सरोगणसंकुलः

2.32.11

ऋषिभिर्मुनिभिः सिद्धैर्गंधर्वैःपरिभातिसः ।
गजैश्चाचलसंकाशैः सिंहनादैर्विराजते

2.32.12

शरभैर्मत्तशार्दूलैर्मृगधूर्तैरलंकृतः ।
वापीकूपतडागैश्च संपूर्णैर्विमलोदकैः

2.32.13

हंसकारंडवाकीर्णैः सर्वत्र परिशोभते ।
कनकोत्पलैश्च श्वेतैश्च रक्तोत्पलैर्विराजते

2.32.14

नदीस्रवणसंघातैर्विमलैश्चोदकैस्तथा ।
शालतालैश्च रूपैश्च सगजैः स्फाटिकैस्तथा

2.32.15

विस्तीर्णैः कांचनैर्दिव्यैः सूर्यवह्निसमप्रभैः ।
शिलातलैश्च संपूर्णः शैलराजो विराजते

2.32.16

विमानैर्देवतानां च प्रासादैः पर्वतोत्तमैः ।
हंसचंद्रप्रतीकाशैर्हेमदंडैरलंकृतः

2.32.17

कलशैश्चामरैर्युक्तैः प्रासादैः परिशोभितः ।
नानागुणप्रमुदित देववृंदैश्च शोभितः

2.32.18

देववृंदैरनेकैश्च गंधर्वैश्चारणैस्तथा ।
सर्वत्र राजते पुण्यो मेरुर्गिरिवरोत्तमः

2.32.19

तस्माद्गंगामहापुण्या पुण्यतोया महानदी ।
प्रसूता पुण्यतीर्थाढ्या हंसपद्मैः समाकुला

2.32.20

मुनिभिः सेव्यमाना सा ऋषिसंघैर्महानदी ।
एवंगुणं गिरिश्रेष्ठं पुण्यकौतुकमंगलम्

2.32.21

अंगश्चात्रिसुतः पुण्यः प्रविवेश महामुनिः ।
गंगातीरे सुपुण्ये च एकांते चारुकंदरे

2.32.22

तत्रोपविश्य मेधावी कामक्रोधविवर्जितः ।
सर्वेंद्रियाणि संयम्य हृषीकेशं मनोगतम्

2.32.23

ध्यायमानः स धर्मात्मा कृष्णं क्लेशापहं प्रभुम् ।
आसने शयने याने ध्याने च मधुसूदनम्

2.32.24

नित्यं पश्यति युक्तात्मा योगयुक्तो जितेंद्रियः ।
चराचरेषु जीवेषु तेषु पश्यति केशवम्

2.32.25

आर्द्रेषु चैव शुष्केषु सर्वेष्वन्येषु स द्विजः ।
एवं वर्षशतं जातं तप्यमानस्य तस्य च

2.32.26

समालोक्य जगन्नाथश्चक्रपाणिर्द्विजोत्तमम् ।
बहुविघ्नान्सुघोरांश्च दर्शयत्येव नित्यशः

2.32.27

तेजसा तस्य देवस्य नृसिंहस्य महात्मनः ।
निरातंकः स धर्मात्मा दहत्यग्निरिवेंधनम्

2.32.28

नियमैः संयमैश्चान्यैरुपवासैर्द्विजोत्तमः ।
क्षीयमाणस्तु संजातो दीप्यमानः स्वतेजसा

2.32.29

सूर्यपावकसंकाशस्त्वंग एवं प्रदृश्यते ।
एवं तपःसु निरतं ध्यायमानं जनार्दनम्

2.32.30

आविर्भूयाब्रवीद्देवो वरं वरय मानद ।
तं च दृष्ट्वा हृषीकेशमंगः परम निर्वृतः

2.32.31

तुष्टाव प्रणतो भूत्वा वासुदेवं प्रसन्नधीः

2.32.32

अंग उवाच-
त्वं गतिः सर्वभूतानां भूतभावन पावन ।
भूतात्मा सर्वभूतेश नमस्तुभ्यं गुणात्मने

2.32.33

गुणरूपाय गुह्याय गुणातीताय ते नमः ।
गुणाय गुणकर्त्रे च गुणाढ्याय गुणात्मने

2.32.34

भवाय भवकर्त्रे च भक्तानां भवहारिणे ।
भवोद्भवाय गुह्याय नमो भवविनाशिने

2.32.35

यज्ञाय यज्ञरूपाय यज्ञेशाय नमोनमः ।
यज्ञकर्मप्रसंगाय नमः शंखधराय च

2.32.36

नमोनमो हिरण्याय नमो रथांगधारिणे ।
सत्याय सत्यभावाय सर्वसत्यमयाय च

2.32.37

धर्माय धर्मकर्त्रे च सर्वकर्त्रे च ते नमः ।
धर्मांगाय सुवीराय धर्माधाराय ते नमः

2.32.38

नमः पुण्याय पुत्राय ह्यपुत्राय महात्मने ।
मायामोहविनाशाय सर्वमायाकराय ते

2.32.39

मायाधराय मूर्ताय त्वमूर्ताय नमोनमः ।
सर्वमूर्तिधरायैव शंकराय नमोनमः

2.32.40

ब्रह्मणे ब्रह्मरूपाय परब्रह्मस्वरूपिणे ।
नमस्ते सर्वधाम्ने च नमो धामधराय च

2.32.41

श्रीमते श्रीनिवासाय श्रीधराय नमोनमः ।
क्षीरसागरवासाय चामृताय च ते नमः

2.32.42

महौषधाय घोराय महाप्रज्ञापराय च ।
अक्रूराय प्रमेध्याय मेध्यानां पतये नमः

2.32.43

अनंताय ह्यशेषाय चानघाय नमोनमः ।
आकाशस्य प्रकाशाय पक्षिरूपाय ते नमः

2.32.44

हुताय हुतभोक्त्रे च हवीरूपाय ते नमः ।
बुद्धाय बुधरूपाय सदाबुद्धाय ते नमः

2.32.45

नमो हव्यायकव्याय स्वधाकाराय ते नमः ।
स्वाहाकाराय शुद्धाय ह्यव्यक्ताय महात्मने

2.32.46

व्यासाय वासवायैव वसुरूपाय ते नमः ।
वासुदेवाय विश्वाय वह्निरूपाय ते नमः ।
हरये केवलायैव वामनाय नमोनमः

2.32.47

नमो नृसिंहदेवाय सत्वपालाय ते नमः

2.32.48

नमो गोविंदगोपाय नम एकाक्षराय च ।
नमः सर्वाक्षरायैव हंसरूपाय ते नमः

2.32.49

त्रितत्त्वाय नमस्तुभ्यं पंचतत्त्वाय ते नमः ।
पंचविंशतितत्त्वाय तत्त्वाधाराय वै नमः

2.32.50

कृष्णाय कृष्णरूपाय लक्ष्मीनाथाय ते नमः ।
नमः पद्मपलाशाय आनंदाय पराय च

2.32.51

नमो विश्वंभरायैव पापनाशाय वै नमः ।
नमः पुण्यसुपुण्याय सत्यधर्माय ते नमः

2.32.52

नमोनमः शाश्वतअव्ययाय नमोनमः संघ नभोमयाय ।
श्रीपद्मनाभाय महेश्वराय नमामि ते केशवपादपद्मम्

2.32.53

आनंदकंद कमलाप्रिय वासुदेव सर्वेश ईश मधुसूदन देहि दास्यम् ।
पादौ नमामि तव केशव जन्मजन्म कृपां कुरुष्व मम शांतिद शंखपाणे

2.32.54

संसारदारुणहुताशनतापदग्धं पुत्रादिबंधुमरणैर्बहुशोकतापैः ।
ज्ञानांबुदेन मम प्लावय पद्मनाभ दीनस्य मच्छरणरूपभवस्व नाथ

2.32.55

एवं स्तोत्रं समाकर्ण्य त्वंगस्यापि महात्मनः ।
दर्शयित्वा स्वकं रूपं घनश्यामं महौजसम्

2.32.56

शंखचक्रगदापाणिं पद्महस्तं महाप्रभुम् ।
वैनतेयसमारूढमात्मरूपं प्रदर्शितम्

2.32.57

सर्वाभरणशोभांगं हारकंकणकुंडलैः ।
राजमानं परं दिव्यं निर्मलं वनमालया

2.32.58

अंगस्याग्रे हृषीकेशः शोभमान महत्प्रभः ।
श्रीवत्सांकेन पुण्येन कौस्तुभेन जनार्दनः

2.32.59

दर्शयित्वा स्वकं देहं सर्वदेवमयो हरिः ।
स उवाच महात्मानं तमंगमृषिसत्तमम्

2.32.60

भो भो विप्र महाभाग श्रूयतां वचनं शुभम् ।
मेघगंभीरघोषेण समाभाष्य द्विजोत्तमम्

2.32.61

तपसानेन तुष्टोस्मि वरं वरय शोभनम् ।
तुष्यमाणं हृषीकेशं तं दृष्ट्वा कमलापतिम्

2.32.62

दीप्यमानं विराजंतं विश्वरूपं जनेश्वरम् ।
पादांबुजद्वयं तस्य प्रणम्य च पुनःपुनः

2.32.63

हर्षेण महताविष्टस्तमुवाच जनार्दनम् ।
दासोहं तव देवेश शंखचक्रगदाधर

2.32.64

वरं मे दातुकामोसि देहि त्वं वंशजं सुतम् ।
दिवि शक्रो यथाऽभाति सर्वतेजः समन्वितः

2.32.65

तादृशं देहि मे पुत्रं सर्वलोकस्य रक्षकम् ।
सर्वदेवप्रियं देव ब्रह्मण्यं धर्मपंडितम्

2.32.66

दातारं ज्ञानसंपन्नं धर्मतेजः समन्वितम् ।
त्रैलोक्यरक्षकं कृष्ण सत्यधर्मानुपालकम्

2.32.67

यज्वनामुत्तमं चैकं शूरं त्रैलोक्यभूषणम् ।
ब्रह्मण्यं वेदविद्वांसं सत्यसंधं जितेंद्रियम्

2.32.68

अजितं सर्वजेतारं विष्णुं तेजःसमप्रभम् ।
वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणम्

2.32.69

शांतं तु तपसोपेतं सर्वशास्त्रविशारदम् ।
वेदज्ञं योगिनां श्रेष्ठं भवतो गुणसंनिभम्

2.32.70

ईदृशं देहि मे पुत्रं दातुकामो यदा वरम् ।
श्रीवासुदेव उवाच-
एभिर्गुणैः समोपेतस्तव पुत्रो भविष्यति

2.32.71

अत्रिवंशस्य वै धर्ता विश्वस्यास्य महामते ।
तेजसा यशसा पुण्यैः पितरं चोद्धरिष्यति

2.32.72

उद्धरिष्यति यः सत्यैः पितरं च पितामहम् ।
भवान्यास्यति मे स्थानं तद्विष्णोः परमं पदम्

2.32.73

इत्युक्त्वा देवदेवेशस्तमंगं प्रति स द्विज ।
कस्यचित्पुण्यवीर्यस्य पुण्यां कन्यां विवाहय

2.32.74

तस्यामुत्पादय सुतं शुभं पुण्यावह प्रियम् ।
स भविष्यति धर्मात्मा मत्प्रसादान्महामते

2.32.75

सर्वज्ञः सर्ववेत्ता च यादृशो वांछितस्त्वया ।
एवं वरं ततो दत्वा अंतर्धानं गतो हरिः

2.32.32

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने अंगवरप्रदानं ।
नाम द्वात्रिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc