भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.117

2.117.1

कुंजल उवाच-
नहुषः प्रियया सार्द्धं तया चैव सरंभया ।
ऐंद्रेणापि स दिव्येन स्यंदनेन वरेण च

2.117.2

नागाह्वयं पुरं प्राप्तः सर्वशोभासमन्वितम् ।
दिव्यैर्मंगलकैर्युक्तं भवनैरुपशोभितम्

2.117.3

हेमतोरणसंयुक्तं पताकाभिरलंकृतम् ।
नानावादित्रनादैश्च बंदिचारणशोभितम्

2.117.4

देवरूपोपमैः पुण्यैः पुरुषैः समलंकृतम् ।
नारीभिर्दिव्यरूपाभिर्गजाश्वैः स्यंदनैस्तथा

2.117.5

नानामंगलशब्दैश्च वेदध्वनिसमाकुलम् ।
गीतवादित्रशब्दैश्च वीणावेणुस्वनैस्ततः

2.117.6

सर्वशोभासमाकीर्णं विवेश स पुरोत्तमम् ।
वेदमंगलघोषैश्च ब्राह्मणैश्चैव पूजितः

2.117.7

ददृशे पितरं वीरो मातरं च सुपुण्यकाम् ।
हर्षेण महताविष्टः पितुः पादौ ननाम सः

2.117.8

अशोकसुंदरी सा तु तयोः पादौ पुनः पुनः ।
ननाम भक्त्या भावेन उभयोः सा वरानना

2.117.9

रंभा च सा ननामाथ प्रीतिं चैवाप्यदर्शयत् ।
नमस्कृत्वा समाभाष्य स्वगुरुं नृपनंदनः

2.117.10

अनामयं च पप्रच्छ मातरं पितरं प्रति ।
एवमुक्तो महाभागः सानंदपुलकोद्गमः

2.117.11

आयुरुवाच-
अद्यैव व्याधयो नष्टा दुःखशोकावुभौ गतौ ।
भवतो दर्शनात्पुत्र सुतुष्ट्या हृष्यते जगत्

2.117.12

कृतकृत्योस्मि संजातस्त्वयि जाते महौजसि ।
स्ववंशोद्धरणं कृत्वा अहमेव समुद्धृतः

2.117.13

इंदुमत्युवाच-
पर्वणि प्राप्य इंदोस्तु तेजो दृष्ट्वा महोदधिः ।
वृद्धिं याति महाभाग तथाहं तव दर्शनात्

2.117.14

वर्द्धितास्मि सुहृष्टास्मि आनंदेन समाकुला ।
दर्शनात्ते महाप्राज्ञ धन्या जातास्मि मानद

2.117.15

एवं संभाष्य तं पुत्रमालिंग्य तनयोत्तमम् ।
शिरश्चाघ्राय तस्यापि वत्सं धेनुर्यथा स्वकम्

2.117.16

अभिनंद्य सुतं प्राप्तं नहुषं देवरूपिणम् ।
आशीर्भिश्चार्चयद्देवी पुण्या इंदुमती तदा

2.117.17

सूत उवाच-
अथासौ मातरं पुण्यां देवीमिंदुमतीं सुतः ।
कथयामास वृत्तांतं यथाहरणमात्मनः

2.117.18

स्वभार्यायास्तथोत्पत्तिं प्राप्तिं चैव महायशाः ।
हुंडेनापि यथा युद्धं हुंडस्यापि निपातनम्

2.117.19

समासेन समस्तं तदाख्यातं स्वयमेव हि ।
मातापित्रोर्यथा वृत्तं तयोरानंददायकम्

2.117.20

मातापितरावाकर्ण्य पुत्रस्य विक्रमोद्यमम् ।
हर्षेण महताविष्टौ संजातौ पूर्णमानसौ

2.117.21

नहुषो धनुरादाय इंद्रस्य स्यंदनेन वै ।
जिगाय पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम्

2.117.22

पित्रे समर्पयामास वसुपूर्णां वसुंधराम् ।
पितरं हर्षयन्नित्यं दानधर्मैः सुकर्मभिः

2.117.23

पितरं याजयामास राजसूयादिभिस्तदा ।
महायज्ञैश्च दानैश्च व्रतैर्नियमसंयमैः

2.117.24

सुदानैर्यशसा पुण्यैर्यज्ञैः पुण्यमहोदयैः ।
सुसंपूर्णौ कृतौ तौ तु पितरौ चायुसूनुना

2.117.25

अथ देवाः समागत्य नागाह्वयं पुरोत्तमम् ।
अभ्यषिंचन्महात्मानं नहुषं वीरमर्दनम्

2.117.26

मुनिभिश्च सुसिद्धैश्च आयुना तेन भूभुजा ।
अभिषिंच्य स्वराज्ये तं समेतं शिवकन्यया

2.117.27

भार्यायुक्तः स्वकायेन आयु राजा महायशाः ।
दिवं जगाम धर्मात्मा देवैः सिद्धैः सुपूजितः

2.117.28

ऐंद्रं पदं परित्यज्य ब्रह्मलोकं गतः पुनः ।
हरलोकं जगामाथ मुनिभिर्देवपूजितः

2.117.29

स्वकर्मभिर्महाराजः पुत्रस्यापि सुतेजसा ।
हरेर्लोकं गतः पुण्यैर्निवसत्येष भूपतिः

2.117.30

पुरुषैः पुण्यकर्माख्यैरीदृशं पुण्यमुत्तमम् ।
जनितव्यं महाभाग किमन्यैः शोककारकैः

2.117.31

यथा जातः स धर्मात्मा नहुषः पितृतारकः ।
कुलस्य धर्त्ता सर्वस्य नहुषो ज्ञानपंडितः

2.117.32

एतत्ते सर्वमाख्यातं चरित्रं तस्य भूपतेः ।
अन्यत्किं ते प्रवक्ष्यामि वद पुत्र कपिंजल

2.117.33

एवंविधं पुण्यमयं पवित्रं चरित्रमेतद्यशसा समेतम् ।
आयोः सुतस्यापि शृणोति मर्त्यो भोगान्स भुक्त्वैति पदं मुरारेः

2.117.117

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने सप्तदशाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc