भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.114

2.114.1

कुंजल उवाच-
अथ ते दानवाः सर्वे हुंडस्य परिचारकाः ।
नहुषस्यापि संवादं रंभया तु यथाश्रुतम्

2.114.2

आचचक्षुश्च दैत्येंद्रं हुंडं सर्वं सुभाषितम् ।
तमाकर्ण्य स चुक्रोध दूतं वाक्यमथाब्रवीत्

2.114.3

गच्छ वीर ममादेशाज्जानीहि पुरुषं हि तम् ।
संभाषते तया सार्द्धं पुरुषः शिवकन्यया

2.114.4

स्वामिनिर्देशमाकर्ण्य जगाम लघुदानवः ।
विविक्ते नहुषं वीरमिदं वचनमब्रवीत्

2.114.5

रथेन साश्वसूतेन दिव्येन परितिष्ठति ।
धनुषा दिव्यबाणैस्तु सभायां हि भयंकरः

2.114.6

कस्य केन तु कार्येण प्रेषितः केन वैभवान् ।
अनया रंभया तेऽद्य अन्यया शिवकन्यया

2.114.7

किमुक्तं तत्स्फुटं सर्वं कथयस्व ममाग्रतः ।
हुंडस्य देवमर्दस्य न बिभेति भवान्कथम्

2.114.8

एतन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छसि ।
सत्वरं गच्छ मा तिष्ठ दुःसहो दानवाधिपः

2.114.9

नहुष उवाच-
योऽसावायुर्बली राजा सप्तद्वीपाधिपः प्रभुः ।
तस्य मां तनयं विद्धि सर्वदैत्यविनाशनम्

2.114.10

नहुषं नाम विख्यातं देवब्राह्मणपूजकम् ।
हुंडेनापहृतं बाल्ये स्वामिना तव दानव

2.114.11

सेयं कन्या शिवस्यापि दैत्येनापहृता पुरा ।
घोरं तपश्चरत्येषा हुंडस्यापि वधाय च

2.114.12

योहमादौ हृतो बालस्त्वया यः सूतिकागृहात् ।
दास्या अपि करे दत्तः सूदस्यापि दुरात्मना

2.114.13

वधार्थं श्रूयतां पाप सोहमद्य समागतः ।
अस्यापि हुंडदैत्यस्य दुष्टस्य पापकर्मणः

2.114.14

अन्यांश्च दानवान्घोरान्नयिष्ये यमसादनम् ।
मामेवं विद्धि पापिष्ठ एवं कथय दानवम्

2.114.15

एवमाकर्ण्य तत्सर्वं नहुषस्य महात्मनः ।
गत्वा हुंडं स दुष्टात्मा आचचक्षेऽस्य भाषितम्

2.114.16

निशम्य तन्मुखात्तूर्णं चुक्रोध दितिजेश्वरः ।
कस्मात्सूदेन पापेन तया दास्या न घातितः

2.114.17

सोयं वृद्धिं समायातो मया व्याधिरुपेक्षितः ।
अथैनं घातयिष्यामि अनया शिवकन्यया

2.114.18

आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः ।
एवं सचिंतयित्वा तु सारथिं वाक्यमब्रवीत्

2.114.19

स्यंदनं योजयस्व त्वं तुरगैः साधुभिः शिवैः ।
सेनाध्यक्षं समाहूय इत्युवाच समातुरः

2.114.20

सज्जतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय ।
सारोहैस्तुरगान्योधान्पताकाच्छत्रचामरैः

2.114.21

चतुरंगबलं मेऽद्य योजयस्व हि सत्वरम् ।
एवमाकर्ण्य तत्तस्य हुंडस्यापि ततो लघुः

2.114.22

सेनाध्यक्षो महाप्राज्ञः सर्वं चक्रे यथाविधि ।
चतुरंगेन तेनासौ बलेन महता वृतः

2.114.23

जगाम नहुषं वीरं चापबाणधरं रणे ।
इंद्रस्य स्यंदने युक्तं सर्वशस्त्रभृतां वरम्

2.114.24

उद्यंतं समरे वीरं दुरापं देवदानवैः ।
पश्यंति गगने देवा विमानस्था महौजसः

2.114.25

तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् ।
सूत उवाच-
अथ ते दानवाः सर्वे ववृषुस्तं शरोत्तमैः

2.114.26

खड्गैः पाशैर्महाशूलैः शक्तिभिस्तु परश्वधैः ।
युयुधुः संयुगे तेन नहुषेण महात्मना

2.114.27

संरब्धा गर्जमानास्ते यथा मेघा गिरौ तथा ।
तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान्

2.114.28

इंद्रायुधसमं चापं विस्फार्य स गुणस्वरम् ।
वज्रस्फोटसमः शब्दश्चापस्यापि महात्मनः

2.114.29

नहुषेण कृतो विप्रा दानवानां भयप्रदः ।
महता तेन घोषेण दानवाः प्रचकंपिरे

2.114.30

कश्मलाविष्टहृदया भग्नसत्वा महाहवे

2.114.114

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने चतुर्दशाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc