भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.108

2.108.1

कुंजल उवाच-
ब्रह्मपुत्रो महातेजा वशिष्ठस्तपतां वरः ।
नहुषं तं समाहूय इदं वचनमब्रवीत्

2.108.2

वनं गच्छ स्वशीघ्रेण वन्यमानय पुष्कलम् ।
समाकर्ण्य मुनेर्वाक्यं नहुषो वनमाययौ

2.108.3

तत्र किंचित्सुवृत्तांतं शुश्राव नहुषो बलः ।
अयमेष स धर्मात्मा नहुषो नाम वीर्यवान्

2.108.4

आयोः पुत्रो महाप्राज्ञो बाल्यान्मात्रा वियोजितः ।
अस्यैवातिवियोगेन आयुभार्या प्ररोदिति

2.108.5

अशोकसुंदरी तेपे तपः परमदुष्करम् ।
कदा पश्यति सा देवी पुत्रमिंदुमती शुभा

2.108.6

नाहुषं नाम धर्मज्ञं हृतं पूर्वं तु दानवैः ।
तपस्तेपे निरालंबा शिवस्य तनया वरा

2.108.7

अशोकसुंदरी बाला आयुपुत्रस्य कारणात् ।
अनेनापि कदा सा हि संगता तु भविष्यति

2.108.8

एवं सांसारिकं वाक्यं दिवि चारणभाषितम् ।
शुश्राव स हि धर्मात्मा नहुषो विभ्रमान्वितः

2.108.9

स गत्वा वन्यमादाय वशिष्ठस्याश्रमं प्रति ।
वन्यं निवेद्य धर्मात्मा वशिष्ठाय महात्मने

2.108.10

बद्धांजलिपुटोभूत्वा भक्त्या नमितकंधरः ।
तमुवाच महाप्राज्ञं वशिष्ठं तपतां वरम्

2.108.11

भगवञ्छ्रूयतां वाक्यमपूर्वं चारणेरितम् ।
एष वै नहुषो नाम्ना आयुपुत्रो वियोजितः

2.108.12

मात्रा सह सुदुःखैस्तु इंदुमत्या हि दानवैः ।
शिवस्य तनया बाला तपस्तेपे सुदुश्चरम्

2.108.13

निमित्तमस्य धीरस्य नहुषस्येति वै गुरो ।
एवमाभाषितं तैस्तु तत्सर्वं हि मया श्रुतम्

2.108.14

कोसावायुः स धर्मात्मा कासा त्विंदुमती शुभा ।
अशोकसुंदरी कासा नहुषेति क उच्यते

2.108.15

एतन्मे संशयं जातं तद्भवांश्छेत्तुमर्हति ।
अन्यः कोपि महाप्राज्ञः कुत्रासौ नहुषेति च

2.108.16

तत्सर्वं तात मे ब्रूहि कारणांतरमेव हि ।
वशिष्ठ उवाच-
आयु राजा स धर्मात्मा सप्तद्वीपाधिपो बली

2.108.17

भार्या इंदुमती तस्य सत्यरूपा यशस्विनी ।
तस्यामुत्पादितः पुत्रो भवान्वै गुणमंदिरम्

2.108.18

आयुना राजराजेन सोमवंशस्य भूषणम् ।
हरस्य कन्या सुश्रोणी गुणरूपैरलंकृता

2.108.19

अशोकसुंदरी नाम्ना सुभगा चारुहासिनी ।
तस्य हेतोस्तपस्तेपे निरालंबा तपोवने

2.108.20

तस्या भर्ता भवान्सृष्टो धात्रा योगेन निश्चितः ।
गंगायास्तीरमाश्रित्य ध्यानयोग समाश्रिता

2.108.21

हुंडश्च दानवेंद्रो यो दृष्ट्वा चैकाकिनीं सतीम् ।
तपसा प्रज्वलंतीं च सुभगां कमलेक्षणाम्

2.108.22

रूपौदार्यगुणोपेतां कामबाणैः प्रपीडितः ।
तां बभाषेऽन्तिकं गत्वा मम भार्या भवेति च

2.108.23

एवं सा तद्वचः श्रुत्वा तमुवाच तपस्विनी ।
मा हुंड साहसं कार्षीर्मा जल्पस्व पुनः पुनः

2.108.24

अप्राप्याहं त्वया वीर परभार्या विशेषतः ।
दैवेन मे पुरा सृष्ट आयुपुत्रो महाबलः

2.108.25

नहुषो नाम मेधावी भविष्यति न संशयः ।
देवदत्तो महातेजा अन्यथा त्वं करिष्यसि

2.108.26

ततः शाप्रं पदास्यामि येन भस्मी भविष्यसि ।
एवमाकर्ण्य तद्वाक्यं कामबाणैः प्रपीडितः

2.108.27

व्याजेनापि हृता तेन प्रणीता निजमंदिरे ।
ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः

2.108.28

नहुषस्यैव हस्तेन तव मृत्युर्भविष्यति ।
अजाते त्वयि संजाता वदसे त्वं यथैव तत्

2.108.29

स त्वमायुसुतो वीर हृतो हुंडेन पापिना ।
सूदेन रक्षितो दास्या प्रेषितो मम चाश्रमम्

2.108.30

भवंतं वनमध्ये च दृष्ट्वा चारणकिन्नरैः ।
यत्तु वै श्रावितं वत्स मया ते कथितं पुनः

2.108.31

जहि तं पापकर्तारं हुंडाख्यं दानवाधमम् ।
नेत्राभ्यां हि प्रमुंचंतीमश्रूणि परिमार्जय

2.108.32

इतो गत्वा प्रपश्य त्वं गंगातीरं महाबलम् ।
निपात्य दानवेंद्रं तं कारागृहात्समानय

2.108.33

अशोकसुंदरी याहि तस्या भर्ता भवस्व हि ।
एतत्ते सर्वमाख्यातं प्रश्नस्यास्य हि कारणम्

2.108.34

आभाष्य नहुषं विप्रो विरराम महामतिः

2.108.35

आकर्ण्य सर्वं मुनिना प्रयुक्तमाश्चर्यभूतं स हि चिंत्यमानः ।
तस्यांतमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार

2.108.108

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्यानेऽष्टोत्तरशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc