भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.107

2.107.1

कुंजल उवाच-
अथासौ नारदः स्वर्गादायुराजानमागतः ।
आगत्य कथयामास कस्माद्राजन्प्रशोचसे

2.107.2

पुत्रापहरणं तेऽद्य क्षेमं जातं महामते ।
देवादीनां महाराज एवं ज्ञात्वा तु मा शुचः

2.107.3

सर्वज्ञः सगुणो भूत्वा सर्वविज्ञानसंयुतः ।
सर्वकलाभिसंपूर्ण आगमिष्यति ते सुतः

2.107.4

येनाप्यपहृतस्तेऽद्य बालो देवगुणोपमः ।
आत्मगेहे महाराज कालो नीतो न संशयः

2.107.5

तस्याप्यंतं स वै कर्त्ता महावीर्यो महाबलः ।
स त्वामभ्येष्यते भूप शिवस्य सुतया सह

2.107.6

इंद्रोपेंद्रसमः पुत्रो भविष्यति स्वतेजसा ।
इंद्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः

2.107.7

एवमाभाष्य राजानमायुं देवर्षिसत्तमः ।
जगाम सहसा तस्य पश्यतः सानुगस्य ह

2.107.8

गते तस्मिन्महाभागे नारदे देवसंमिते ।
आयुरागत्य तां राज्ञीं तत्सर्वं विन्यवेदयत्

2.107.9

दत्तात्रेयेण यो दत्तः पुत्रो देववरोत्तमः ।
स वै राज्ञि कुशल्यास्ते विष्णोश्चैव प्रसादतः

2.107.10

येनाप्यसौ हृतः पुत्रः सगुणो मे वरानने ।
शिरस्तस्य गृहीत्वा तु पुनरेवागमिष्यति

2.107.11

इत्याह नारदो भद्रे मा कृथाः शोकमेव च ।
त्यज चैनं महामोहं कार्यधर्मविनाशनम्

2.107.12

भर्तुर्वाक्यं निशम्यैवं राज्ञी इंदुमती ततः ।
हर्षेणापि समाविष्टा पुत्रस्यागमनं प्रति

2.107.13

यथोक्तं देवऋषिणा तत्तथैव भविष्यति ।
दत्तात्रेयेण मे दत्तस्तनपो ह्यजरामरः

2.107.14

भविष्यति न संदेहः प्रतिभात्येनमेव हि ।
इत्येवं चिंतयित्वा तु ननाम द्विजपुंगवम्

2.107.15

नमोस्तु तस्मै परिसिद्धिदाय अत्रेः सुपुत्राय महात्मने च ।
यस्य प्रसादेन मया सुपुत्रः प्राप्तः सुधीरः सुगुणः सुपुण्यः

2.107.16

एवमुक्त्वा तु सा देवी विरराम सुदुःखिता ।
आगमिष्यंतमाज्ञाय नहुषं तनयं पुनः

2.107.107

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने सप्तोत्तरशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc