भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.105

2.105.1

कुञ्जल उवाच-
गता सा नन्दनवनं सखीभिः सह क्रीडितुम्।
तत्राकर्ण्य महद्वाक्यमप्रियं तु तदा पितुः

2.105.2

चारणानां सुसिद्धानां भाषतां हर्षणेन तु।
आयोर्गेहे महावीर्यो विष्णुतुल्यपराक्रमः

2.105.3

भविष्यति सुतश्रेष्ठो हुण्डस्यांतं करिष्यति ।
एवंविधं महद्वाक्यमप्रियं दुःखदायकम्

2.105.4

समाकर्ण्य समायाता पितुरग्रे निवेदितम् ।
समासेन तया तस्य पुरतो दुःखदायकम्

2.105.5

पितुरग्रे जगादाथ पिता श्रुत्वा स विस्मितः ।
शापमशोकसुंदर्याः सस्मार च पुराकृतम्

2.105.6

एतस्यार्थे तपस्तेपे सेयं चाशोकसुंदरी ।
गर्भस्य नाशनायैव इंदुमत्याः स दानवः

2.105.7

विचक्रे उद्यमं दुष्टः कालाकृष्टो दुरात्मवान् ।
छिद्रान्वेषी ततो भूत्वा इंदुमत्यास्तु नित्यशः

2.105.8

यदा पश्यति तां राज्ञीं रूपौदार्यगुणान्विताम् ।
दिव्यतेजः समायुक्तां रक्षितां विष्णुतेजसा

2.105.9

दिव्येन तेजसा युक्तां सूर्यबिंबोपमां तु ताम् ।
तस्याः पार्श्वे महाभाग रक्षणार्थं स्थितः सदा

2.105.10

दूरात्स दानवो दुष्टस्तस्याश्च बहुदर्शयन् ।
नानाविद्यां महोग्रां च भीषिकां सुविभीषिकाम्

2.105.11

गर्भस्य तेजसा युक्ता रक्षिता विष्णुतेजसा ।
भयं न जायते तस्या मनस्येव कदापुनः

2.105.12

विफलो दानवो जात उद्यमश्च निरर्थकः ।
मनीप्सितं नैव जातं हुंडस्यापि दुरात्मनः

2.105.13

एवं वर्षशतं पूर्णं पश्यमानस्य तस्य च ।
प्रसूता सा हि पुत्रं च स्वर्भानोस्तनया तदा

2.105.14

रात्रावेव सुतश्रेष्ठ तस्याः पुत्रो व्यजायत ।
तेजसातीव भात्येष यथा सूर्यो नभस्तले

2.105.15

सूत उवाच-
अथ दासी महादुष्टा काचित्सूतिगृहागता ।
अशौचाचारसंयुक्ता महामंगलवादिनी

2.105.16

तस्याः सर्वं समाज्ञाय स हुंडो दानवाधमः ।
दास्या अंगं प्रविश्यैव प्रविष्टश्चायुमन्दिरे

2.105.17

महाजने प्रसुप्ते च निद्रयातीवमोहिते ।
तं पुत्रं देवगर्भाभमपहृत्य बहिर्गतः

2.105.18

कांचनाख्यपुरे प्राप्तः स्वकीये दानवाधमः ।
समाहूय प्रियां भार्यां विपुलां वाक्यमब्रवीत्

2.105.19

वधस्वैनं महापापं बालरूपं रिपुं मम ।
पश्चात्सूदस्य वै हस्ते भोजनार्थं प्रदीयताम्

2.105.20

नानाभेदैर्विभेदैश्च पाचयस्व हि निर्घृणम् ।
सूदहस्तान्महाभागे पश्चाद्भोक्ष्ये न संशयः

2.105.21

वाक्यमाकर्ण्य तद्भर्तुर्विपुला विस्मिताभवत् ।
कस्मान्निर्घृणतां याति भर्त्ता मम सुनिष्ठुरः

2.105.22

सर्वलक्षणसंपन्नं देवगर्भोपमं सुतम् ।
कस्य कस्मात्प्रभक्ष्येत क्षमाहीनः सुनिर्घृणः

2.105.23

इत्येवं चिंतयामास कारुण्येन समन्विता ।
पुनः पप्रच्छ भर्तारं कस्माद्भक्ष्यसि बालकम्

2.105.24

कस्माद्भवसि संक्रुद्धो अतीव निरपत्रपः ।
सर्वं मे कारणं ब्रूहि तत्त्वेन दनुजेश्वर

2.105.25

आत्मदोषं च वृत्तांतं समासेन निवेदितम् ।
शापमशोकसुंदर्या हुंडेनापि दुरात्मना

2.105.26

तया ज्ञातं तु तत्सर्वं कारणं दानवस्य वै ।
वध्योऽयं बालकः सत्यं नो वा भर्त्ता मरिष्यति

2.105.27

इत्येवं प्रविचार्यैव विपुला क्रोधमूर्च्छिता ।
मेकलां तु समाहूय सैरंध्रीं वाक्यमब्रवीत्

2.105.28

जह्येनं बालकं दुष्टं मेकलेऽद्य महानसे ।
सूदहस्ते प्रदेहि त्वं हुण्डभोजनहेतवे

2.105.29

मेकला बालकं गृह्य सूदमाहूय चाब्रवीत् ।
राजादेशं कुरुष्वाद्य पचस्वैनं हि बालकम्

2.105.30

एवमाकर्णितं तेन सूदेनापि महात्मना ।
आदाय बालकं हस्ताच्छस्त्रमुद्यम्य चोद्यतः

2.105.31

एष वै देवदेवस्य दत्तात्रेयस्य तेजसा ।
रक्षितस्त्वायुपुत्रश्च स जहास पुनः पुनः

2.105.32

हसंतं तं समालोक्य स सूदः कृपयान्वितः ।
सैरंध्री च कृपायुक्ता सूदं तं प्रत्यभाषत

2.105.33

नैष वध्यस्त्वया सूद शिशुरेव महामते ।
दिव्यलक्षणसंपन्नः कस्य जातः सुसत्कुले

2.105.34

सूद उवाच-
सत्यमुक्तं त्वया भद्रे वाक्यं वै कृपयान्वितम् ।
राजलक्षणसंपन्नो रूपवान्कस्य बालकः

2.105.35

कस्माद्भोक्ष्यति दुष्टात्मा हुंडोऽयं दानवाधमः ।
येन वै रक्षितो वंशः पूर्वमेव सुकर्मणा

2.105.36

आपत्स्वपि स जीवेत दुर्गेषु नान्यथा भवेत् ।
सिंधुवेगेन नीतस्तु वह्निमध्ये गतोऽथवा

2.105.37

जीवतेनात्र संदेहो यश्च कर्मसहायवान् ।
तस्माद्धि क्रियते कर्म धर्मपुण्यसमन्वितम्

2.105.38

आयुष्मंतो नरास्तेन प्रवदंति सुखं ततः ।
तारकं पालकं कर्म रक्षते जाग्रते हि तत्

2.105.39

मुक्तिदं जायते नित्यं मैत्रस्थानप्रदायकम् ।
दानपुण्यान्वितं कर्म प्रियवाक्यसमन्वितम्

2.105.40

उपकारयुतं यश्च करोति शुभकृत्तदा ।
तमेव रक्षते कर्म सर्वदैव न संशयः

2.105.41

अन्ययोनिं प्रयाति स्म प्रेरितः स्वेन कर्मणा ।
किं करोति पिता माता अन्ये स्वजनबान्धवाः

2.105.42

कर्मणा निहतो यस्तु न स्युस्तस्य च रक्षणे ।
सूत उवाच-
येनैव कर्मणा चैव रक्षितश्चायुनंदनः

2.105.43

तस्मात्कृपान्वितो जातः सूदः कर्मवशानुगः ।
सैरंध्री च तथा जाता प्रेरिता तस्य कर्मणा

2.105.44

द्वाभ्यामेव सुतश्चायो रक्षितश्चारुलक्षणः ।
रात्रावेव प्रणीतोऽसौ तस्माद्गेहान्महाश्रमे

2.105.45

वशिष्ठस्याश्रमे पुण्ये सैरंध्र्या पुण्यकर्मणा ।
शुभे पर्णकुटीद्वारे तस्मिन्नेव महाश्रमे

2.105.46

गता सा स्वगृहं पश्चान्निक्षिप्य बालकोत्तमम् ।
एणं निपात्य सूदेन पाचितं मांसमेव हि

2.105.47

भोजयित्वा सुदैत्येंद्रो हुंडो हृष्टोभवत्तदा ।
शापमशोकसुंदर्या मोघं मेने तदासुरः

2.105.48

हर्षेण महताविष्टः स हुंडो दानवेश्वरः ।
कुंजल उवाच-
प्रभाते विमले जाते वशिष्ठो मुनिसत्तमः

2.105.49

बहिर्गतो हि धर्मात्मा कुटीद्वारात्प्रपश्यति ।
संपूर्णं बालकं दृष्ट्वा दिव्यलक्षणसंयुतम्

2.105.50

संपूर्णेंदुप्रतीकाशं सुंदरं चारुलोचनम् ।
वशिष्ठ उवाच-
पश्यंतु मुनयः सर्वे यूयमागत्य बालकम्

2.105.51

कस्य केन समानीतं रात्रौ द्वारांगणे मम ।
देवगंधर्वगर्भाभं राजलक्षणसंयुतम्

2.105.52

कंदर्पकोटिसंकाशं पश्यंतु मुनयोऽमलम् ।
महाकौतुकसंयुक्ता हृष्टा द्विजवरास्ततः

2.105.53

समपश्यन्सुतं ते तु आयोश्चैव महात्मनः ।
वशिष्ठः स तु धर्मात्मा ज्ञानेनालोक्य बालकम्

2.105.54

आयुपुत्रं समाज्ञातं चरित्रेण समन्वितम् ।
वृत्तांतं तस्य दुष्टस्य हुण्डस्यापि दुरात्मनः

2.105.55

कृपया ब्रह्मपुत्रस्तु समुत्थाय सुबालकम् ।
कराभ्यामथ गृह्णाति यावद्द्विजो वरोत्तमः

2.105.56

तावत्पुष्पसुवृष्टिं च चक्रुर्देवाः सुतोपरि ।
ललितं सुस्वरं गीतं जगुर्गंधर्वकिन्नराः

2.105.57

ऋषयो वेदमंत्रैस्तु स्तुवंति नृपनंदनम् ।
वशिष्ठस्तं समालोक्य वरं वै दत्तवांस्तदा

2.105.58

नहुषेत्येव ते नाम ख्यातं लोके भविष्यति ।
हुषितो नैव तेनापि बालभावैर्नराधिप

2.105.59

तस्मान्नहुष ते नाम देवपूज्यो भविष्यसि।
जातकर्मादिकं कर्म तस्य चक्रे द्विजोत्तमः

2.105.60

व्रतदानं विसर्गं च गुरुशिष्यादिलक्षणम्।
वेदं चाधीत्य संपूर्णं षडंगं सपदक्रमम्

2.105.61

सर्वाण्येव च शास्त्राणि अधीत्य द्विजसत्तमात्।
वशिष्ठाच्च धनुर्वेदं सरहस्यं महामतिः

2.105.62

शस्त्राण्यस्त्राणि दिव्यानि ग्राहमोक्षयुतानि च।
ज्ञानशास्त्रादिकं न्याय राजनीतिगुणादिकान्

2.105.63

वशिष्ठादायुपुत्रश्च शिष्यरूपेण भक्तिमान्।
एवं स सर्वनिष्पन्नो नाहुषश्चातिसुंदरः

2.105.64

वशिष्ठस्य प्रसादाच्च चापबाणधरोभवत्

2.105.105

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे पंचोत्तरशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc