भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.104

2.104.1

कुंजल उवाच-
गते तस्मिन्महाभागे दत्तात्रेये महामुनौ ।
आजगाम महाराज आयुश्च स्वपुरं प्रति

2.104.2

इंदुमत्या गृहं हृष्टः प्रविवेश श्रियान्वितम् ।
सर्वकामसमृद्धार्थमिंद्रस्य सदनोपमम्

2.104.3

राज्यं चक्रे स मेधावी यथा स्वर्गे पुरंदरः ।
स्वर्भानुसुतया सार्द्धमिंदुमत्या द्विजोत्तम

2.104.4

सा च इंदुमती राज्ञी गर्भमाप फलाशनात् ।
दत्तात्रेयस्य वचनाद्दिव्यतेजः समन्वितम्

2.104.5

इंदुमत्या महाभाग स्वप्नं दृष्टमनुत्तमम् ।
रात्रौ दिवान्वितं तात बहुमंगलदायकम्

2.104.6

गृहांतरे विशंतं च पुरुषं सूर्यसन्निभम् ।
मुक्तामालान्वितं विप्रं श्वेतवस्त्रेणशोभितम्

2.104.7

श्वेतपुष्पकृतामाला तस्य कंठे विराजते ।
सर्वाभरणशोभांगो दिव्यगंधानुलेपनः

2.104.8

चतुर्भुजः शंखपाणिर्गदाचक्रासिधारकः ।
छत्रेण ध्रियमाणेन चंद्रबिंबानुकारिणा

2.104.9

शोभमानो महातेजा दिव्याभरणभूषितः ।
हारकंकणकेयूर नूपुराभ्यां विराजितः

2.104.10

चंद्रबिंबानुकाराभ्यां कुंडलाभ्यां विराजितः ।
एवंविधो महाप्राज्ञो नरः कश्चित्समागतः

2.104.11

इंदुमतीं समाहूय स्नापिता पयसा तदा ।
शंखेन क्षीरपूर्णेन शशिवर्णेन भामिनी

2.104.12

रत्नकांचनबद्धेन संपूर्णेन पुनः पुनः ।
श्वेतं नागं सुरूपं च सहस्रशिरसं वरम्

2.104.13

महामणियुतं दीप्तं धामज्वालासमाकुलम् ।
क्षिप्तं तेन मुखप्रांते दत्तं मुक्ताफलं पुनः

2.104.14

कंठे तस्याः स देवेश इंदुमत्या महायशाः ।
पद्मं हस्ते ततो दत्वा स्वस्थानं प्रति जग्मिवान्

2.104.15

एवंविधं महास्वप्नं तया दृष्टं सुतोत्तमम् ।
समाचष्ट महाभागा आयुं भूमिपतीश्वरम्

2.104.16

समाकर्ण्य महाराजश्चिंतयामास वै पुनः ।
समाहूय गुरुं पश्चात्कथितं स्वप्नमुत्तमम्

2.104.17

शौनकं सुमहाभागं सर्वज्ञं ज्ञानिनां वरम् ।
राजोवाच-
अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम

2.104.18

विप्रो गेहं विशन्दृष्टः किमिदं स्वप्नकारणम् ।
शौनक उवाच-
वरो दत्तस्तु ते पूर्वं दत्तात्रेयेण धीमता

2.104.19

आदिष्टं च फलं राज्ञां सुगुणं सुतहेतवे ।
तत्फलं किं कृतं राजन्कस्मै त्वया निवेदितम्

2.104.20

सुभार्यायै मया दत्तमिति राज्ञोदितं वचः ।
श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः

2.104.21

दत्तात्रेयप्रसादेन तव गेहे सुतोत्तमः ।
वैष्णवांशेन संयुक्तो भविष्यति न संशयः

2.104.22

स्वप्नस्य कारणं राजन्नेतत्ते कथितं मया ।
इंद्रोपेंद्र समः पुत्रो दिव्यवीर्यो भविष्यति

2.104.23

पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य वर्द्धनः ।
धनुर्वेदे च वेदे च सगुणोसौ भविष्यति

2.104.24

एवमुक्त्वा स राजानं शौनको गतवान्गृहम् ।
हर्षेण महताविष्टो राजाभूत्प्रियया सह

2.104.104

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुरधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc