पादार्थधर्मसंग्रह · अध्याय 4
इहेदानीम्.एकैकशो.वैधर्म्यम्.उच्यते.॥.
पृथिवीत्वाभिसम्बन्धात्.पृथिवी.।.रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती.।
एते.च.गुणविनिवेशाधिकारे.रूपादयो.गुणविशेषाः.सिद्धाः.।.`चाक्षुषऽ-वचनात्.सप्तसङ्ख्यादयः.।.पतनोपदेशाद्.गुरुत्वम्.।.`अद्भिः.सामान्यऽ-वचनाद्.द्रव्यत्वम्.।.`उत्तरकर्मऽ-वचनात्.संस्कारः.।
क्षिताव्.एव.गन्धः.।.रूपम्.अनेकप्रकारम्.शुक्लादि.।.रसः.षड्विधो.मधुरादिः.।.गन्धो.द्विविधः.सुरभिर्.असुरबिह्श्.च.।.स्पर्शो.ऽस्या.अनुष्णाशीतत्वे.सति.पाकजः.।.
सा.तु.द्विविधा.।.नित्या.चानित्या.च.।.परमाणुलक्षणा.नित्या.।.कार्यलक्षणा.त्व्.अनित्या.।.सा.च.स्थैर्याद्यवयवसन्निवेशविशिष्टा.ऽपरजातिबहुत्वोपेता.शयनासनाद्यनेकोपकारकरी.च.।.त्रिविधम्.चास्याः.कार्यम्.।.शरीरेन्द्रियविषयसंज्ञकम्.॥.
शरीरम्.द्विविधम्.।.योनिजम्.अयोनिजम्.च.।.तत्रायोनिजम्.अनपेक्ष्य.शुक्रशोणितम्.देवर्षीणाम्.धर्मविशेषसहितेभ्यो.ऽणुभ्यो.जायते.।
क्षुद्रजन्तूनाम्.यातनाशरीराण्य्.अधर्मविशेषसहितेभ्यो.ऽणुभ्यो.जायन्ते.।.शुक्रशोणितसन्निपातजम्.योनिजम्.।.तद्.विविधम्.जरायुजम्.अण्डजम्.च.।.माणुषपशुमृगाणाम्.जरायुजम्.।.पक्षिसरीसृपाणाम्.अण्डजम्.॥.
इन्द्रियम्.गन्धव्यंजकम्.सर्वप्राणिनाम्.जलाद्यनभिभूतैः.पार्थिवावयवैर्.आरब्धम्.घ्राणम्.।
विषयस्.तु.द्व्यणुकादिक्रमेणारब्धस्.त्रिविधो.मृत्पाषाणस्थावरलक्षणः.।.तत्र.भूप्रदेशाः.प्राकारेष्टकादयः.मृत्प्रकाराः.।.पाषाणा.उपलमणिवज्रादयः.।.स्थावरास्.तृणौषधिवृक्षगुल्मलतावतानवनस्पतय.इति.॥.
अप्त्वाभिसम्बन्धाद्.आपः.।.रूपरसस्पर्शद्रवत्वस्नेहसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वसंस्कारवत्यः.।
पूर्ववद्.एषाम्.सिद्धिः.।
शुक्लमधुरशीता.एव.रूपरसस्पर्शाः.।.स्नेहो.ऽम्भस्य्.एव.सांसिद्धिकम्.च.द्रवत्वम्.।
ताश्.च.पूर्ववद्.द्विविधाः.।.नित्यानित्यभावात्.।.तासाम्.तु.कार्यम्.त्रिविधम्.।.शरीरेन्द्रियविषयसंज्ञकम्.।
तत्र.शरीरम्.अयोनिजम्.एव.वरुणलोके,.पार्थिवावयवोपष्टम्भाच्.चोपभोगसमर्थम्.।
इन्द्रियम्.सर्वप्राणिनाम्.रसव्यंजकम्.विजात्यनभिभूतैर्.जलावयवैर्.आरब्धम्.रसनम्.।
विषयस्.तु.सरित्समुद्रहिमकरकादिः.॥
तेजस्त्वाभिसम्बन्धात्.तेजः.।.रूपस्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वद्रवत्वसंस्कारवत्.।
पूर्ववद्.एषाम्.सिद्धिः.।
तत्र.शुक्लम्.भास्वरम्.च.रूपम्.।.उष्ण.एव.स्पर्शः.।
तद्.अपि.द्विविधम्.अणुकार्यभावात्.।.कार्यम्.च.शरीरादित्रयम्.।
शरीरम्.अयोनिजम्.आदित्यलोके,.पार्थिवावयवोपष्टम्भाच्.चोपभोगसमर्थम्.।
इन्द्रियम्.सर्वप्राणिनाम्.रूपव्यंजकम्.अन्यावयवानभिभूतैस्.तेजो.ऽवयवैर्.आरब्धम्.चक्षुः.।
विषयसंज्ञकम्.चतुर्विधम्.।.भौमम्.दिव्यम्.उदर्यम्.आकरजम्.च.।.तत्र.भौमम्.काष्ठेन्धनप्रभवम्.ऊर्ध्वज्वलनस्वभावम्.पचनदहनस्वेदनादिसमर्थम्.दिव्यम्.अबिन्धनम्.सौरविद्युदादि.भुक्तस्याहारस्य.रसादिपरिणामार्थम्.उदर्यम्.आकरजम्.च.सुवर्णादि.।
तत्र.सम्युक्तसमवायाद्.रसाद्युपलब्धिर्.इति.॥
वायुत्वाभिसम्बन्धाद्.वायुः.।.स्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वसंस्कारवान्.।
स्पर्शो.ऽस्यानुष्णाशीतत्वे.सत्य्.अपाकजः.।.गुणविनिवेशात्.सिद्धः.।.`अरूपिष्व्.अचाक्षुषऽ-वचनात्.सप्त.सङ्ख्यादयः.।.तृणकर्मवचनात्.संस्कारः.।
स.चायम्.द्विविधो.ऽणुकार्यभावात्.।
तत्र.कार्यलक्षणश्.चतुर्विधः.शरीरम्.इन्द्रियम्.विषयः.प्राण.इति.।
तत्रायोनिजम्.एव.शरीरम्.मरुताम्.लोके.पार्थिवावयवोपष्टम्भाच्.चोपभोगसमर्थम्.।
इन्द्रियम्.सर्वप्राणिनाम्.स्पर्शोपलम्भकम्.पृथिव्याद्यनभिभूतैर्.वाय्ववयवैर्.आरब्धम्.सर्वशरीरव्यापि.त्वगिन्द्रियम्.।
विषयस्.तूपलभ्यमानस्पर्शाधिष्ठानभूतः.स्पर्शशब्दधृतिकम्पलिङ्गस्.तिर्यग्गमनस्वभावो.मेघादिप्रेरणधारणादिसमर्थः.।
तस्याप्रत्यक्षस्यापि.नानात्वम्.सम्मूर्च्छनेनानुमीयते.।.सम्मूर्च्छनम्.पुनः.समानजवयोर्.वाय्वोर्.विरुद्धदिक्क्रिययोः.सन्निपातः.।.सो.ऽपि.सावयविनोर्.वाय्वोर्.ऊर्ध्वगमनेनानुमीयते;.तद्.अपि.तृणादिगमनेनेति.॥
प्राणो.ऽन्तह्सेरीरे.रसमलधातूनाम्.प्रेरणादिहेतुर्.एकः.सन्.क्रियाभेदाद्.अपानादिसंज्ञाम्.लभते.॥
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0